________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः / - वाहपत्यादयः // 1 / 3 / 58 // __ अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा निपात्यन्ते / अहर्पतिः अहः पतिः / गीपतिः गीः पतिः / हे प्रचेता राजन् हे प्रचेतो राजन् / बहुवचनमाकृतिगणार्थम् // 58 // ____ अ० वार्हप्पत्येति निपातनात् पदान्ताधिकारो निवृत्तस्तेन उत्तरसूत्रे पदान्ताधिकारो न याति / तथा च ख्षीरं इति सिद्धम् / अत्र अहर्पतिः-अहन् पतिः / अह्रां पतिः / अहर्पतिः / अत्र 'अहः' (2 / 1 / 74) इति सूत्रेण नस्य र् / अत्र रस्य विसर्गो न भवति / गिराम् पतिः / गीपतिः / 'हादह ' (1 / 3 / 31) इति पस्य द्वित्वम् / प्रचेतस् हेपूर्वं / आमन्त्र्यसिः / लुक् / हे प्रचेता अत्र रस्य 'घोषवति' (1 / 3 / 21) इति उत्वं न भवति ‘रो रे लुग् दीर्घश्चादिदुतः' (1 / 3 / 41) इति भवति // 58 / / . शिट्याद्यस्य द्वितीयो वा // 1 // 3 // 59 // आद्यस्य प्रथमस्य स्थाने शिटि परे द्वितीयो वा स्यात् / ख्वीरं क्षीरम् / तछ्शोभनं तच्शोभनम् / भवथ्सु। भवत्सु / अफ्सु / अप्सु / अफ्सराः / अप्सराः // 59 // तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे चटवर्गौ // 1 // 3 // 60 // तवर्गस्य स्थाने शकारचवर्गाभ्यां षकारटवर्गाभ्यां च योगे यथासङ्ग्यं चवर्गटवर्गावादेशौ स्याताम् / स्थान्यासन्नौ समुदायद्वयापेक्षया / यथासङ्ग्यार्थं तृतीयाद्विवचनम् / योगग्रहणं स्थानित्वाशङ्कानिरासार्थ पूर्वा- . परभावनियमार्थं च / शयोगे-सोते / भवाञ्ोते // चवर्गेण योगे सति तच्चरति / तच्छादयति / तज्जयति। तज्झाषयति / तज्ञकारेणेत्यत्र (अनेन सूत्रेण) दस्य जे कृते 'तृतीयस्य पञ्चमे' (1 // 3 // 1) इति ञकारः। प्रशाञ्चरति / प्रशाञ्छिनत्ति / भवाञ्जयति पूर्वेण चवर्गेण / [योगे सति] याञा। राज्ञः / पूर्वेण शकारेण परेण च षकारेण 'न शात्' (1 / 3 / 62) [इति पूर्वे शे सति तवर्गस्य चवर्गत्वं न स्यात् ] 'षितवर्गस्य' (1 / 3 / 64) इत्यनेन प्रतिषेधो वक्ष्यते [तवर्गात् परे शे सति भवति च चवर्गः] / पूर्वेण षकारेण-पेष्टा / पूष्णः / टवर्गेण (योगे सति)। वट्टीकते / तद्वकारेण / तड्डीनम् / अद्ड अड्डति / अट्टि अट्टते / भवाण्डीनः / पूर्वेण टवर्गेण / [योगे सति] ईट्टे // 6 // ___ अ० श् च चवर्गश्च / श्चवर्गः / ष् च टवर्गश्च ष्टवर्गः / श्चवर्गश्च ष्टवर्गश्च श्चवर्गष्टवर्गौ ताभ्याम् / तथा चश्च टश्च चटौ / चटयोर्वग्! चटवग्ौ / तवर्गो यतमो भवति तदनुसारेण चवर्गटवर्गवर्णस्तवर्गस्य स्यात् / चेत्प्रथमो वर्णस्तः तदा च / अथ तवर्गस्य द्वितीयो वर्णः थ तदा चवर्गस्य छ / एवमन्येऽपि इति स्थान्यासन्नावित्यभिप्रायः / योगग्रहणमिति-अयमर्थः-योगग्रहणं विना सहार्थतृतीयायां सत्यां 'अवर्णस्येवर्णादिना०' (1 / 2 / 6) इत्यादिवत् श्चवर्गादेरपि स्थानित्वाशङ्का स्यात्, ततः चवर्गष्टवर्गाभ्यां सह चटवग्! स्याताम् इति आशङ्कानिरासार्थम् / योगं विना श्चवर्गष्टवर्गाभ्यां अत्र पञ्चम्यपि स्यात् पञ्चम्यां सत्यां ‘पञ्चम्या निर्दिष्टे परस्य' (7 / 4 / 104) इति न्यायात् इति सूत्रार्थकल्पना स्यात्-प्रकृतिसम्बन्धी तवर्गः स्थानी, प्रत्ययशब्दसम्बन्धिनौ चवर्गटवर्गों परत इति, परं नेयं सूत्रार्थकल्पना, तवर्गः स्थानी प्रकृतिसम्बन्धी प्रत्ययसम्बन्धी वा, चवर्गटवर्गावपि प्रकृतिप्रत्ययसम्बन्धिनौ, एवमेव उदाहरणरचना दर्शितास्ति। इति पूर्व अपर भावनियमः कोऽपि नहीति भावार्थः / याच्ञा 'डुयाच्ङ् याच्ञायाम्' याच् / याचनं याच्ञा / ‘मृगयेच्छायाच्ञातृष्णाकृपाभाश्रद्धान्त ' (5 / 3 / 101) इति निपात्यन्ते / तत्र ‘याचितृष्योः ननङौ'