________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः (42) इति सूत्रेण णिच् 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) इत्यन्त्यस्वरलोपः / तथा अभिषेणयितुमिच्छति अभिविष्णयिषति स् / सन् इति द्विरुच्यते / अभ्यषजतीत्यत्र 'पंजं सङ्गे' षंज् ‘षः सो०' (2 / 3 / 98) संज् ‘दंशसञ्जः शबि' (12 / 49) इति उपान्त्यनकारस्य लुक् / प्रतितिष्ठन्तं प्रयुङ्क्ते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) णिगः प्रागेवोपसर्गसम्बन्धोऽतः-इति हेतोः षत्वम् / प्रतिषेषिधीति-अत्र प्रतिपूर्व 'षिधू गत्याम्' अत्यर्थं प्रतिषेधति 'धातोरनेकस्वरादृशा०' (3 / 4 / 9) इति यङ्, द्वित्वादिकम्, तिन् ‘बहुलं लुप्' / 3 / 4 / 14 / 'यतुरुस्तोर्बहुलम्' (4 / 364) इति ईकारः 'स्थासेनीति' मूलधातोः षत्वम् / द्वित्वस्य 'नाम्यन्तस्थे ति सस्य षत्वम् // 40 // अप्रतिस्तब्धनिस्तब्धे स्तम्भः // 2 // 3 // 41 // उपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य स्तम्भः सस्य द्वित्वेऽट्यपि षः स्यात्, यद्यसौ स्तम्भित्रै प्रतिस्तब्धे निस्तब्धे च विषये न भवति // विष्टभ्नाति / [गव्] वितष्टम्भ / [यङ्] प्रतिताष्टभ्यते / व्यष्टभ्नात् / अझतीति किम् ? व्यतस्तम्भत् / प्रत्यतस्तम्भत् / प्रतिस्तब्धः / निस्तब्धः // 41 // ____ अ० डश्च प्रतिस्तब्धश्च निस्तब्धश्च० / न / अप्रतिस्तब्धनिस्तब्धम्, तस्मिन् / यद्यसौ स्तम्भिरित्यादिप्रति निस्पूर्वकः स्तम्भधातुः क्तप्रत्ययान्तयुक्तो भवति, तत्र षत्वं न भवति; यत्र स्तम्भेः परो ङप्रत्ययः तत्रापि न षत्वमित्यर्थः / विष्टभ्नाति-अत्र 'स्तम्भि स्तम्भे' इति सौत्रो धातुः, वर्तमानातिव्, 'स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः भा च' (3 / 4 / 78) इति सूत्रेण भा // 41 / / / - अवाच्चाश्रयोर्जाविदूरे // 2 // 3 // 42 // , अघोपसर्गात्स्तम्भः सस्याश्रयायथैषु गम्यमानेषु द्वित्वेऽप्यऽट्यपि षः स्यात्, अडे-विषयेश्चत्स्तम्भिर्न अवति / दुर्गमवष्टभ्नाति / [णव] अवतष्टम्भ दुर्गम् / दुर्गमवाष्टभ्नात् / ऊर्ज. अहो वृषलस्यावष्टम्भः / अविदूरेअवष्टन्धा शरत् / अवष्टन्धे सेने / चकारोऽङ इत्यस्यानुवृत्त्यर्थः, अनुक्तसमुच्चयार्थश्च; तेन उपष्टम्भः, उपष्टम्भकः उपष्टन्धः / आश्रयादिष्विति किम् ? अवस्तब्धो वृषलः शीतेन // 42 // ___ अ० आश्रय आलम्बनम्, उर्ज और्जित्यं सबलत्वम् / अविदूरम्-विदूरम् अतिविप्रकृष्टमुच्यते, ततोऽन्यदविदूरम्; कोऽर्थः ? आसन्नम् अविदूरासन्नं च गृह्यते / अवष्टब्धो रिपुः शूरेण इत्यपि अत्र ज्ञेयम् / उपष्टम्भेत्यादौ चकारबलात् उपशब्दादपि षत्वं भवति / 'उपावात्' इति सूत्रमकृत्वा चकारेण यद् उपशब्दस्य सूचनं कृतम् तदनित्यार्थं ज्ञातव्यम्, तेन उपस्तब्ध इत्यपि भवति / / 42 / / व्यवात्स्वनोऽशने // 2 // 3 // 43 // - वेरवाचोपसर्गात्परस्य स्वनो धातोः सस्याशने भोजनेऽर्थे द्वित्वेऽप्यट्यपि षो भवति / विष्वणति / भवष्वणति / भुङ्क्ते इत्यर्थः / सशब्दं भुङ्क्ते इत्यर्थः / व्यवादिति किम् ? अतिस्वनति, अत्यसिस्वनत् / भशन इति किम् ? विस्वनति अवस्वनति मृदङ्गः, विविधं शब्दं करोतीत्यर्थः // 43 // - अ० 'स्तनधनध्वनचनस्वनवन शब्दे' इति स्वनधातुः / भुआनः कश्चित् शब्दं करोतीत्यर्थः; अवाच्चाश्रयेत्यादि पूर्वसूत्रे चकारेण अङ इत्यनुवर्तितः, इह तु अङ् नानुवर्तते;-व्यवात्स्वनेति सूत्रं ङप्रत्ययेऽपि सति प्रवर्त्तते-यथा व्यषिष्वणत् अवाषिष्वणत् इति सिद्धम् / विषष्वाण अवषष्वाण / विषंष्वण्यते' अवर्षष्वण्यते / विषिष्वणिषति अवषिष्वणिषति / व्यष्वणत् अवाष्वणत् / इत्यपि प्रयोगा ज्ञेया // 43 // 1. 'मुरतोऽनुनासिकस्य' श५१। इति अनेन अभ्यासे मुआगमः /