________________ 164 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते ___अ० 'पिसृपेसृवेसृ गतौ' पिस्, ‘तुसहसहसरसशब्दे' इति तुस् वर्तमाना ते। 'क्यः शिति' (3 / 4 / 70) 'अदी द्विरामैकव्यञ्जने' (1 / 3 / 32) इति धातुसकारस्य द्वित्वम् / सकारादिः स्, स्स्; तस्य स्सः / ननु दधि भक्षितुमिच्छति दधिस्यति, मधु भक्षितुमिच्छति मधुस्यति ‘अमाव्ययात् क्यन् च' (3 / 4 / 23) इति क्यन् ‘अस् च लौल्ये' (4 / 3 / 115) इति सूत्रेण दधि क्यन् अन्तरे सोऽन्तः / परं एकःसकारः कार्यः / तथा समविस्करन् ‘सम्परेः कृगः स्सट्' (4 / 4 / 91) इत्यनेन स्सट्, परं एकः सकारः कार्यः / अग्निसात्करोतीत्यत्र 'व्याप्तौ स्सात्' (7 / 2 / 130) इति सूत्रेण स्सात्प्रत्ययः परं एकः सकारः कार्यः / दधिस्यति समविस्करत् अग्निसात्करोतीत्यत्र प्रतिषेधाभावात् नाम्यन्तस्थेति षत्वं कथं न भवति ? उच्यते-स्स स्सट् स्सात्' इत्येषां द्विःसकारपाठः ‘अस् च लौल्ये' 'सम्परेः कृगः स्सट्' 'व्याप्तौ स्सात्' सूत्रेषु षत्वप्रतिषेधार्थं वक्ष्यते इति अत्र षत्वं न भवतीत्यर्थः / / 59 / / . सिचो यङि // 2 // 3 // 60 // सिञ्चतेः सस्य यङि प्रत्यये परे षो न स्यात् सेसिच्यते अभिसेसिच्यते / परत्वादुपसर्गलक्षणमपि ['स्थासेनिसेधसिचसआं द्वित्वेऽपि' (2 / 3 / 40) इति प्राप्तं) इति प्राप्तं] षत्वं बाधते, एवमुत्तरत्रापि // 6 // गतौ सेधः // 2 // 3 // 6 // गत्यर्थस्य सेधतेः [षिधू गत्याम्] सस्य षो न स्यात् / अभिसेधति अनुसेधति गाः / अभिगच्छति अनुगच्छतीत्यर्थः / अभिसेधयति अनुसेधयति-गमयतीत्यर्थः / गताविति किम् ? प्रतिषेधति निषेधति पापात्-निवारयतीत्यर्थः // 61 // अ० गतौ सेधः' -अत्र सूत्रे अभिसिसेधिषते अनुसिसेधिषते-अभिजिगमिषतीत्यर्थः / अत्रापि 'स्थासेनिसेधसिचेति उपसर्गसम्बन्धि प्राप्तं षत्वं न भवतीत्यर्थः // 61 // . सुगः स्यसनि // 2 // 3 // 62 // सुनोतेः ['पुंग्ट् अभिषवे'] सस्य स्ये सनि च प्रत्यये परे षो न स्यात् / अभिसोष्यति परिसोष्यति / अभ्यसोष्यत् / सनि-सूसूषतेः किप् सुसूः / स्यसनीति किम् ? सुषाव, अभिषुणोति // 62 // अ० 'धुंग्ट् अभिषवे' 'षः सोऽष्टयैः' (2 / 3 / 98) सु / सिनोतुमिच्छति 'तुमर्हादिच्छायां सन्नतत्सनः' (3 / 4 / 21) सन् / द्वित्वादिकं पूर्ववत् / / सुसूषतीति ‘क्किप्' (5 / 1 / 148) 'अतः' (4 / 3 / 82) इति सूत्रेण सनोऽकारलोपः / प्रथमासिः, सुसूः इत्युदाहरणं सिद्धम् / सुसूषतीत्युदाहरणं न दर्शितम्, णिस्तोरेव षणि षत्वं नान्यस्य इति नियमात् // 62 // ___ इति सकारस्य षकाराधिकारः समाप्तः / / रघुवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे // 2 // 363 // [न अन्त्यः अनन्त्यः, तस्य] रेफषकारऋवर्णेभ्यः परस्यानन्त्यस नकारस्य रघुवर्णैः सहैकपदे वर्तमानस्य णकारो भवति, यदि निमित्त निमित्तिनोरन्तरे [विचाले] लकारचवर्गटवर्गतवर्गशकारसकारा न स्युः, शेषवर्णान्तरेऽपि सति णत्वं स्यात् / चतुर्णाम् पुष्णाति, नृणाम् नृणाम् [नुर्वा (1 / 4 / 48) इति नि विकल्पदीर्घः) / शेषवर्णव्यवधानेऽपि-करणमि