________________ 162 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते व्यस्वजत; पर्यषीव्यत पर्यसीव्यत, न्यषीव्यत् न्यसीव्यत्, व्यषीव्यत् व्यसीव्यत्, पर्यषहत पर्यसहत, न्यषहत न्यसहत, व्यषहत व्यसहत इति प्रयोगा ज्ञातव्याः / परिसोढमाख्यत् 'णिज्बहुलं०' ह्यस्तनीदिव्, गुणः / तथा परिसीव्यन्तं परिषहमानं प्रयुक्ते 'प्रयोक्तृव्यापारे णिग्' 'ञ्णिति' वृद्धिः ‘उपान्त्यस्यासमान०' इति ह्रस्वः, अद्यतनीदि, 'णिश्रुद्रु०' 'णेरनिटि' द्वित्वं सन्वद्भावः, दीर्घश्च प्राग्वत्सर्वं कार्यम् / अत्र व्यावृत्तिबलात् पूर्वसस्य न षत्वम्, प्रकृतिसस्य षत्वं भवत्येवेत्यर्थः // 49 // निरभ्यनोश्च स्यन्दस्याप्राणिनि // 2 // 3 // 50 // निर्-अभि-अनुभ्यश्चकारात् परि-नि-विभ्यश्च परस्य स्यन्देः सस्याप्राणिकर्तृकार्थविषये पो वा स्यात् / निःष्यन्दते निःस्यन्दते तैलम् / अभिष्यन्दते अभिस्यन्दते, अनुष्यन्दते इत्यादि / शनिर्देशात् यङ्लुपि न भवति ['यङ् तुरुस्तो०' (4 / 3 / 64)] अभिसास्यन्दीति तैलम् / अप्राणिनीति किम् ? परिस्यन्दते जले मत्स्यः // 50 // ___ अ० निरभ्यनोश्च स्यन्दस्येति सूत्रे ‘स्यन्दौङ् श्रवणे' इत्ययं धातुः, आदिदन्त्यसकारः ततोऽन्तस्थायकारईदृशः पठनीयः नतु षकारान्त्यः, अभिसास्यन्दीति प्रयोगदर्शनात् / अप्राणिनीत्यत्र नञ् पर्युदासोऽयम्, न प्रसज्यार्थः, तेन यत्र प्राणी चाप्राणी च द्वयमपि कर्तृपदं भवति तत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः, यथा अनुष्यन्देते अनुस्यन्देते वा मत्स्योदके इति भावः // 50 // वेः स्कन्दोऽक्तयोः // 2 // 3 // 51 // : विपूर्वस्य स्कन्दे सस्य षो वा स्यात्, स्कन्दे परौ तक्तवतू चेन स्यांताम् [स्कन्, गतिशोषणयोः] विष्कन्ता विस्कन्ता / अक्तयोरिति किम् ? विस्कनः विस्कनवान् // 51 // __ अ० विस्कनः विस्कनवान् इत्यत्र विस्कन्द्यते स्मेति 'क्तक्तवतू' (5 / 1 / 174), 'नो व्यञ्जनस्या०' (4 / 2 / 25) इति न् लुक् ‘रदादमूर्च्छमदः क्तयोर्दस्य च' (4 / 2 / 69) इति सूत्रेण धातुदकारस्य प्रत्ययतकारस्य च नकारः क्रियते // 51 // परेः // 2 // 3 // 52 // . परिपूर्वस्य स्कन्देः सस्य षो वा स्यात् / परिष्कन्ता परिस्कन्ता / योगविभागादक्तयोरिति नानुवर्तते, तेन क्तयोरपि विकल्पः-परिष्कण्णः परिस्कन्नः, परिष्कण्णवान् परिस्कनवान् // 52 // __ अ० परिष्कण्ण इत्यादिषु- 'रदादमूर्च्छमदः क्तयोर्दस्य च' (4 / 2 / 69) इति सूत्रेण धातुदस्य प्रत्ययतकारस्य च नकारः, 'रघुवर्णान्नो ण एकपदे०' (2 / 3 / 63) इति सूत्रेण धातुनकारस्य णकारः 'तवर्गस्य श्चवर्ग०' इत्यनेन प्रत्ययनकारस्य णत्वम् // 52 // निर्नेः स्फुरस्फुलोः // 2 // 3 // 53 // निर्निभ्यां परयोः स्फुरस्फुलोः सस्य षो वा स्यात् / निःष्फुरति निःस्फुरति / निष्फुरति निस्फुरति / एवं निःप्फुलतीत्यादि // 53 // ___ अ० निर्नेः स्फुरस्फुलोरिति सूत्रे वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः, एतेन स्फुरस्फुल्योर्निर्नि इत्युपसर्गद्वयमपि प्राग्भवतीत्यर्थः / आदिशब्दात् निःस्फुलति, निष्फुलति, निस्फुलति इति प्रयोगः // 53 // . 1. अत्रोदकमाश्रित्य विकल्पे षत्वं, न तु मत्स्यमाश्रित्य निषेधः /