________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते 'सिजद्यतन्याम्' (3 / 4 / 53) 'व्यञ्जनानामनिटि' (4 / 3 / 45) इति वृद्धिः' / आ / वाह् / 'धुहस्वाल्लुगनिटस्तथोः' (4 / 3 / 70) इति सिचो लुक् / 'हो धुट्०' 'अधश्चतुर्था०' 'तवर्गस्य०' ततो मूलसूत्रेण ओत्वं ढलोपश्च / अत्र ओत्वे कृते पुनर्वृद्धि प्राप्नोति / परं 'समानानां वृद्धिः' इति करणान्न भवति इति 'व्यञ्जनानामनिटि' (4 / 3 / 45) इति सूत्रे उक्तमस्ति // 43 // उदः स्थास्तम्भः सः // 1 // 3 // 44 // उदः परयोः स्थास्तम्भोः सकारस्य लुक् / उत्थाता / उत्तम्भिता // 44 // अ० उत्तिष्ठतीति / उत्तम्भतीति // 44 // तदः सेः स्वरे पादार्था // 1 // 3 // 45 // तदः परस्य सेः स्वरे परे लुग्भवति / सा (सिः) चेत्पादार्था पादपूरणी स्यात् / सैष दाशरथी रामः / पादार्थेति किम् ? स एष भरतो राजा // 45 // अ० पादाय इयं पादार्था / पादोऽर्थो यस्याः सा पादार्था इति वा समासः कार्यः / 'आत्' (2 / 1 / 18) इति आप् / दशरथस्यापत्यं दाशरथिः ‘अत इञ्' (6 / 1 / 31) जो वृद्धयर्थः / सिः / ‘सो रुः' (2 / 1 / 72) / ‘रो रे लुग्०' (1 / 3 / 41) इति // 45 // __एतदश्च व्यञ्जनेऽनग्नञ् समासे // 1 // 3 // 46 // एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुग्भवति / अकि नञसमासे च.सति न स्यात् / एष ['तः सौ सः' (2 / 1 / 42)] ददाति / स दत्ते / परमैष करोति / परम स करोति / एतदश्चेति किम् ? को दाता / यो धन्यः। अनग्नसमास इति किम् ? एषकः करोति / सको याति / तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति साकोऽपि प्राप्तिरिति प्रतिषेधः // अनेषो याति / असो याति // 46 // अ० नञा समासो नसमासः / अक् च नञ् समासश्च० / न अक्नसमासोऽनग्नसमासः / तस्मिन् 'अन् स्वरे' (3 / 2 / 129) / 'डुदांग्क् दाने' दा / वर्तमानाति / 'हवः शिति' (4 / 1 / 12) इति दाद्विवचनम् / 'ह्रस्वः' (4 / 1 / 39) / 'नश्चातः' (4 / 2 / 96) इति धातु आकार लोपः दत्ते / परमश्वासावेषश्च परमैषः / परमश्चासौ सश्च परमसः / धन्यः-धनं लब्धा 'धनगणाल्लब्धरि' (7 / 1 / 9) इति यः / एषकः सकः / अत्र 'त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक्' (7 / 3 / 29) अनेन अक्प्रत्ययः कार्यः / अनेष इति न एषः अनेषः ‘अन् स्वरे' (3 / 2 / 129) / न सः असः / 'नञत्' (3 / 2 / 125) // 46 / / व्यञ्जनात्पश्चमान्तस्थायाः सरूपे वा // 1 // 3 // 47 // व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग्वा स्यात् / हुँचो ड्डौ क्रुङौ / क्रुड्डौ / व्यञ्जनादिति किम् ? अन्नम् / भिन्नम् / स्वरूपे इति किम् ? वर्ण्यते // 47 // ___ अ० अन्नमिति / 'अन् श्वसक् प्राणने' अन् / अनिति जीवति जीवलोकोऽनेनेत्यन्नम् / ‘प्याधापन्यंनिस्वदिजपिवस्यज्यऽतिसिविभ्यो नः' (258) इत्युणादिना नप्रत्ययः / अथवा 'अदोऽनन्नात्' (5 / 1 / 150) इति ज्ञापकात् अद्यते भक्ष्यते तदित्यनम् निपातनं क्रियते / 'ज्ञानेच्छार्चार्थजीच्छील्यादिभ्यः क्तः' (5 / 2 / 92) / भिन्नं 'भिदूंपी विदारणे भिद् / भिद्यते इति भिन्नं 'क्लीबे क्तः' (5 / 3 / 123) इति क्तः / 'रदादमूर्च्छमदः क्तयोर्दस्य च