________________ 38 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इति वचनात् नप्रत्ययः / आत् (2 / 4 / 18) इति आप् / राज्ञेत्यत्र 'अनोऽस्य' (2 / 1 / 108) इति अनोऽकारस्य लुप् / अद्ड इति / 'अद्ड अभियोगे' इति धातुः / अड्ड / वर्तमाना तिव् / अड्डतीति / / अट्टि हिंसातिक्रमयोः धातुः / अट्ट / वर्तमानाते अट्टते इति रूपम् // 60 // - सस्य शषौ // 1 // 3 // 6 // सकारस्य स्थाने श्ववर्गष्टवर्गाभ्यां योगे यथासङ्ख्यं शकारषकारावादेशौ स्याताम् / चवर्गेण-च्योतति वृश्चति मज्जति / षकारेण-सप्पिष्षु धनुष्षु / टवर्गेण-पापलि / बंभण्षि // 6 // अ० श्च्योततीत्यादि-स्च्युत् व्रस्च मस्ज् लस्ज् भ्रस्ज् षस्ज् इत्यादिधातूनां दन्त्यसकारोपदेशत्वं पश्चात् ‘सस्य शषौ' (1 / 3 / 61) इति सूत्रेण तालव्यशकारः कार्यः / 'तृतीयस्तृतीय०' (1 / 3 / 49) इति सस्य जः / सर्पिष्षु इत्यादौ पदान्तत्वात् 'नाम्यन्तस्था०' (2 / 3 / 15) इत्यादिना प्रकृतिसस्य न षत्वं प्रत्ययसस्य भवति / प्रकृतेः सस्य 'सस्य शषौ' (1 / 3 / 61) इति षः / पालि / अट पटेति धातुः / पट् / भृशं पुनःपुनर्वा 'व्यञ्जनादेरेक०' (3 / 4 / 9) इति यङ् ‘सन्यडश्च' (4 / 1 / 3) द्विवचनम् / 'व्यञ्जनस्यानादेर्लुक्' (4 / 1 / 44) प तिष्ठति ‘आगुणाव०' (4 / 1 / 48) इति अभ्यासे आकारः / अणरणेति (दष्डक धातुः) भण् / यङ् द्विवचनं 'मुरतोऽनुना०' (4 / 1 / 51) म् / 'तौ मुमो व्यञ्जने०' (1 / 3 / 14) अनुस्वारः 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) भस्य ब् / वर्तमानासि / 'बहुलम् लुप्' (3 / 4 / 14) इति यङ्लुप् / पठेश्च पाक्षि इति // 61 / / न शात् // 113162 // शकारात्परस्य तवर्गस्य स्थाने चवर्गो न स्यात् / अनाति / प्रश्नः // 62 // अ० प्रश्नः 'प्रच्छंत् झीप्सायाम्' प्रच्छ / प्रच्छनं प्रश्नः / 'यजिस्वपि०' (5 / 3 / 85) इति नप्रत्ययः 'अनुनासिके च च्छ्ः शूट्' (4 / 1 / 108) इति छस्य श् // 62 / / ___ पदान्ताट्टवर्गादनामनगरीनवतेः // 1 // 3 // 63 // ट) पदान्तस्थादृवर्गात्परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च स्थाने तवर्गषकारौ न स्याताम्। षट्तयम् ['अवयवात्तयट्'] षण्नयाः / षट्सु / टवर्गादिति किम् ? चतुष्टयम् / अनामनग-रीनवतेरिति किम् ? षण्णाम् षण्णगरी षण्णवतिः / नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव-षड्नाम [षण्णां नाम] // 63 // अ० चतुष्टयम् चतुर्-चत्वारोऽवयवा 'अवयवात्तयट्' (7 / 1 / 151) इति तयट् / 'चटते सद्वितीये' (1 / 3 / 7) इति रस्य स् / ‘ह्रस्वान्नाम्नस्ति' (2 / 3 / 34) इति सस्य ष 'तवर्गस्य०' (1 / 3 / 60) इति तस्य ट् / षण्णां शष् आम् / 'सङ्ख्यानां ष्र्णाम् (1 / 4 / 33) इति आम्स्थाने नाम् ‘धृटस्तृतीयः' (2 / 1 / 76) स्य ड 'प्रत्यये च' (1 / 3 / 2) डस्य ण् / 'तवर्गस्य०' इति नस्य ण् / षण्णां नगरी षण्णगरी / षड्भिरधिका नवति षण्णवतिः // 63 / / . पि तवर्गस्य // 13 // 64 // पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् / तीर्थकृत्योडशः शान्तिः / पीति किम् ? तट्टीकतें // 6 // अ० षड्भिरधिका दश षोडशः / अथवा षडुत्तरा दश, षट् च दश च वा / 'एकादशषोडशषोउत्' (3 / 2 / 91) इति निपाताः शब्दाः / अत्र षषोऽन्तस्य उत्वं उत्तरपददकारस्य च डकारः इति षोडशः / षोडशानां पूरणः षोडशः। 'गब्यापूरणे टर' (0101954) // 9 //