________________ 158 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते प्रतिषेधे प्राप्ते वचनम् // 39 // ____ अ० सुग् इति सूत्रनिर्देशात् 'पुंग्ट् अभिषवे' -अयमेव स्वादिर्गृह्यते / 'कुंक् प्रसवैश्वर्ययोः' अदादिः, 'सु प्रसवैश्वर्ययोः' भ्वादिर्न गृह्यते-तयोः अभिसौति, अभिसवति इति प्रयोगः / ण्यन्तानामिति-धातोर्हेत्वर्थे णिग् तिव् शत् / यत्र एवं णिग् स धातुर्यन्त उच्यते-यथा सावयति, पश्चात् अभि उपसर्गयोगः, अभिसावयति तत्र षकारो न भवतिधात्वन्तरत्वात् / उपसर्गपूर्वधातोर्णिग् तत्र षत्वं यथा अभिषावयति // सुव इति निर्देशात् 'घूत् प्रेरणे' इति तौदादिकः, शप्रत्ययदर्शनात् / / 'धूडौक् प्राणिगर्भविमोचने' इति अदादिः ‘धूडौच् प्राणिप्रसवे' इति देवादिकः, द्वयमपि न गृह्यते तयोः अभिसूयते इति प्रयोगः, नात्र षत्वम् / / सो इति 'षोंच् अन्तकर्मणि' इति देवादिकः / / स्तु इति ‘टुंगक् स्तुतौ' 'षः सोऽष्टयैः' (2 / 3 / 98) 'उत और्विति व्यञ्जनेऽद्वेः' (4 / 3 / 59) इति औत्वम् // सुष्टुतम् इत्यत्र सातिशयं स्तूयते स्म इति वाक्यम् ‘क्तक्तवतू' (5 / 1 / 174) / अत्र सुशब्दोमतिशये उपसर्गसंज्ञः, यत्र च सुशब्दः पूजावाची विवक्ष्यते तत्र सुपूजितं स्तूयते स्म सुस्तुतम् अतिक्रमं अतिपूजितं स्तूयते स्म अतिस्तुतम् -नात्र षत्वम् / / दुःखेन स्तूयते 'दुःस्वीषतः कृच्छाकृच्छ्रार्थात् खल्' (5 / 3 / 139) इति खल् / येन धातुना सह सम्बद्धाः प्रादयस्तमेव धातुं प्रत्युपसर्गसंज्ञा इति धात्वन्तरयोगे न भवति / निर्गताः सावका अस्मादसौ निःसावको देशः अत्र निस् गतेन सम्बन्धो नतु सावकेन सह / अभिसावकीयति-अत्र तु सावकीय इति निःपाद्य पश्चात् अभियोगः / अतिस्तुतम् इत्यस्याग्रे इयमवचूरिः / / अट्यपीत्यत्र अपि अभावार्थः, अन्यथा अटि सत्येव षत्वं स्यात्। एतेन अटि सति असति वा षत्वम् / अभिसुसूषति- 'पुंग्ट् अभिषवे' अभिसिनोतुमिच्छति 'तुमर्हा०' (3 / 4 / 21) सन् द्वित्वम् / अत्र द्वित्वे सति पूर्वसकारस्य षत्वम् न सातम् / परं मूलधातोरपि णिस्तोरेवेति नियमात् षत्वं नहि // 39 // स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि // 2 // 3 // 40 // उपसर्गानाम्यन्तस्थाकवर्गात्परेषां स्थादीनां सस्य षः स्यात्, द्वित्वे द्विवंचने कृतेऽपि]ऽटा व्यवधानेऽपि [सति] / स्था-अधिष्ठास्यति, प्रतिष्ठास्यति, प्रतितष्ठौ, अध्यष्ठात्, सेनि-अभिषेणयति अभिषेणयिषति / अभ्यघेणयत् / सि[से] [षिधू गत्याम्] प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत् / सिच-अभिषिञ्चति, अभिषिषिक्षति, अभ्यषिश्चत् / सञ्ज-अभिषजति / ण्यन्तानामपि भवति-प्रतिष्ठापयति, प्रतिषेधयति / उपसर्गादित्येव-अधिस्थास्यति-गतार्थत्वानात्राधिरुपसर्गः / वृक्षं वृक्षं परिसिञ्चति-अत्र [वृक्ष इति रूपस्य] वीफ्स्यसम्बद्धस्य परेर्धातुना सह सम्बन्धाभावानोपसर्गत्वम् / निर्गताः सेचका अस्मात् ] निःसेचको देशः-येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा इति न षत्वम् / सेधेति कृतगुणस्य निर्देशः सिद्धयति [षिधूच् संराद्धौ इत्यस्य] निवृत्त्यर्थः -अभिसिध्यति / अकारस्तूचारणार्थो नतु शनिर्देशः, तेन यङ्लुप्यपि षत्वम्-प्रतिषिषेधीति [शवा निर्देशे सति शवि सत्येव षत्वं स्यात्, यङ्लुपि सति षत्वं न स्यात् // 40 // ___ अ० सेनेरषोपदेशार्थम्, स्थासअधात्वोः (अभिषषञ्ज अत्र) अवर्णान्तव्यवधानेऽपि षत्वविधानार्थं का, सिचसञ्जसेधां षणि नियमबाधनार्थं च, सर्वेषामड्व्यवधाने पदादौ च षत्वार्थं स्थासेनीति सूत्रं कृतम् / ‘आतो णव औ' (4 / 2 / 120) इति सूत्रेण परोक्षाणव्स्थाने औ / अध्यष्ठात्-अत्र 'पिबैतिदाभूस्थः सिचोलुप् परस्मै न चेट्' (4 / 3 / 66) इति सूत्रेण सिच्लोपः / सेना. / अभि / सेनया अभियाति अभिषेणयति ‘णिज्बहुलं नाम्नः०'