________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः सोऽपेक्षायाम्' इत्यनेन षत्वं न भवति, समासे सत्यऽपेक्षाभावात्] / कथं बहुसर्पिष्कुण्डम् बहुसर्पिष्पात्रम् ? अत्र बहुप्रत्ययादेरप्यसमस्तत्वादनेन नित्यं षकारः // 13 // अ० पूर्वपदेन सह असमासीकृतस्य कोऽर्थः ? केवलस्यैव सर्पिस्-धनुस् इति रूपस्य / सर्पिषः कुम्भः। सर्पिषः पानम् / धनुषः पृष्ठम् / असर्पिः सर्पिः कृत्वा सर्पिष्कृत्य / 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः' (7 / 2 / 126) इति सूत्रेण च्चिप्रत्ययः, 'अप्रयोगीत्' (1 / 1 / 37) च्चिलोपः / 'प्राक्काले' (5 / 4 / 47) क्त्वा “अनञः क्त्वो यप्' (3 / 2 / 154) बहुसर्पिष्कुण्डम्, बहुसर्पिष्पात्रम् / अत्र सर्पिस् ईषदसमाप्तं सर्पिर्बहुसर्पिः, 'नाम्नः प्राग्बहुर्वा' (7 / 3 / 12) इति सूत्रेण बहु पूर्वं क्रियते नाग्रतः / बहुना सह समासः / कथं षत्वमिति पराशयः ? सूरिराह - अत्र बहुप्रत्ययेति-बहुप्रत्यय आदिर्यस्य इसन्तशब्दस्य, तस्य बहुसर्पिषः कुण्डम्, बहुसर्पिषः पात्रम् इति षष्ठीसमासः कार्यः / परमं च तत् सर्पिश्च परमसर्पिः / परमसर्पिषः कुण्डम् / एवं इन्द्रस्य धनुः, इन्द्रधनुषः खण्डम् // 13 // भ्रातुष्पुत्रकस्कादयः // 2 // 3 // 14 // भ्रातुष्पुत्रादयः, कस्कादयश्च शब्दाः कखपफे परे रेफस्थाने यथासङ्ग्यं कृतषत्वसत्वाः साधवो भवन्ति / प्रातुष्पुत्रः / परमसर्पिष्कुण्डिका / [परमं च तत् बर्हिश्च तस्य पूलः] परमबर्हिप्पूलः / कस्कः कौतस्कुतः / शुनस्कर्णः / भ्रातुष्पुत्रसर्पिष्कुण्डिकाधनुष्कपालबर्हिःपूलयजुष्पात्रमिति [पश्चशब्दाः] भ्रातुष्पुत्रादिगणः / कस्कादि आकृतिगणः / सर्वत्र नामिपररेफस्य षत्वम्, अन्यत्र [कस्कादिगणे] सत्वं द्रष्टव्यम् // 14 // ____ अ० कुण्ड. कुण्डस्य तुल्या कुण्डिका 'तस्य तुल्ये कः संज्ञाप्रतिकृत्योः' (7 / 1 / 108) इति सूत्रेण कप्रत्ययः / 'आत्' (2 / 4 / 18) 'अस्यायत्तत्क्षिपकादीनाम्' (2 / 4 / 111) इति इत्वम् / परमं च तत्सर्पिश्च / परमसर्पिषः कुण्डिका / किमः सिः 'किमः कस्तसादौ च' (2 / 1 / 40) 'वीप्सायाम्' (7 / 4 / 80) इति किम् / कस्मात् कुतः 'किमन्यादिसर्वाद्यऽवैपुल्यबहो' (7 / 2 / 89) इति तस् ‘इतोऽतः कुतः' (7 / 2 / 90) इति कुआदेशः 'वीप्सायाम्' इति कुतद्वित्वं कुतस् कुतस् / कुतः कुतः आगतः 'तत आगते' (6 / 3 / 149) इति गणसामर्थ्यात् अण्प्रत्ययः, वृद्धिः / द्वित्वं सिः ‘अव्ययस्य' (3 / 2 / 7) इति लुक 'सो रुः' (2 / 1 / 72) रेफस्य भातुष्पुत्रेति षत्वम् / भातुप्पुत्रादिगणे कस्क कौतस्कुत शुनस्कर्ण सद्यस्काल सद्यस्क्री भास्कर अहस्कर अयस्काण्ड तमस्काण्ड अयस्कान्त अयस्कुण्ड मेदिस्पिण्ड अयस्पिण्ड इति 14 शब्दा कस्कादयः / बहुवचनमाकृतिगणार्थम् तेन यथादर्शनमेतत्सदृशा अन्येऽपि ज्ञातव्याः / कस्कादिगणे रेफस्य सकारो भवति निपातनात् / अहः किरतीति अहस्करः // 14 // नाम्यन्तस्थाकवर्गात् पदान्त कृतस्य सः शिड्नान्तरेऽपि // 2 // 3 // 15 // नामिनोऽन्तस्थायाः कवर्गाच्च परस्य पदान्तः [कोऽर्थः] पदमध्ये कृतस्य विहितस्य कृतसम्बन्धिनो वा सः कोऽर्थः] सकारस्य षः स्यात्, शिटा नकारेण चान्तरेऽपि व्यवधानेऽपि / नामिनःआशिषा अग्निषु नदीषु इत्यादि, जेष्यति अनैषीत् सर्पिष्मान् दोष्मान् इत्यादि / अन्तस्थायाः-धीर्षु धूर्षु गीर्षु / कवर्गात्-वाक्षु शक्ष्यति / शिड्नान्तरेऽपि / सर्पिष्षु सर्पिःषु सपीषि धनूंषि बह्वाशींषि कुलानि / नकारस्यावश्यमनुस्वारभवनात् शिग्रहणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् / तेन मकारानुस्वारेण न भवति-पुंसु / पदान्तरिति किम् ? पदादौ पदान्ते च मा भूत्-दधिसेक् बहुसेक्, पदान्ते-अग्निस्तत्र / 1. 'गतिकन्यस्०' 3 / 1142 / अनेन तत्पुरुषसमास अत एव. 2. अनेन क्त्वाप्रत्ययस्य यप् आदेशः /