________________ 152 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलते कृतस्येति किम् ? बिसम्, मुसलम् / तिसृभिरित्यत्र विधानबलात् (पत्वं) न भवति // 15 // अ० आदिशब्दात् वायुषु वधूषु पितॄषु एषा गोषु तेषु सिषेवे शिष्यते सुष्वाप लुलूषति / सर्पिष्मान् दोष्मान् इत्यत्र 'न स्तं मत्वर्थे (1 / 1 / 23) इति पदसंज्ञाप्रतिषेधात् पदस्य मध्यत्वमित्थं ज्ञेयम् // शक्ष्यामि ‘शक्लँट् शक्तौ' शक् / भविष्यन्तीस्यति / एवं पिपक्षति-पच् पक्तुमिच्छति सन् / / सर्पिष्षु धनुष्षु-सर्पिस् धनुस्, सुप् ‘सो रुः' (2 / 1 / 72) इति सस्य रुत्वम् ‘शषसे शषसं वा' (1 / 3 / 6) इति रस्य सत्वम् 'नाम्यन्तस्था०' इति सुपः षकारस्य षत्वम्, तदन्तरं 'सस्य शषौ' (1 / 3 / 61) इति सूत्रेण प्रकृतिसकारस्य षकारः सर्पिष्षु धनुष्षु इति साध्यते / सर्पिःषु धनुःषु-अत्र 'रः पदान्ते०' (1 / 3 / 53) इति विसर्गः / शषसे०' इति विकल्पेन प्रवर्त्तते / / सर्पिस् धनुस् जस् 'नपुंसकस्य शिः' (1 / 4 / 55) 'धुटां प्राक्' (1 / 4 / 66) इति नोऽन्तः 'न्स्महतोः' (1 / 4 / 86) दीर्घः / / सिञ्चतीति सेक् 'मन्वन्क्वनिप्वच् क्वचित्' (5 / 1 / 147) / दध्नः सेक् दधिसेक्, ईषदूनः सेक् बहुसेक् 'नाम्नः प्रागबहुर्वा' (7 / 3 / 12) पूर्वं बहुः क्रियते / अत्र 'वृत्त्यन्तोऽसषे' (1 / 1 / 25) इति सूत्रेण पदसंज्ञायां कृतायां पदादित्वात् सस्य षत्वं न भवति / दधिसेक् बहुसेक् इत्युदाहरणद्वयं पदादौ विषये दर्शितम्-अत्र अन्तर्वर्त्तिन्यां विभक्त्या सेक्शब्दस्य पदत्वात्सकारस्य पदादित्वम् / तिसृभिः त्रिचतुरस्तिसृ० (2 / 1 / 1) इति तिसृ-आदेशकरणान्न षत्वम् / / 15 / / समासेऽग्नेः स्तुतः // 2 // 3 // 16 // अग्नेः परस्य स्तुत्सम्बन्धिसकारस्य समासे पः स्यात् / अग्निष्टुत् // 16 // अ० 'वृत्त्यन्तोऽसषे' (1 / 1 / 25) अत्र असष इति वचनात् सकारस्य पदमध्यत्वं नास्ति इति समासेऽग्नेरिति सूत्रं कृतम् / ‘टुंग्क् स्तुतौ' ष्टु 'षः सोऽष्टयै 0' (2 / 3 / 98) 'स्टु निमित्ताभावे०' स्तु / अग्निं स्तौति ‘किप्' (5 / 1 / 148) 'हस्वस्य तः पित्कृति' (4 / 4 / 113) इति तोऽन्तः // 16 / / __ ज्योतिरायुभ्यां च स्तोमस्य // 2 // 3 // 17 // ___ज्योतिरायुरग्नेश्च परस्य स्तोमसम्बन्धिनः सस्य [सकारस्य] षः स्यात्, समासे / ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः / समास इत्येव-ज्योतिः स्तोमं दर्शययति // 17 // अ० ज्योतिषां स्तोमः, आयुषः स्तोमः, अग्नेः स्तोम इति षष्ठीसमासः / स्तोमशब्दः समूहार्थः / स्तोमं वस्तुसमूहम्, वस्तुराशिः // 17 // मातृपितुः स्वसुः // 2 // 3 // 18 // [स्वसृ भगिनी] मातृपितृभ्यां परस्य स्वसृसकारस्य समासे षः स्यात् / मातृष्वसा [मासी] / पितृष्वसा [भूया // 18 // अलुपि वा // 2 // 3 // 19 // मातृपितृभ्यां परस्य स्वसृसकारस्यालुपि समासे षो वा स्यात् / मातुःष्वसा, मातुःस्वसा, / पितुः प्वसा, पितुः स्वसा // 19 // अ० पूर्वेण प्राप्ते विभाषार्थं अलुपि वेति सूत्रं कृतम् // 19 / / निनद्याः स्नाते कौशले // 2 // 3 // 20 // निनदीशब्दाभ्यां परस्य स्नातः सस्य [सकारस्य] समासे षः स्यात्, कौशले-नैपुण्ये गम्यमाने निष्णः, निष्णातो वा पाके / नदीष्णः, नदीष्णातो वा प्रतरणे, कुशल इत्यर्थः / कौशल इति किम् ? निस्नातः