________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः (4 / 2 / 69) इत्यनेन धातुदकारस्य प्रत्ययतकारस्य च नकारः क्रियते // 47 // धुटो धुटि स्वे वा // 1 // 3 // 48 // व्यञ्जनात्परस्य धुटो धुटि स्वे परे लुग्वा स्यात् / प्रत्तं प्रत्त्तम् / शिण्ढि शिण्ड्डि / पिण्डि / पिण्ड्डि / धुट इति किम् ? शार्ङ्गम् / स्व इति किम् ? दर्ता / ता / व्यञ्जनादिति किम् ? बोद्धा // 48 // ___ अ० प्रः पूर्वं 'डुदांग्क् दाने' प्रदातुमारब्धं प्रत्तम् / ‘आरंभे' (5 / 1 / 10) इति सूत्रेण क्तः / 'प्राद्दागस्त्त आरंभे क्ते' (4 / 4 / 7) इति दास्थाने त्त् इति तकारद्वय आदेशः / अत्र त्रयस्तकाराः / धुटो धुटीत्यनेन मध्यमस्य तकारस्य वा लोपः / ततः प्रत्तं प्रत्त्तम् इति रूपद्वयम् / पिण्ढि / शिण्ढि / 'पिष्लंप संचूर्णने' पिष् / 'शिष्टुप् विशेषणे' शिष् / पञ्चमीहि / 'रुधां स्वराच्छ्नो न लुक् च' (3 / 4 / 82) इति धातुविचाले श्रः / 'अप्रयोगीत्' (1 / 1 / 37) न / 'नास्त्योर्लुक्' (4 / 2 / 90) इति नकाराकारस्य लुक् न् / 'हु घुटो हेर्घिः' (4 / 2 / 83) तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) इत्यनेन षस्य ड्। 'तवर्गस्य:' (1 / 3 / 60) इत्यनेन धस्य ढः / “म्नां धुत्व 0' (1 / 3 / 39) इत्यनेन नस्य णत्वम् / 'धुटो धुटि स्वे वा' (1 / 3 / 48) इति डलोपे सति पिण्ढि षिण्ढि इति रूपं भवति // 48|| - तृतीयस्तृतीयचतुर्थे // 13 // 49 // - तृतीये चतुर्थे च परे धुटः स्थाने तृतीयः स्यात् / मज्जति / पिण्डि। शिण्ड्डि / दोग्द्धा / योद्धा / लब्धा। धुट इत्येव-वल्भते / ‘पदान्ते धुटस्तृतीयः' (2 / 1 / 76) इत्यपदान्तार्थं वचनम // 49 // ... अ० मज्जति 'टुमस्जोंत्' शुद्धौ' मस्ज् / तिव् शव् / 'तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) इति सूत्रेण सस्य द् 'लुवर्णतवर्ग.' इति न्यायोत् / ततः 'तवर्गस्य०' (1 / 3 / 60) इति दस्य ज् / पिण्डि षिण्ढि / पिष् शिष् धातुः / हि / 'रुधां स्वरा०' इति न / 'नास्त्योटुंग्' / (4 / 2 / 90) 'हु धुटो हेर्घिः' (4 / 2 / 83) 'तृतीयस्तृ०' इति षस्य ड् / 'तवर्गस्य० (1 / 3 / 60) इति धेः स्थाने ढिः / 'म्नां धुड०' (1 / 3 / 39) इति न इत्यस्य ण् / 'धुटो धुटि स्वे वा' (1 / 3 / 48) इति वा डस्य लोपः / यत्र डलोपो न क्रियते तत्र पिण्ड्डि शिण्ड्डि इति रूपम् लिपिविशेषेण पिण्डि / शिण्ढि इति रूपम् / दोग्धा 'दुहीक क्षरणे' दोग्धीति तृच् / 'भ्वादेदादेधः' इति हस्य धः 'अधश्चतुर्था०' / इति तस्य धः 'तृतीयस्तृ०' इति धस्य ग् / योद्धा 'युधिंच संप्रहारे' तृच् / 'अधश्चतुर्थात्तथोर्धः' (2 / 1 / 79) इति तस्य धः / अनेन धस्य द् / 'डुलभिंश् प्राप्तौ' लभ् / तृच् / 'अधश्चतुर्था०' इति तस्य धः / अनेन सूत्रेण भस्य ब् / लब्धा / / 49 / / ____अघोषे प्रथमोऽशिटः // 1 // 3 // 50 // शिटवर्जधुटः स्थानेऽघोषे परे प्रथमः स्यात् / वाक्पूता देवच्छत्रं लप्स्यते // 50 // विरामे वा // 1 // 3 // 51 // विरामे वर्तमानस्याशिटो धुटः स्थाने प्रथमो वा स्यात् / वाक् वाग् / षट् षड् / तत् तद् / ककुप् ककुन् / धुट इत्येव-भवान् // 51 // न सन्धिः // 13 // 52 // . उक्तो वक्ष्यमाणश्च सन्धिविरामे न भवति / दधि अत्र / ते आहुः / 'तत् लुनाति / वृक्षस्य छाया। विरामादन्यत्र तु संहितायां सन्धिरेव सा च 'संहितैकपदे नित्या नित्या धातूपसर्गयोः / नित्या समासे वाक्ये