________________ 148 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते भवतः / शिरस्पदम्, अधस्पदम् / पद इति किम् ? [शिरसः खण्डम्] शिरःखण्डम् / समासे इति किम् ? शिरः पदम् / ऐक्य इति किम् ? परमशिरः पदम् // 4 // अ० शिरसि पदं शिरस्पदम् अथवा शिरसः पदम् / / एवं अधोऽव्ययः / अधः पदम् इत्येवं वाक्यम् / परमं च तत् शिरश्च परमशिरः, तस्मिन् तस्य वा पदम् / परमशिरश्च तत्पदं च इति वा कार्यम् // 4|| ____ अतः कृकमिकंसकुम्भकुशाकर्णीपात्रेऽनव्ययस्य // 2 // 3 // 5 // अकारात्परस्य अनव्ययस्य रेफस्य कृकम्यादिस्थेषु कखपफेषु परेषु सो भवति, चेनिमित्तनिमित्तिनावेकत्र समासे स्याताम् / कृ-अयस्कृत् अयस्कारः / कमि-यशस्कामः / कंस-[अयसा मिश्रः कंसः] अयस्कंसः / कुम्भ[पयसः कुम्भः] पयस्कुम्भः। कुशा-[अयसः कुशा] अयस्कुशा / कर्णी-अयस्की / पात्र-[पयसः पात्रम्] पयस्पात्रम् / पीयतेऽस्मादिति पात्रम् // अत इति किम् ? गीः कारः, वाः पात्रम् / भास्कर इति तु कस्कादिः [शुनस्कर्ण इत्यपि 'भ्रातुष्पुत्रकस्कादयः'] / अनव्ययस्येति किम् ? स्वः कारः [स्वः करोति स्वःकारः] / समास इत्येव-यशः करोति / ऐक्य इत्येव-पयःपात्रखण्डनम् [अयःकुम्भपानम् / कमिग्रहणात् कामयतेन स्यात्-पयःकामा / कमेस्त्वणि ['कर्मणोऽण्' (5 / 1 / 72)] पयस्कामीति भवति / कथं पयस्कामा ? कमनं कामः, पयसि कामोऽस्या इति बहुव्रीहिना भविष्यति // 5 // अ० अयस्कर्णी इत्यत्र अय इव कर्णौ यस्या इति बहुव्रीहौ 'नासिकोदरोष्ठजवादन्तकर्ण०' (2 / 4 / 39) इत्यादिना विकल्पेन डीः, अयस्कर्णी अयस्कर्णा इति रूपद्वयम् / समुदायस्य तु जातिवाचित्वे प्रतिपाद्ये अयसः कर्ण इव कर्णौ यस्या इति वाक्ये 'पाककर्णपर्ण०' (2 / 4 / 55) इति नित्यं डीः अयस्कर्णी इत्येकमेव रूपम् / अय इव कर्णोऽस्य इत्यपि कृते 'गौरादिभ्यो मुख्यान्डीः' (2 / 4 / 19) इति ङीः / कमिग्रहणात्कामयतेन स्यात्, पयःकामा इत्यादि-पयस्-अग्रे 'कमूङ कान्तौ' 'कमेर्णिङ्' (3 / 4 / 2) 'ञ्णिति' (4 / 3 / 50) वृद्धिः / कामि / पयः कामयते पयःकामा इति वाक्ये 'शीलिकामिभक्ष्याचरीक्षिक्षमो णः' (5 / 173) इति सूत्रेण णप्रत्ययः, ‘णेरनिटि' (4 / 3 / 83), 'आत्' (2 / 4 / 18) यत्र कमिपरतो णिङ् क्रियते तत्र रेफस्य सकारो न भवति, विसर्ग एव भवति / यत्र कमिधातुपरतो घञादयः, तत्र रकारस्य सकारः-पयस्कामा पयस्कामी इत्यादि प्रयोगा ज्ञातव्याः / अयः करोति अयस्कृत् 'क्विप्' (5 / 1 / 148) 'हस्वस्य तः पित्कृति' (4 / 4 / 113) इति तोऽन्तः / अयः करोति अयस्कारः 'कर्मणोऽण्' (5 / 1 / 72) / 'कमूङ् कान्तौ' कमनं कामः ‘भावाकोंः ' (5 / 3 / 18) इति सूत्रेण घञ् यशसि कामोऽस्य / पात्रस्य खण्डं पात्रखण्डम् पयसः पात्रखण्डं पयः पात्रखण्डम्-अत्र हि निमित्तनिमित्तिनौ नैकसमासवर्त्तमानौ / यदा तु एवं समासः-अयसः कुम्भोऽयस्कुम्भः, अयस्कुम्भस्य कपालम्, तदा भवत्येव / पयसः पात्रं पयस्पात्रम्, तस्य खण्डं पयस्पात्रखण्डम्, इति तदा भवत्येव / / 5 / / प्रत्यये // 2 // 3 // 6 // अनन्ययस्य रेफस्य प्रत्ययविषये कखपफे सः स्यात् / पयस्पाशम् पयस्कल्पम् पयस्कम् यशस्कम् / अनव्ययस्येत्येव-प्रातः कल्पम् / प्रत्यय इति किम् ? पाशो बन्धः, कल्पो विधिः, कं शिरः, पयःपाशः, पयःकल्पः, पयःकम् // 6 // अ० पयस्, निन्द्यं पयसः पयस्पाशं निन्द्ये पाशप्' इति सूत्रेण पाशप्प्रत्ययः / पयस्, ईषदसमाप्तः पयः पय