________________ 155 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः पदे तिष्ठतीति / दिविष्ठः // 30 // अ० गोष्ठ इति 'ठांक् गतिनिवृत्तौ' 'षः सोऽष्टयै०' (2 / 3 / 98) स्ठा 'निमित्ताभावे नैमित्तिकस्याप्यभावः' स्था। गोशब्दः पूर्वम् / गावस्तिष्ठन्त्यस्मिन्निति गोष्ठं गोकुलम् ‘स्थादिभ्यः कः' (5 / 3 / 82) इति सूत्रेण कप्रत्ययः त्पुसि चातो लुक्' (4 / 3 / 94) इति आकारलोपः / अम्बायां तिष्ठतीति अम्बाष्ठः ‘स्थापास्नात्रः कः' (5 / 1 / 142) इति कः 'इडेत्पुसि.' 'ड्यापो बहुलं नाम्नि' (2 / 4 / 99) इति ह्रस्वे सति अम्बष्ठ इति प्रयोगो भवति / अम्बष्ठो मातृमुखः / सव्ये तिष्ठतीति सव्यष्ठः / आम्बष्ठ इति ‘अबुङ् रबुङ् शब्दे' 'उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) अन् / अम्ब्यते अपह्नवकारितया इति अम्बः ‘भावाकोंः ' (5 / 3 / 18) घञ् / अम्बस्यायं कार्यभूतः 'तस्येदम्' (6 / 3 / 160) इति सूत्रेण अण, वृद्धिः, आम्बशब्दः, आम्बे तिष्ठतीति आम्बष्ठः / द्वयोः त्रिषु तिष्ठतीति // 30 // ... निर्दस्सोः सेधसन्धिसाम्नाम् // 2 // 3 // 32 // निर दुर सु. एभ्यः परेषां सेधादीनां सस्य समासे षः स्यात् / निःषेधः / दुःषेधः / सुषेधः / निःषन्धिः। पन्धिः / सुषन्धिः / निःषाम / दुःषाम / सुषाम // 31 // ' अ० निष्क्रान्तः सेधात्, दुष्टो दुर्गो वा सेधः, शोभनः सेधः / निष्क्रान्तः सन्धेः, दुष्टो दुर्गो वा सन्धिः दुःषन्धिः, शोभनसन्धिः // 31 // . प्रष्ठोऽग्रगे // 2 // 3 // 32 // प्रात्परस्य स्थसस्य षो निपात्यते, अग्रगे-अग्रगामिन्यार्थे / प्रष्ठ [प्रतिष्ठते प्रष्ठः 'उपसर्गादातो डोऽश्यः' (5 / 1 / 56)] अग्रगामी / प्रस्थोऽन्यः // 32 // भीरुष्ठानादयः // 2 // 3 // 33 // भीरुष्ठानादिशब्दाः समासे कृतषत्वा भवन्ति / भीरुष्ठानम् / अङ्गुलिषङ्गः // 33 // अ० भीरुष्ठान अङ्गुलिषङ्ग सव्येष्ठ परमेष्ठिन् सुष्ठ दुष्ठु अपष्ठ वनिष्ठ गौरिषक्थ प्रतिष्णिका नौषेचिका दुन्दुभिषेवण इति भीरुष्ठानादिगणः / सूत्रे बहुवचनमाकृतिगणार्थम् / भीरूनां स्थानं भीरुष्ठानम् / अङ्गुलीनां सङ्गोऽङ्गुलिषङ्गः / अङ्गुलिषङ्गा यवागूः / सव्ये तिष्ठतीति सव्येष्ठ 'सव्यात् स्थः' (855) इत्युणादिसूत्रेण ऋप्रत्ययः, स च डित् / परमे पदे तिष्ठतीति परमेष्ठी ‘परमात् कित्' (925) इति इन् / सु शोभनम् / दुः प्रतिकूलम् / अप / वने तिष्ठतीति 'दुःस्वपवनिभ्यः स्थः' (732) इत्युणादित्वात् उप्रत्ययः / गौर्या इव सक्थि अस्य ‘सक्थ्यक्ष्णः स्वाङ्गे' (7 / 3 / 126) इति टः / नावं सिञ्चतीति नौषिचिका ‘णकतृचौ' (5 / 1 / 48) / दुन्दुभिं सेवते दुन्दुभिषेवणः // 33|| ह्रस्वानाम्नस्ति // 2 // 3 // 34 // नाम्नो विहिते तकारादौ प्रत्यये परे ह्रस्वान्नामिनः परस्य सस्य षः स्यात् / तल् त्व तस् त्य तय तरप् तमप् एते तकारादिप्रत्ययाः / सर्पिष्टा / सर्पिष्ट्वम् / सर्पिष्टः यजुष्टः / निष्टयः / चतुष्टयम् / सर्पिष्टरम् / सर्पिष्टमम् / वपुष्टरम् / ह्रस्वादिति किम् ? गीस्त्वम् / उच्चैस्तराम् / नामिन इति किम् ? तेजस्ता / पयस्त्वम् / नाम्न इति किम् ? भिन्युस्तराम् / विहितविशेषणं किम् ? सर्पिस्तत्र / [सर्पिषः] सर्पिस्तरणम् // 34 // ___ अ० सर्पिषो भावः सर्पिष्टा सपिष्ट्वम् ‘भावे त्वतल्' (7 / 1155) / सर्पिषः सर्पिष्टः 'अहीयरुहोपादाने' (7/2 / 88) इति सूत्रेण तस् / निष्टयः-निस्शब्दः, निर्गतो वर्णाश्रमेभ्य इति निष्टयः चण्डालः पुलिन्दो वा 'निसो गते (6 / 3 / 18)