________________ '36 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते तु सा विवक्षामपेक्षते // 52 // ___ अ० "लि लौ' (1 / 3 / 65) इति प्राप्ते / वर्णानां परः सन्निकर्षः संहितेत्युच्यते / विवक्षितश्च सन्धिर्भवति इति ज्ञेयम् // 52 // रः पदान्ते विसर्गस्तयोः // 13 // 53 // पदान्ते वर्तमानस्य रेफस्य स्थाने तयोविरामेऽघोषे च विसर्ग आदेशः स्यात् / वृक्षः / स्वः / कः कृती। कश्वरतीत्यादिषु तु शादय एवापवादत्वाद्भवन्ति / पदान्त इति किम् ? ईर्ते / कथं नृपतेरपत्यं नार्पत्यः तवर्कारः प्रार्छतीत्यादि ? 'असिद्धं बहिरङ्गमन्तरङ्गे' इति वृद्ध्यरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गो न भवति / अन्वित्यधिकारात्-गीः धूः सजूःषु इत्यादिषु दीर्घत्वे कृते पश्चाद्विसर्गः / अन्यथा हि पूर्वं विसर्गे कृते इरुरोरभावादी? न स्यात् // 53 // __ अ० नृणां पतिर्नृपतिः / नृपतेरपत्यं नार्पत्यः 'अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाळ्यः ' (6 / 1 / 15) इत्यनेन ञ्यः ‘वृद्धिः स्वरेष्वादे०' (7 / 4 / 1) इति वृद्धिः नार् / 'गृत् निगरणे' गृ उर्वैरिति दण्डक धातुः / धुर्वै / गिरतीति गीः / धुर्वतीति धूः / 'क्विप्' (5 / 1 / 148) * तां ङितीर्' (4 / 4 / 116) इर् गिर् / ‘राल्लुक्' (4 / 1 / 110) इति वस्य लुक् धुर् / किप् लोपः / ततोऽग्रे सिलुक् / ‘पदान्ते' (2 / 1 / 64) इति सूत्रेण दीर्घत्वे कृते गीर् धूर् / पश्चाद्रस्य विसर्गः / 'जुषैति प्रीतिसेवनयोः जुष् / सहपूर्वं / सह जुषते इति 'विप्', सिः, लुक्, ‘सजुषः' (2 / 1 / 73) इति सूत्रेण षस्य र् / ‘पदान्ते' इति दीर्घः / सजूर // 53 // ख्यागि // 1 // 3 // 54 // पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् / कः ख्यातः / पूर्वेणैव सिद्धे नियमार्थमिदम्, तेन जिह्वामूलीयोऽपि न स्यात् // 54 // शिट्यघोषात् // 1 // 3 // 5 // अघोषात्परे शिटि परतः पदान्तस्थस्य रस्य विसर्ग एव स्यात् / पुरुषः त्सरुकः / वासः क्षौमम् / सर्पिः प्साति / अद्भिः प्सातम् / इदमपि नियमार्थम् तेन सत्वषत्व) (७पा न भवन्ति] // 55 // ____ व्यत्यये लुग्वा // 1 // 3 // 56 // शिटः परोऽघोष इति व्यत्ययः / तस्मिन्सति पदान्तस्थस्य रस्य लुग्वा स्यात् / चक्षुश्च्योतति / पक्षे चक्षुश्श्च्योतति / चक्षुः च्योतति // 56 // अरोः सुपि रः // 1 // 3 // 57 // रुवर्जितस्य रेफस्य स्थाने सुपि परे रेफ एव स्यात् / गीर्षु / धूर्षु / विसर्गसकारौ न भवतः / अरोरिति किम् ? पयःसु / पयस्सु // 7 // ___ अ० न रुः / अरुः तस्य / 'शषसे शषसं वा' इत्यनेन पयःसु / पयस्सु / एवं अहःसु अहस्सु / पयस्सु इत्यत्र ‘सो रुः' (2 / 1 / 72) अहस्सु इत्यत्र च 'अहः' (2 / 1 / 74) इति सूत्रेण रुः / तदनन्तरं 'शषसे शषसं वा' (1 / 3 / 6) इत्यनेन विकल्पसकारः / / 57||