________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 163 वेः // 2 // 3 // 54 // वेः परयोः स्फुरस्फुलोः सस्य षो वा स्यात् / विष्फुरति विस्फुरति, विष्फुलति विस्फुलति / योगविभाग उत्तरार्थः // 54 // स्कभ्नः // 2 // 3 // 55 // वेः परस्य स्कभ्नातेः सस्य षो नित्यं स्यात् / योगविभागाद्वेति निवृत्तम्, अन्यथा हि वेः स्कभ्नश्च इति क्रियेत / विष्कभ्नाति, विष्कम्भकः, विष्कम्भयति / भानिर्देशः किम् ? सश्नोर्मा भूत्-विस्कभ्नोति // 55 // ____ अ० स्कम्भू सौत्रो धातुः / 'स्तम्भूस्तम्भूस्कम्भूस्कुम्भूस्कोः श्रा च' (3 / 4 / 78) इति सूत्रेण भानुप्रत्ययौ, यत्र भाप्रत्ययस्तत्र स्कभ्न इति सूत्रं प्रवर्तते; यत्र च श्रुप्रत्ययस्तत्र सूत्रं न प्रवर्तते, विस्कभ्नोति इति प्रयोगः // 55 / / निःसुवेः समसूतेः // 2 // 3 // 56 // निर्-दुर्-सु-विभ्यः परस्य समसूत्योः सस्य षः स्यात् / निःषमः दुःषमः सुषम्ः विषमः / एवं निःषति इत्यादि / समसूतीति नाम्नोर्ग्रहणाद्धातोर्वैरूप्ये च न भवति-निःसमति दुःसमति, निःसूतमित्यादि // 56 // अ० सह मया लक्ष्म्या समः / निर्गतो निश्चितो वा समात् निःषमः / एवं दुःष्टः, सुष्ठ, वि विशेषेण च गतो समात् दुःषम इत्यादि वाक्यानि कार्याणि // आदिशब्दात् दुःषतिः सुषूतिः विषूतिरिति प्रयोगाः // 56 // __ अवः स्वपः // 2 / 3 / 57 // नि-र्दुः-सु-विपूर्वस्य वकाररहितस्य स्वपेर्धातोः सस्य षः स्यात् / निःषुषुपतुः दुःषुपुपतुः इत्यादि एवं निःषुप्तः दुःषुप्तः / अव इति किम् ? दुःस्वप्नः सुस्वप्नः विसुष्वापः // 17 // __ अ० निःषुषुपतुः दुःषुषुपतुः सुषुषुपतुः विषुषुपतुः इति प्रयोगाः; 'स्वपेर्यड्डे च' (4 / 1 / 80) इति सूत्रेण स्वपधातोर्वकारस्य य्वृत् उकारः, ततो द्वित्वं कार्यं सर्वत्र / / निःस्वपितीति निःषुप्तः, दुःस्वपितीति दुःषुप्तः, 'ज्ञानेच्छाईर्थात् जीच्छाल्यादिभ्यः क्तः'. (5 / 2 / 92) / दुःस्वपनं दुःस्वप्नः, सुस्वपनं सुस्वप्नः ‘यजिस्वपिरक्षियतिप्रच्छो नः' (5 / 3 / 85) इति सूत्रेण नप्रत्ययः / विसुष्वाप इत्यत्र द्वित्वे कृतेऽभ्यासे वकारस्य उकार: ‘भूस्वपोरदुतौ' (4 / 1 / 70) इत्यनेन // 57|| प्रादरपसर्गादयस्वरेऽस्तेः // 2 // 3 // 58 // प्रादुःशब्दादुपसर्गस्थाच नाम्यादेः परस्यास्तेः सस्य यकारादौ स्वरादौ च प्रत्यये परे षः स्यात् / प्रादुःष्यात् निष्यात् अभिष्यात्, प्रादुःषन्ति विषन्ति अभिषन्ति / प्रादुरुपसर्गादिति किम् ? मधूनि सन्ति, यदत्र मां प्रति' स्यात्तद्दीयताम् / यस्वर इति किम् ? प्रादुःस्तः अनुस्तः ['नास्त्योर्लुक्' (4 / 2 / 90)] // 58 // - अ० नाम्यन्तस्थाकवर्गेति ज्ञेयम् / प्रादुर्, प्रथमासिः, 'अव्ययस्य' (3 / 2 / 7) इति लुक् / 'असिक् भुवि' अस्, सप्तमीयात् / / प्रादुःषन्तीत्यादौ तु वर्तमानान्ति 'नास्त्योर्लुक्' इति अस्तेः अकारलुक् सर्वत्र कार्यः / प्रादुःशब्दस्य कुम्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं न भवति // 58 / / न स्सः // 2 // 3 // 59 // कृतद्वित्वस्य सकारसम्बन्धिनः सस्य षो न स्यात् / सुपिस्स्यते / सुतुस्स्यते // 19 // 1. अत्र 'प्रति' धातुसम्बन्धत्वाभावात् उपसर्गसङ्घको न भवति /