________________ 156 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते इति सूत्रेण त्यच् / चतुष्टयम्-चतुर्, चत्वारोऽवयवा अस्य चतुष्टयम् 'अवयवाऽत्तयट्' (7 / 1 / 151) इति सूत्रेण तयट् 'चटते सद्वितीये' (1 / 3 / 7) इति रस्य सकारः / सर्पिष्टरम्-सर्पिस्, इदं सर्पिः इदं सर्पिः इदमनयोर्मध्ये प्रकृष्टं सर्पिः इदमेषां प्रकृष्टं सर्पिष्टमम् ‘प्रकृष्टे तमप्' (7 / 3 / 5) / उच्चैरेव उच्चैस्तराम् ‘कचित् स्वार्थे' (73 / 7) इति सूत्रेण तरप्, पश्चात् 'किन्त्याद्येऽव्ययांदसत्त्वे तयोरन्तस्याम्' (7 / 3 / 8) इति सूत्रेण तर, अग्रे आम्प्रत्ययः // 34|| निसस्तपेनासेवायाम् // 2 // 3 // 35 // निसः सकारस्य तकारादौ तपतौ परे षः स्यात्, अनासेवायामर्थे / निष्टपति सुवर्णम्-सकृत् [एकवारं] अग्निं स्पर्शयतीत्यर्थः / अनासेवायामिति किम् ? निस्तपति सुवर्ण स्वर्णकारः-पुनःपुनस्तपतीत्यर्थः / कथं निष्टप्तं रक्षः, निष्टप्ता अरयः ? अत्र सदप्यासेवनं न विवक्ष्यते [किन्तु अनासेवनं विवक्ष्यते / तीत्येव-निरतपत् // 35 // ___ अ० पुनःपुनः करणमासेवा, तदभावोऽनासेवा उच्यते / तपतेरित्यत्र शनिर्देशो भौवादिक 'तपिं धूप सन्तापे' इति परिग्रहार्थम् / यङ्लुपि कृते च षत्वनिषेधार्थं च / 'तपिंच ऐश्वर्ये' वा इति देवादिको न ग्राह्यः / निस्, ‘तपं धूप' / अत्यर्थं तपति 'व्यञ्जनादेरेकस्वराद्' (3 / 4 / 9) इति यङ् ‘सन्यङश्च' (4 / 1 / 3) द्वित्वम् 'व्यञ्जनस्या०' (4 / 1 / 44) अन्त्यलोपः 'आगुणावन्यादेः' (4 / 1 / 48) इति दीर्घः 'बहुलं लुप्' (3 / 4 / 14) इति सूत्रेण यङ्लोपः / यत्र यङ् लुप्तः तत्र निस्तातप्ति, यत्र तु 'यङ्तुरुस्तो बहुलम्' (4 / 3 / 64) इति यङि लुप्ते ईकारः तत्र निस्तातपीति / नितरां तपसि स्म पीडयति निष्टप्तम् / नितरां तपन्ति पीडयन्ति इति निष्टप्ताः / क्तः / अत्र अटा तकारो व्यवहितः // 35 // ___घस्वसः // 2 // 3 // 36 // नाम्यन्तस्थाकवर्गात् परस्य घसेर्वसेश्च धातोः सस्य षः स्यात् / जक्षतुः जक्षुः / ऊषतुः ऊषुः / उषितः उषितवान् / शिड्वान्तरेऽपि-बहूंषि नगराणि // 36 // ___अ० घस्वसेः इत्यत्र ‘घस्लूं अदने' इति ग्राह्यः, 'अदेर्घसादेशस्य 'नाम्यन्तस्थाकव०' (2 / 3 / 15) इति षत्वस्य सिद्धत्वात् अकृतसकारार्थं वचनं कृतम् / जक्षतुः जक्षुः-‘घस्लूं अदने' परोक्षाअतुस् उस् ‘द्विर्धातुः परोक्षा०' (4 / 1 / 1) द्वित्वम् 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) इति घस्य गः 'गहोर्जः' (4 / 1 / 40) इति गस्य जः ‘गमहनजनखनघसः स्वरेऽनङि क्डिति लुक्' (4 / 2 / 44) इति सूत्रेण धातुघसोऽकारस्य लुक्, 'घस्वसः' इति सस्य षत्वम् 'अघोषे प्रथमोऽशिटः' (1 / 3 / 50) इति घस्य कत्वम् / यदि च ‘अदं प्सांक भक्षणे' अद्, परोक्षा-अतुस-उस् 'परोक्षायां नवा' (4 / 4 / 18) इति सूत्रेण अद्स्थाने घस् आदेशः, द्वित्वादिकं प्राग्वत्, ‘गमहनेति उपान्त्यलोपः 'अघोषे० घस्य कः तदा 'नाम्यन्तस्थाकवर्ग' इत्यनेन षत्वम् इत्थमपि जक्षतुः जक्षुरिति सिद्धयतः / उपतुरित्यादि'वसं निवासे' वस् 3, परोक्षाऽतुस्, उष्यते स्म, वसति स्म, 'क्तक्तवतू' (5 / 1 / 174) 'यजादिवचेः किति' (4 / 1 / 79) इति धातुवकारस्य यवृत् उकारः ‘घस्वसः' इति धातुसस्य षत्वम्, ततो द्वित्वम् / बहूंषि-वस् / वसन्तीति उषः 'किप्' (5 / 1 / 148) इति किप्, 'यजादिवचेः किति' यवृत्, उष् / बहव उषवो वास्तव्या येषु तानि बहूंषि // 36 / / णिस्तोरेवास्वदस्विदसहः पणि // 2 // 3 // 37 // स्वदस्विदसहवर्जितानां ण्यन्तानां स्तोरेव सकारस्य नाम्यन्तस्थाकवर्गात्परस्य षणि [कोऽर्थः] षत्वभूते सनि 1. घस्लृ सनद्यतनी० 4 / 4 / 17 / अनेन /