________________ 160 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सदोऽप्रतेः परोक्षायां त्वादेः // 2 // 3 // 44 // प्रतिवर्जितोपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य सदो धातोः सस्य द्वित्वेऽप्यव्यपि षः स्यात्, परोक्षायां तु द्वित्वे सत्यादेः पूर्वस्यैव सस्य षत्वम् / ['षद् विशरणगत्यवसादनेषु' 'षट्ठेत् विसादने' इत्यस्य च ग्रहणम्] निषीदति विषीदति [श्रौतिकृयु० (4 / 2 / 108) इत्यादिना सीद्] // निषापद्यते / विषाषयते // परोक्षायां त्वादेरेव-निषसाद्, विषसाद् / अप्रतेरिति किम् ? प्रतिसीदति / प्रत्यसीषदत् / प्रतिसिषत्सति // 44 // अ० परोक्षायां तु इत्यत्र तुशब्दो विशेषणार्थः, परोक्षायामेव विशेषोऽयम्; अन्यत्र उभयत्रापि प्रकृतिसस्य द्वित्वसस्यापि षत्वं स्यात् / यथा न्यषीषदत् इत्यादिषु / विषिषत्सति, निषिषत्सति, न्यषीषदत् व्यषीषदत् इति विशेषप्रयोगाः / प्रत्यसीषदत् प्रतिसिषत्सति इत्यत्र प्रतेः परस्य आद्यसकारस्य व्यावृत्तिबलान भवति, प्रकृतिसस्य नाम्यन्तस्थेति सूत्रेण षत्वं भवत्येव // 44 // स्वञ्जश्च // 2 // 3 // 45 // उपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य स्वोः सस्य द्वित्वेऽप्यट्यपि षः स्यात्, परोक्षायां द्वित्वे आदेरेव सस्य षः। अभिष्वजते प्रतिष्वजते / अभिषिष्वङ्क्षते प्रतिषिष्वङ्क्षते // परोक्षायां त्वादे:-अभिषस्वजे अभिषस्वओ. // 45 // __ अ० अभिष्वजते इत्यत्र ‘ष्वञ्जित् सङ्गे' ध्वञ् / वर्त्तः आत्मने० ते / शव् 'नो व्यञ्जनस्यानुदितः' (4 / 2 / 25) इति न्लोपः / अभिषस्वजे-अत्र 'स्वञ्जर्नवा' (4 / 3 / 22) इति विकल्पेन किवद्भावात् 'नो व्यञ्जनस्ये'ति न्लोपः। ननु अभिषिष्वसते इत्यत्र ‘णिस्तोरेव०' (2 / 3 / 37) इति सूत्रनियमात् धातुषकारस्य षत्वं न प्राप्नोतीत्याह-परत्वादिदमेव स्वञ्जश्चेति सूत्रं प्रवर्त्तते // 45 // परिनिवेः सेवः // 2 // 3 // 46 // ___ परि-नि-वि-उपसर्गस्थानाम्यन्तस्थाकवर्गात्परस्य सेवतेः सस्य द्वित्वेऽट्यपि षः स्यात् / परिपेवते निषेवते विषेवते / परिषिषेविषते परिषिषेवे पर्यषेवत / परिनिवेरिति किम् ? प्रतिसिषेवे प्रतिसेषेव्यते प्रतिसिषेवत् / अङ्-सेवते प्रत्यसिषेवत् // 46 // ___अ० 'षेवृङ् सेवृङ् केवृङ् खेवङ् गेवृङ् ग्लेवृङ पेवृङ् मेवृङ् म्लेखङ् सेवने' इति सेवधातुः / प्रतिसिषेवे इत्यादिषु त्रिषु उपसर्गाश्रितं न षत्वं व्यावृत्तिबलात्, परं धातोत्विाश्रितं षत्वं सूत्रेण भवत्येवेत्यर्थः // 46 // सयसितस्य // 2 // 3 // 47 // परि-नि-विभ्यः परस्य सय-सितयोः सस्य षः स्यात् / योगविभागाद्वित्वेऽप्यट्यपीति निवृत्तम् / परिषयः निषयः विषयः / परिषितः निषितः / विषितः / कथं मापरिषिषयत् ? [सूरिराह] द्वित्वे सत्युपसर्गात्परस्य पूर्वसकारस्य अनेन ['सयसितस्य' इत्यनेन] षत्वम्, उत्तरस्य तु सस्य नाम्यन्तस्थेत्यनेनेति न दोषः // 47 // ___ अ० योगविभागात् द्वित्वेऽटि सति षत्वं निवारितम्, तेन मा विषसयत् इत्यत्र न षत्वम्-विषयामाख्यत् 'णिज्बहुलं०' (3 / 4 / 42) णिच् 'त्र्यन्त्यस्वरादेः' (74 / 43) अद्यतनीदि 'णिश्रुद्रु०' (3 / 4 / 58) प्रत्ययः ‘णेरनिटि' (4 / 3 / 81) णिच्लोपः ‘सन्यडश्च' (4 / 1 / 3) इति सय् इति द्विवचनम् अत्र द्वित्वे कृते सति पूर्वसकारस्य नाम्यन्तस्थेति षत्वम् उत्तरसकारस्य धातुसम्बन्धिनः पूर्वसकारेण व्यवधानात् षत्वं न भवतीत्यर्थः / / 'सयसितस्य'