________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः इति सूत्रे सय इति सिनोतेर्धातोरल् तस्य, अजन्तस्य घान्तस्य वा प्रयोगः / सित इति सिनोतेः क्तान्तस्य सिद्धिः'पिंग्ट बन्धने' 'षः सो०' (2 / 3 / 98) सि / परि सयनं परिषयः 'अच्' (5 / 1149) इति सूत्रेण अच्, परिसिनोत्यस्मिन्निति परिषयः, 'पुन्नाम्नि घः' (5 / 3 / 130) इति सूत्रेण घप्रत्ययः / एवं विषयः विषय इत्यपि // यदि परि सीयते स्म परिषितः ‘क्तक्तवतू' (5 / 1 / 174) एवं निषितः विषितः / परिषित इत्यादि रूपं स्यतिधातुना साध्यते तदा परिनिविउपसर्गात्परस्यैव स्यतेः क्तान्तस्य षत्वम्, उपसर्गान्तरपूर्वस्य स्यतेः 'उपसर्गात्सुगसुव०' (2 / 3 / 83) इत्यनेनापि न षत्वम् / तत्र प्रतिसितः निसितः विसितः इत्येव रूपम् / / मापरिषिषितत् इत्यत्र परिषित इति शब्दः मापरिषितमाख्यत् ‘णिज्बहुलं' णिच् / 'त्र्यन्त्यस्वरादेः' अद्यतनीदि 'णिश्रुद्रु०' इति ङप्रत्ययः 'णेरिनिटि' (4 / 3 / 83) णिच्लोपः ‘सन्यङश्च' (4 / 1 / 3) इति द्वित्वम् / सित् इत्यस्य अत्र सन्वदीर्घो न क्रियते समानलोपत्वात् / अत्रोदाहरणे उभयसकारयोर्मध्ये कस्य सस्य षत्वमिति पराशङ्का // 47 / / असोङसिवूसहस्सटाम् // 2 // 3 // 48 // - परि-नि-विभ्यः परस्य सिवूसहोर्धात्वोस्सडागमस्य च सस्य षः स्यात्, चेत् सिवूसही सोडविषयौ न स्याताम् / [षिवूच् उतौ] परिषीव्यति निषीव्यति विषीव्यति / परिषहते निषहते विषहते / परिष्करोति विष्किरः, नेस्तु परस्सड् नास्तीति नोदाहियते / असोङेति किम् ? परिसोढः परिसोढव्यः / डे. मापरिसीषिवत् मापरिसीषहत्, मूलधातोस्तु षत्वं स्यादेव / सोप्रतिषेधस्तु सहेरेव न सिवः तस्य सोरूपासम्भवात् // 48 // ___अ० सिवू च सहश्च स्सट् च सिवूसहस्सटः / सोश्च ङश्च सोङः / न सोङः असोङः / असोडश्च ते सिवूसहस्सटश्च तेषाम् / / षहि मर्षणे' आत्मनेपदी, 'षह षुह च शक्तौ' परस्मैपदी, 'षहण् मर्षणे' इति युजादौ, अत्र त्रयोऽपि गृह्यन्ते / परिष्करोतीत्यत्र 'सम्परेः कृगः स्सट्' (4 / 4 / 91) इति स्सट् / / ‘कृत् विक्षेपे' विकिरतीति 'नाम्युपान्त्यपृकृगृज्ञः कः' (5 / 1 / 54) इति कः 'ऋतां क्ड़ितीर्' (4 / 4 / 116) इति इर् 'वौ विष्किरो वा' (4 / 4 / 96) इति स्सट् विष्किरः पक्षी / परिसोढ इत्यादि- 'षहि मर्षणे' परिसह्यते स्म क्तः / परिसह्यते स्म परिसोढव्यः 'तव्यानीयौ' (5 / 1 / 127) 'हो धुट्पदान्ते' (2 / 1 / 82) हस्य ढः 'सहिवहेरोच्चावर्णस्य' (1 / 3 / 43) इति प्रकृतिढस्य लुक् सकारस्य ओत्वम्, सो इति रूपं जातम्; ईदृशसो इत्यस्य षत्वं प्रतिषिद्धम् / 'षिवूच् उतौ' सीव्यन्तं प्रयुङ्क्ते / सह. परि सहमानं प्रयुङ्क्ते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) माङ्पूर्वम् 'माङयद्यतनी' (5 / 4 / 39) अनेनाद्यतनी, 'णिश्रिद्रुसु०' ङप्रत्ययः / सह इत्यत्र 'ञ्णिति' (4 / 3 / 50) वृद्धिः, पश्चात् 'उपान्त्यस्यासमानलोपिशास्वृदितो डे' (4 / 2 / 35) इति धातोर्हस्वः, पश्चात् ‘णेरनिटि' सिच् णिग्लोपः ‘सन्यङश्च' इति द्विवचनम्, सह इति द्वित्वम् 'असमानलोपे सन्वल्लघुनि डे' (4 / 1 / 63) इति अभ्यासे इत्वम् ‘लघोर्दीर्घोऽस्वरादेः' (4 / 1 / 64) इति दीर्घ ई // 48 // . स्तुस्वाश्चाटि नवा // 2 // 3 // 49 // - परि-नि-विभ्यः परस्य स्तुस्वोरसोङसिवूसहस्सटां च सस्याटि सति षो वा स्यात् / पर्यष्टौत् पर्यस्तोत् / इत्यादि / पर्यष्वजत पर्यस्वजत इत्यादि / पर्यषीन्यत् पर्यसीन्यत् / पर्यषहत पर्यसहत ['सम्परेः कृगः स्सट्' (4 / 4 / 91)] पर्यष्करोत् पर्यस्करोत् / असोङसिवूसहेति किम् ? पर्यसोढयत् पर्यसीषिवत् पर्यसीषहत् // 49 // अ० आदिशब्दात् न्यष्टौत् न्यस्तौत्, व्यष्टौत् व्यस्तौत् / पर्यस्वजतेत्यत्राप्यादिशब्दात् न्यष्वजत न्यस्वजत, व्यष्वजत