________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः नदीस्नः, यः स्रोतसा ह्रियते // 20 // ___ अ० 'ष्णांक् शौचे' ष्णा, “षः सोऽष्टयै' (2 / 3 / 98) स्ना / निपूर्वं निष्णातीति निष्णः ‘स्थापास्नात्रः कः' (5 / 1 / 142) इति सूत्रेण कप्रत्ययः ‘इडेत्पुसि चातो लुक्' (4 / 3 / 94) इति आकारलोपः / निष्णातीति निष्णातः 'कतरि' (5 / 1 / 3) अथवा 'गत्यर्थाकर्मक०' (5 / 1 / 11) इति क्तः, निष्णातः / नद्यां स्नाति, नद्या स्नाति स्म, नदीपूरेण योऽपह्रियमाणोऽस्ति स एवम् // 20 // प्रतेः स्नातस्य सूत्रे // 2 // 3 // 21 // - प्रतेः परस्य स्नातसकारस्य समासे षः स्यात्, सूत्रे वाच्ये / प्रतिष्णातं सूत्रम् / सूत्र इति किम् ? प्रतिस्नातमन्यत् / प्रत्ययान्तोपादानं प्रत्ययान्तरनिवृत्त्यर्थम् / प्रतिस्नातृ सूत्रम् / प्रतिस्नायकं सूत्रम् // 21 // ___ अ० विशेषाभणनादत्र ऊर्णादिसूत्रं व्याकरणसूत्रं वा गृह्यते सूत्रशब्देन इत्युक्तम् सूत्रे वाच्ये / प्रतिस्नातीति ‘णकतृचौ' (5 / 1 / 48) इतिसूत्रेण तृच्णकप्रत्ययौ / प्रतिष्णातं सूत्रं कोऽर्थः ? ऊर्णादिसूत्रं प्रक्षालनेन शुद्धम् उज्ज्वलम्, व्याकरणादिसूत्रं तु अतिव्याप्त्यादिदोषाभावेन शुद्धं निर्दूषणमित्यर्थः / पूर्वसूत्रे स्नाते, प्रतेः स्नातस्येत्यत्र स्नात इति प्रत्येकं सूत्रे स्नातस्नात इति करणात् प्रत्ययान्तर तृणकेति निषेधार्थम् / अन्यथा पूर्वसूत्रात् स्नातिरनुवतिष्यते एव, किं पुनरपि स्नात इति करणेन / / 21 / / . स्नानस्य नाम्नि // 2 // 3 // 22 // प्रतेः परस्य स्नानसंकारस्य समासे षः स्यात्, सूत्रविषये नाम्नि / प्रतिष्णानं सूत्रमित्यर्थः // 22 // . अ० नाम्नि, कोऽर्थः ? समुदायश्चेत्संज्ञाविषयो भवति प्रतिस्नातीति प्रतिष्णानम् ‘नन्द्यादिभ्योऽनः' (6 / 1 / 53) इति अनः / / 22 // वेः स्त्रः // 2 // 3 // 23 // वेः परस्य स्तृणातेः सस्य [सकारस्य] समासे षः स्यात्, नाम्नि। विष्टरो वृक्षः, विष्टरमासनम् / नाम्नीत्येव-विस्तरो वचसाम्, विस्तारः पटस्य // 23 // ___अ' विस्तरणं विष्टरः 'युवर्णवृदृवशरणगमृद्ग्रहः' (5 / 3 / 28) इत्यनेन अल् / विस्तरणं विस्तारः 'वेरशब्दे प्रथने' (5 / 3 / 69) इति सूत्रेण घञ् / / 23 / / - अभिनिष्टानः // 2 // 3 // 24 // अभिनिस् इत्यस्मात् परः स्तानशब्दः समासे कृतषत्वो निपात्यते, नाम्नि / अभिनिष्टानो वर्णः / नाम्नीत्येव-अभिनिःस्तन्यते अभिनिःस्तानो मृदङ्गः // 24 // ... अ० निस् इति उपलक्षणम्, तेन निरोऽपि गृह्यते / विसर्जनीयस्य एषा संज्ञा / स्तनधनध्वनेति स्तन्धातुः / अभिनिःस्तननम् 'भावाकोंः ' (5 / 3 / 18) घञ् // 24 / / गवियुधेः स्थिरस्य // 2 // 3 // 25 // गवियुधिपरस्य स्थिरस्य सस्य षः स्यात्, नाम्नि / गविष्ठिरः / युधिष्ठिरः // 25 // अ० गविष्ठिर इत्यत्र गवियुधेः स्थिरस्येति निर्देशात्, अथवा 'बिदादेवृद्धे' (6 / 1 / 41) इति तद्धिते बिदादिगणपाठसामर्थ्यात् सप्तम्या अलुप्समासो भवति / युधिष्ठिर इत्यत्र च 'अव्यञ्जनात्सप्तम्या बहुलम्' (3 / 2 / 18) इति