________________ 149 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः स्कल्पम् ‘अतमंबादेरीषदसमाप्ते कल्पप्-देश्यप्-देशीयर्' (7 / 3 / 11) इति सूत्रेण कल्पप्प्रत्ययः / पय एव पयस्कं 'यावा-दिभ्यः कः' (7 / 3 / 15) पाशकल्पका इति प्रत्यया ज्ञातव्या नतु पाशकल्पका इति शब्दाः / प्रातःकल्पम् -ईषदसमाप्तं प्रातः प्रातःकल्पम् / पयसि पाशः, बन्धः / पयसः कल्पः, आचारः पयसि कम्, शिरः / / 6 / / रोः काम्ये // 2 // 3 // 7 // अनव्ययस्य रेफस्य रोरेव काम्यप्रत्यये सः स्यात् / पयस्काम्यति [पय इच्छति] / यशस्काम्यति / रोरिति किम् ? अहः काम्यति / द्वाः काम्यति / वाः काम्यति / प्रत्यय इत्येव-नरैः काम्यम् / पूर्वेणैव सिद्धे रोरेवेति नियमार्थं वचनम् // 7 // अ० 'सो रुः' (2 / 1 / 72) इत्यादि सूत्रैर्यत्र सकारादिस्थाने रुआदेशस्तत्र च ‘रोः काम्ये' इति सूत्रेण रुस्थाने सकारः क्रियते, नतु केवलरकारस्य इत्यर्थः / अहरिच्छति अहःकाम्यति, 'द्वितीयायाः काम्य' (3 / 4 / 22), 'रो लुप्यरि' (2 / 1 / 75) इत्यनेन नकारस्य रकारः / / 7 / / नामिनस्तयोः षः // 2 // 3 // 8 // [इत आरभ्य ‘भ्रातुः पुत्रकस्कादयः' (2 / 3 / 14) इति यावत् रेफस्य षकारादेशे सप्तसूत्राणि ज्ञातव्यानि] तयोः-'प्रत्यये' 'रोः काम्ये' इति सूत्रद्वयोपात्तयोः [गृहीतयोः], पाशकल्पक-काम्यप्रत्यययोः, परयो मिन उत्तरस्य रेफस्य ष इत्यादेशः स्यात् / सर्पिष्पाशम् [निन्धं सर्पिः] / गीष्पाशा [निन्द्या गी:] / सर्पिष्कल्पम् [ईषदसमाप्तं सर्पिः] / गीष्कल्पा [ईषदसमाप्ता गीः] / साप्पिष्कः, धानुष्कः / सर्पिष्काम्यति [सपिरिच्छति / तयोरिति किम् ? मुनि)(करोति / रोः काम्य इत्येव-ग)(काम्यति // 8 // अ० प्रत्यये इति सूत्रे पाशकल्पका इत्युपलक्षणत्वादिकणोऽपि ग्रहणम् / 'सृपं गतौ' सृप, सर्पति गच्छति पिण्डे सबलभावमिति सर्पितम् ‘रुच्यर्चिशुचिहुसृपिच्छादिबृदिभ्य इस्' (989) इत्युणादिसूत्रेण इस्, ततो गुणः / सर्पिः पण्यमस्य सार्पिष्कः 'तदस्य पण्यम्' (6 / 4 / 54) इति सूत्रेण इकण, वृद्धिः, 'ऋवणोवर्णदोसिसुसशश्वदकस्मात् इकस्येतो लुक्' (7 / 471) इति सूत्रेण इकणः सम्बन्धिन इकारस्य लोपः ‘प्रत्यये' इति सूत्रेणात्र रकारस्य सकारस्तस्य 'नामिनस्तयोः षः' इति षः / धानुष्क इत्यत्र 'स्तनधनेति दण्डकधातुः' 'रुद्यर्ति०' (997) इत्युणादित्वात् उस्, धनुःप्रहरणमस्य धानुष्कः 'प्रहरणम्' (6 / 4 / 62) इति सूत्रेण इकण, वृद्धिः ‘ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' इति इकण इकारस्य लोपः, 'सो रुः' 'नामिनस्तयोः षः' इति रस्य षः // 8 // निर्दुर्बहिराविःप्रादुश्चतुराम् // 2 // 3 // 9 // निरादीनां रेफस्य कखपफेषु षः स्यात् / निष्कृतम् निष्पीतम् / दुष्कृतम् दुष्पीतम् / बहिष्कृतम् बहिष्पीतम् / आविष्कृतम् / प्रादुष्कृतम् / चतुष्करः / चतुष्पात्रम् // 9 // ___ अ० सूत्रे बहुवचननिर्देशो निस्दुसोः निर्दुरोश्च परिग्रहार्थम् / निःष कोऽर्थः ? नितरां क्रियते निष्कृतम् 'क्लीबे क्तः' (5 / 3 / 123) इति क्तः / नितरां पीयते 'गत्यर्थाऽकर्मकपिबभुजेः (5 / 1 / 11) इति क्तः / एवं दुष्कृतमित्यादि / आविस्प्रादुस्शब्दौ प्राकाश्ये प्रकटीकरणे / चत्वारः करावस्य चतुष्करः // 9 // ___ सुचो वा // 2 // 3 // 10 // सुजन्तानां सम्बन्धिनो रेफस्य कखपफेषु षकारः स्यात्, वा / द्विष्करोति, त्रिष्खनति, चतुष्पचति / निदुखाए।