________________ 150 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते पक्षे द्वि)(करोति द्विः करोति, चतु. पचति चतुःपचति // 10 // सुचो वा // 2 // 3 // 10 // सुजन्तानां सम्बन्धिनो रेफस्य कखपफेषु षकारः स्यात्, वा / द्विष्करोति, त्रिष्खनति, चतुष्पचति / पक्षे द्वि)(करोति द्विः करोति, चतु..पचति चतुःपचति // 10 // अ० द्वौ वारौ, त्रीन् वारान्, चतुरो वारान् करोति इति वाक्यानि 'द्वित्रिचतुरः सुच्' (7 / 2 / 110) इति सूत्रेण सुच्प्रत्ययः / सिः 'अव्ययस्य' (3 / 2 / 7) लुप्, 'रात्सः' (2 / 1 / 90) इति सकारलोपः ‘र: कखपफयोः )(क पौ' (1 / 3 / 5) इति जिह्वामूलीय-उपध्मानीय-विसर्गाश्च भवन्ति / चतुर् इति परतो यत्र सुच् क्रियते, तत्र ‘सुचो वा' (2 / 3 / 10) इति सूत्रेण विकल्प एव, षकारविषये कर्तव्ये 'निर्दुर्बहि०' इत्यादिपूर्वसूत्रेण नित्यं षत्वं न कर्तव्यम्, परत्वात् विशेषविधित्वाच्च // 10 // वेसुसोऽपेक्षायाम् // 2 // 3 // 11 // इस्-उस्प्रत्ययान्तस्य रेफस्य कखपफेषु षो वा भवति / अपेक्षायाम्-चेत् स्थानिनिमित्ते [प्रथमा औ] पदे परस्पररापेक्षे भवतः / सर्पिष्करोति, सर्पिष्पिबति, धनुष्करोति / पक्षे सर्पिः करोति सर्पि (रोतीत्यादि / इसुसोः प्रत्यययोर्ग्रहणादिह न भवति-मुनि रोति, मुहु. पचति / अपेक्षायामित्येव तिष्ठतु सर्पिः पिब त्वमुदकम् // 11 // ___ अ० इह ‘प्रत्ययाप्रत्यययोः प्रत्यये कार्यम्' 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' 'अर्थवद्ग्रहणे नानर्थकस्य' इति न्यायबलात् इस्-उसोः प्रत्यययोरेव ग्रहणम्, तेन इह मुनिस् मुहुस् इत्यादौ न भवति / मुहुरित्यव्युत्पन्नमव्यम् / / 11 / / . नैकार्थेऽक्रिये // 2 // 3 // 12 // एकार्थे [कोऽर्थः]-समानाधिकरणेऽक्रिये पदे परे कखपफेषु इसुस्सम्बन्धिरेफस्य षकारो न स्यात् / सर्पि)(कालकम् / यजुः पीतकम् / एकार्थ इति किम् ? सर्पिष्कुम्भे 2, धनुष्पुरुषस्य 2, [प्रथमासिः, 'वेसुसोऽपेक्षायाम्' इति षत्वम्] / अक्रिय इति किम् ? सर्पिष्क्रियते 2, धनुष्प्राप्तम् 2, ['वेसुसो०'] इति षत्वम् // 12 // ___ अ० काल एव कालकम् ‘कालात्' (7 / 3 / 19) इति सूत्रेण कप्रत्ययः / सर्पिः कीदृशम् ? कालकम् / सर्पिष्कुम्भे धनुष्पुरुषस्येत्यत्र 'वेसुसोऽपेक्षायाम्' इति षत्वम् / न विद्यते क्रियाप्रवृत्तिनिमित्तं कोऽर्थः ? क्रियारूपम्क्रियते पच्यते प्राप्तमित्यादिशब्दरूपं यस्य एकार्थस्य सोऽक्रियः ‘गोश्चान्ते' (2 / 4 / 96) इत्यादिना हस्वः / 'वेसुसोऽपेक्षायाम्' (2 / 3 / 11) इति कृतस्य विषयेऽयं 'नैकार्थेऽक्रिये' प्रतिषेधः, नान्यस्य सूत्रस्य विषये / विशेषश्चायम्'वेसुसो०' इति सूत्रं क्रियापदे परे सति प्रवर्त्तते, यथा सर्पिष्करोति इति, 'नैकार्थेऽक्रिये' इति सूत्रं क्रियावर्जितशब्दे परे प्रवर्त्तते इति भावः / / 12 / / समासेऽसमस्तस्य // 2 // 3 // 13 // पूर्वपदेनासमस्तस्य इसुस्प्रत्ययान्तस्य रेफस्य कखपफे परे षकारो भवति, समासे-तौ चेनिमित्तनिमित्तिनावेकत्र समासे भवतः। सर्पिष्कुम्भः, सर्पिष्कृत्य / सर्पिष्पानम्, धनुष्पृष्ठम्, धनुष्फलम् / समास इति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकम् / असमस्तस्येति किम् ? परमसप्पिः कुण्डम्, इन्द्रधनुः खण्डम् [अत्र 'वेसु