________________ 154 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते सूत्रेण सप्तमी अलुप्समासो ज्ञातव्यः / / 25 / / ___एत्यकः // 2 / 3 / 26 // . ककारवर्जितानाम्यन्तस्थाकवर्गात् परस्य सस्य [कोऽर्थः-सकारस्य] एति एकारे परे समासे षः स्यात्, नाम्नि / हरिषेणः श्रीषेणः वायुषेणः मातृषेणः [इतिनामानो राजानः] / एतीति किम् ? हरिसिंहः / अक इति किम् ? विश्वक्सेनः / नाम्नीत्येव-पृथ्वी सेनाऽस्य पृथुसेनः // 36 // अ० स्वरिविशेषो राजा वा / विष्वक् इत्यव्ययं सामस्त्ये वर्त्तते // 26 // भादितो वा // 2 // 3 // 27 // भं नक्षत्रम्, तद्वाचिन इकारान्तात्परस्य सस्य [सकारस्य] एकारे परे समासे षो वा स्यात्, नाम्नि / रोहिणिषेणः रोहिणिसेनः / रेवतिषेणः रेवतिसेनः / भरणिषेणः भरणिसेनः / इत इति किम् ? पुनर्वसुषेण। शतभषक्सेनः [राजा] // 27 // ___ अ० रेवत. रोहिण. 'रेवतरोहिणाऽ' (2 / 4 / 26) इति सूत्रेण ङीप्रत्ययः; 'अस्य ड्यां लुक्' (2 / 4 / 86) इति अकारलोपः, रेवती रोहिणी / तथा भरणि. 'इतोऽक्त्यर्थात्' (2 / 4 / 32) इति डीः / रेवत्य इव, रोहिण्य इव, भरण्य इव कल्याणिनी सेना यस्य इति ‘ड्यापो बहुलं नाम्नि' (2 / 4 / 99) इति सूत्रेण ईकारस्य ह्रस्व इकारः / इतिनामानो राजानः सर्वे / 'एत्यकः' इति षकारः // 27 // विकुशमिपरेः स्थलस्य // 2 // 3 // 28 // वि-कु-शमि-परिभ्यः परस्य स्थलसकारस्य समासे षः स्यात् / विष्ठलम् / कुष्ठलम् / शमिष्ठलम्सूत्रे शमिशब्दस्य ह्रस्वस्योच्चारणाहीर्घान्न भवति-शमीस्थलम् / परिष्ठलम् // 28 // .. ___ अ० विकुशमीति सूत्रे नाम्नि इति निवृत्तम्, उत्तरसूत्रे गोत्रग्रहणात् / / विगतं स्थलं यत्र, अथवा वीनां पक्षिणां स्थलं विष्ठलम् / कुत्सितं स्थलम्, अथवा कोः पृथिव्याः स्थलं कुष्ठलम् / शमीनां स्थलं शमिष्ठलम्, शमीस्थलमित्यत्र 'गौरादिभ्यो मुख्यान्डीः' (2 / 4 / 19) इति ङीः, ‘ड्यापो बहुलं नाम्नि' (2 / 4 / 99) इति ह्रस्वः / तथा परिगतम्, आम्रादिभिर्व्याप्तं स्थलं परिष्ठलम् / शमीस्थलमित्यत्र न ह्रस्वः-संज्ञाया अभावात् // 28 // कपेर्गोत्रे // 2 // 3 // 29 // कपेः परस्य स्थलस्य समासे षः स्यात्, गोत्रे वाज्ये / कंपिष्ठलो मुनिः [कपीनां स्थलमिव स्थलं यस्य / गोत्र इति किम् ? कपिस्थलम् // 29 // अ० गोत्रमिह लौकिकं गृह्यते / लोके च ये आद्यपुरुषा अपत्यसन्ततेः प्रवर्त्तयितारः / यन्नाम्नाऽपत्यसन्ततिळपदिश्यते ते गोत्रपुरुषा अभिधीयन्ते / कपिष्ठलो नाम ऋषिः, यन्नाम्ना कपिष्ठलमिति गोत्रं प्रसिद्धम् // 29 // गोम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कुक्कङ्गुमञ्जिपुञ्जिबर्हिःपरमेदिवेः स्थस्य // 2 // 3 // 30 // ___गो-अम्बा-अम्ब-सन्य-अप-द्वि-त्रि-भूमि-अग्नि-शेकु-शङ्क-कु-अङ्गु-मञ्जि-पुञ्जि-बर्हिस्-परमे-दिविभ्यः परस्य स्थशब्दसम्बन्धिसकारस्य समासे षः स्यात् / गोष्ठम् / अम्बाष्ठः, झ्यापो बहुलं नाम्नि इति ह्रस्वत्वे अम्बष्ठः, श्लिष्टनिर्देशादुभाभ्यामपि भवति / आम्बष्ठः / सव्यष्ठः / अपष्ठः / द्विष्ठः / त्रिष्ठः / भूमिष्ठः, अनिष्ठः [भूमौ अग्नौ तिष्ठतीति / शेकुष्ठः, शङ्कुष्ठः / कुष्ठः / अङ्गुष्ठः / मञ्जिष्ठः / पुञ्जिष्ठः / बर्हिष्ठः / परमेष्ठः [परमे