________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 157 परे षः स्यात्, नान्येषाम् / [ण्यन्त] सिषेवयिषति / सुष्वापयिषति / [स्तोतुमिच्छति] तुष्टषति / स्वदादिवर्जन किम् ? सिस्वादयिषति / सिस्वेदयिषति / सिसाहयिषति / षणीति किम् ? सिषेवे / सुष्वाप [भूस्वपोरदुतौ (4 / 1 / 70), उत्वम् ] / षत्वभूत इति किम् ? सुषुप्सति [स्वपेर्यङ्डे च (4 / 1 / 80) उत्वं धातोः] / तिष्ठासति / एवेति किम् ? सुसूषति / सिसिक्षति / सिसेविषति / कथं प्रतीषिषति, अधीषिषति ? षणिनिमित्ते धातोः षत्वनियम उक्तः, इह तु सन एव द्विरुक्तस्य षत्वम्, न धातोः, इति न प्रतिषेधः // 37 // - अ० णिस्तोरेव षत्वभूते षणि परे षत्वं भवति, नान्यस्य, तेनेह न भवति सुसूषति / सिसिक्षति / सिसेविषति / तथा सूत्रे एवकारशब्दः षण्येव णिस्तो र्धातोरिति विपरीतनियमनिवृत्त्यर्थं कृतः, तेनेहापि पूर्वसूत्रेण षत्वं सिद्धम्असीषिवत् / तुष्टाव-‘षिवूच् उतौ' षिव्, 'जिष्वपंक् शये' स्वप्; सीव्यति स्वपिति कश्चित्तमन्यः प्रयुङ्क्ते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) 'ञ्णिति' (4 / 3 / 50) वृद्धिः, स्वापयितुमिच्छति 'तुमर्हादिच्छायां०' (3 / 4 / 21) सन्, द्वित्वादिकं प्राग्वत्, 'स्वपो णावुः' (4 / 1 / 62) इति सूत्रेणाभ्यासे वस्य उत्वम् / 'ध्वदि स्वदि स्वादि आस्वादने' ष्वद्, निष्विदाङ् मोचने च विद्, 'षहि मर्षणे' षह, सर्वत्र 'षः सो०' (2 / 3 / 98) / स्वादमानम्, स्वेदमानम्, सहमानं प्रयुक्ते, णिग्, / स्वादयितुम्, स्वेदयितुम्, साहयितुमिच्छति 'तुमर्हादिच्छायां०' सन् ‘सन्यस्य' (4 / 1 / 59) इति सूत्रेणाभ्यासे इत्वम् / / प्रतीषिषति--अत्र ‘ई दुं दुं श्रृं मुं गतौ' इ, प्रति अधि पूर्वं प्रतीतुम् अधीतुमिच्छति सन् 'स्वरादेर्द्वितीयः' (4 / 1 / 4) सन् इत्यस्य पर्युदासेन सदृग्ग्रहणात् स्तौति साहचर्यात् ण्यन्तानामपि षोपदेशानामेव धातूनां ग्रहणम्, तथा च सति नाम्यन्तस्थेति सूत्रेणैव कृतसकारस्य षत्वे सिद्धे नियमार्थं णिस्तोरेवेति नियमात् षत्वं नहि // 37 // सञ्जेर्वा // 2 // 3 // 38 // सञ्जयतेय॑न्तस्य नाम्यन्तस्थाकवर्गात् परस्य षणि परे सस्य षो वा स्यात् / सिषञ्जयिषति / सिसञ्जयिपति // 38 // अ० इकारान्तनिर्देशात् ‘सञ्जि' इह ण्यन्तो ग्राह्यः, ततो वृत्तौ ण्यन्तस्येत्युक्तम् / 'पञ्ज सङ्गे' सञ्जन्तं प्रयुङ्क्ते णिज् / सञ्जयितुमिच्छति // 38 // . उपसर्गात् सुगसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे // 2 // 3 // 39 // अद्वित्वे द्विवचनाभावे सति सुनोति-सुवति-स्यति-स्तौति-स्तोभतीनां सस्य उपसर्गानाम्यन्तस्थाकवर्गात्परस्य षः स्यात्, अट्यपि-अडागमेऽपि सति / सुग्-अभिषुणोति, शिड्नान्तरेऽपीत्यधिकारात्निःषुणोति, दुःषुणोति / [अभिषुण्वन्तं प्रयुङ्क्ते] अभिषावयति-अत्रोपसर्गसम्बन्धे सति णिग् / ण्यन्तानां तूपसर्गसम्बन्धे सति न भवति-अभिसावयति / अट्यपि [अटि सति] अभ्यषुणोत् / सुव-अभिषुवति, अव्यपिअभ्यषुवत्, पर्यषुवत् / सो-अभिष्यति, परिष्यति, अट्यपि-अभ्यष्यत् / स्तु-अभिष्टौति / सुष्टुतम्, दुःष्टवम्। अव्यपि-अभ्यष्टौत् / स्तुभ् [सौत्रो धातुः] अभिष्टोभते / [अटि] अभ्यष्टोभत // उपसर्गादिति किम् ? दधि सुनोति / पूजायां सोः, पूजातिक्रमयोश्चातेरुपसर्गाभावादिह न भवति-सुस्तुतम्, अतिस्तुतम् // शिड्नान्तरेऽपीत्यधिकारात् अटा व्यवधाने सति न प्राप्नुयात् इत्यट्यपीति कृतम् // अद्वित्व इति किम् ? अभिसुसूषति इत्यादि [आदिशब्दात् अभ्यसुषत् अभिसिषासति अभ्यासिषासत् परिसुसूषति पर्यसुसूषत्] // पदादौ [नाम्यन्तस्थेत्यनेन]