________________ 165 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः त्यादि बृंहणम् अर्केणेत्यादि / एकपद इति किम् ? अग्निर्नयति / पदे इत्येतावतैकपदे लब्धे एकग्रहणं नियमार्थम्-एकमेव यनित्यं तत्र यथा स्यात्, यदेकं चानेकं च तत्र मा भूत्-चर्मनासिकः, मेषनासिकः / अनन्त्यस्येति किम् ? वृक्षान् / लादिवर्जनं किम् ? विरलेन इत्यादि // 63 // ___ अ० चश्च टश्च तश्च चटताः, चटतां वर्गः चटतवर्गः, लश्च चटतवर्गश्च शश्च सश्च लचटतवर्गशसाः / अन्तरं व्यवधानं यस्य एकपदस्य तत् / न लचटतवर्गशसान्तरं अलचट० तस्मिन् / / 'रघुवर्णान्नोण.' इत्यधिकारसूत्रं णकारविधिसूत्राणि यावत् ज्ञातव्यम् / णकारविधिसूत्राणि 27, तथा णकारनिषेधसूत्राणि 7; एवं णकारसूत्र 34 / करणम् वृक्षाणाम् करीणाम् ऋषीणाम् गुरुणा गुरूणाम् करेण इति स्वर-अन्तरे सति णत्वम् / बृंहणम् अर्केण मूर्खेण स्वर्गेण अर्पण दर्पण रेफेण दर्भेण अर्येण सर्वेण अhण; एषु उदाहरणेषु कवर्गपवर्गयकारवकारहकारैर्व्यवधाने सति णत्वं दर्शितम् // चर्ममयी नासिका यस्य, मेषवन्नासिका यस्य; अत्र उत्तरसूत्रेणापि न णत्वम्; नामसंज्ञाया अभावात् / विरलेन; आदिशब्दात् अर्चनम् मूर्च्छनम् अर्जनम् ऊर्जनम् किरीटेन कर्मठेन मृडेन दृढेन कर्णेन कीर्तनम् तीर्थेन नर्देन क्रोधेन रसना. रशना; एतेषु यथाक्रमं लचवर्गटवर्गतवर्गशसा इत्यन्तरे सन्तीति न णत्वम् // 63 / / पूर्वपदस्थानाम्न्यगः // 2 // 3 // 64 // पूर्वपदस्थाद्रवर्णादगकारान्तात् एव वर्णात् परस्य सामर्थ्यादुत्तरपदस्थस्य नकारस्य णकारः स्यात्, नाम्नि संज्ञाविषये / गुणसः खरणाः खुरणाः शूर्पणखा चन्द्रणखा वार्षीणसः हरिवाहणः पुष्पणन्दी श्रीणन्दी स्त्री। अग इति किम् ? ऋगयनम् / एकस्मिन्नेव पदे इति पूर्वसूत्रेण णत्वविज्ञानात् [णत्वविधानात् ] उत्तरपदस्थनकारस्य समासे णत्वं न प्राप्नोतीत्ति इदं सूत्रं कृतम् / मातृभोगीणः / गर्गभगिणीत्यादौ तूत्तरपदसम्बन्धी नकारो न भवति [प्रत्ययः प्रकृत्यादेरिति न्यायात् ] इत्येकपदत्वात् एकपदसम्बन्धित्वात् पूर्वसूत्रेणैकत्र णत्वम् / यदा तु गर्गाणां भगिनीति विग्रहः [समासः] तदैकपदत्वाभावाद्र्गभगिनीत्येव / देवदारुवनम् कुबेरवनम् मनोहरवनमित्यादौ संज्ञायां कथं न णत्वम् ? उच्यते-'कोटरमिश्रक०' (3 / 2 / 76) इति सूत्रेण निपातनस्य नियमार्थत्वेन व्याख्यास्यमानत्वात् संज्ञायां कोटरादिभ्यः एव वनस्य णत्वं नान्येभ्य इति // 6 // --- अ० खरा खरस्येव नासिकाऽस्य खरणाः, खुर इव नासिकाऽस्य खुरणाः ‘खरखुरान्नासिकाया नस्' (7 / 3 / 160) इति सूत्रेण नासिकाया नस् इति समासान्तः, प्रथमासिः, 'अभ्वादेरत्वसः सौ' (1 / 4 / 90) इति दीर्घः / सूर्पाकारा नखा यस्याः सा शूर्पणखा, चन्द्राकारा नखा अस्याः सा चन्द्रणखाः; राक्षसी / 'टुनदु स्मृद्धौ' 'उदितः स्वरानोऽन्तः' (44 / 98) नन्द; पुष्प श्रीपूर्वम् / पुष्पाणि नन्दयति पुष्पणन्दी, श्रियं नन्दयति श्रीणन्दी 'कर्मणोऽण्' (5 / 1 / 72) 'अणजेयेकण्०' (2 / 4 / 20) इति सूत्रेण ङीः 'अस्य ङ्यां लुक्' (2 / 4 / 86) इत्यकारलोपः, पुष्पणन्दी श्रीणन्दी इति आचार्यनाम / दुरिव द्रुम इव नासिकाऽस्य द्रुणसः ‘अस्थूलाच्च नसः' (7 / 3 / 161) इति सूत्रेण नासिकाशब्दस्य नस इत्यादेशः / गर्गाणां भगो गर्गभगोऽस्या अस्तीति गर्गभगिणी 'अतोऽनेकस्वरात्' (7 / 2 / 6) इन् ‘स्त्रियां नृतोऽस्वस्रादेर्डीः' (2 / 4 / 1) इति ङीः यथा गर्गभगिणीत्यत्रोत्तरपदसम्बन्धिनकाराभावात् पूर्वपदस्थानाम्न्यगेत्यनेन णत्वं न भवति, तथा गर्गभगिनीत्यत्र 'वोत्तरपदान्तनस्यादेरयुवपक्काह्नः' (2 / 3 / 75) इति सूत्रेण विकल्पेन णत्वं न स्यात् / मातृभोगाय हितो मातृभोगीणः ‘भोगोत्तरपदात्मभ्यामीनः' (7 / 1 / 40) इति ईनः 'अवर्णेवर्णस्य' (7 / 4 / 68) / वनशब्दस्य पूर्वपदस्थेत्यनेन णत्वमाकाराप्राप्तावेव स्यात्, आकारप्राप्तिस्तु कोटरमिश्र