________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः तन्निषिध्यते इति परमार्थः / दश इत्यत्र 'तवर्गस्य०' (1 / 3 / 60) इत्यनेन सूत्रेण अत्वं प्राप्नोति / परमनेनानुस्वार एव / शिड्हे इंति ब्यावृत्तिः / अन्वित्येवेति पिष् / शिष् / हि / धातुविचाले न / 'अप्रयोगीत्' न / 'नास्त्योर्लुक्' (4 / 2 / 90) अलोपः न् / 'हुधुटो हेर्धिः' (4 / 2 / 83) 'तृतीय०' (1 / 3 / 49) इति षस्य ङ् / 'तवर्गस्य०' (1 / 3 / 60) इति धस्य ढः / 'म्नां धुड०' (1 / 3 / 39) इति नस्य णः / शिडभावात् श्न इत्यस्य नस्यानुस्वारो न स्यात् / पिण्ड्डि षिण्ड्डि इति रूपं सिद्धम् / विस्तरसाधनिका अग्रेतनपत्रे (35 पृष्ठे) लिखितास्ति / / 40 // रो रे लुग्दीर्धश्वादिदतः // 1 // 3 // 41 // अपदान्त इति नानुवर्त्तते / रेफस्य रेफे परेऽनु लुक् स्यात् / अकार-इकार-उकाराणां चानन्तराणां दीर्धः स्यात् / पुना रमते / अग्नी रथेन / पटू राजा / अन्वित्येव-अहो रूपम् / अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्दीर्घाभावः सिद्धः // 41 // ____ अ० अच्च इच्च उच्च / अदिदुत् / तस्य / भिन्नस्थानिभिन्ननिमित्तं भणन् अपदान्त इति निवृत्तम् / प्रशस्तं अहः / अहो रूपम् ‘त्यादेश्च प्रशस्ते रूपप्' (7 / 3 / 10) 'अह्नः' (2 / 1 / 74) इति सूत्रेण नस्य रुः / 'घोषवति' (1 / 3 / 21) रस्य उकारः // 41 / / ___ ढस्तड्डे // 1 // 3 // 42 // तनिमित्तौ ढस्तड्डः / ढकारस्य तड्डे परेऽनु लुक् स्यात् / अइऊनां च दीर्घो भवति / माढिः / लीढम् / गूढम् / तड्ड इति किम् ? मधुलिड् ढौकते / नायं लुप्यमानढकारनिमित्तो ढः / अन्वित्येव लेढा / मोढा। अत्र गुणे कृते पश्चाङ्कलोपः, अन्यथा हि पूर्वमेव ढलोपे दीर्घत्वे च लीढा मूढेत्यनिष्ठं रूपं स्यात् // 42 // अ० तद् ढः / तनिमित्तौ ढस्तड्डः इति वाक्यम् / तस्मिन् / अत्र 'तवर्गस्य०' (1 / 3 / 60) इत्यनेन दस्य डत्वम् / तड इति कोऽर्थः ? अत्र प्रकृतिढकारमाश्रित्य प्रत्ययादिवर्णस्य यो ढकार उत्पद्यते स तड्ड उच्यते / तादृशे ढकारे परे प्रकृतिढकारस्य लोपः क्रियते इति भावः / माढिः 'अर्ह मह पूजायाम्' महनं माढिः 'स्त्रियां क्तिः' (5 / 3 / 91) 'हो धुट्पदान्ते' (2 / 1 / 82) इति हस्य ढः / 'अधश्चतुर्थात्तथोर्धः' (2 / 179) इति क्तेस्तस्य धः / 'तवर्गस्य०' (1 / 3 / 60) इति धस्य ढः / ततः सूत्रेण अस्य दीर्घः / आ / ढलोपश्च माढिः / एवं लीढं गूढं 'लिहीक् आस्वादने' 'गुहौग् संवरणे' / लेहनं लीढम् गूहनं गूढम् / ‘क्लीबे क्तः' (5 / 3 / 123) इति सूत्रेण क्तः / शेषं पूर्ववत् / लीढं गूढम् / लिह् / मधुं लेढीति मधुलिट् / 'विप्' (5 / 1 / 148) सिः / 'हो धुट्पदान्ते' (2 / 1982) हस्य ढः / 'अदीर्घाद्विरा०' (1 / 3 / 32) इति ढस्य द्वित्वम् / अग्रे ढौकते 'धुटो धुटि स्वे वा' (1 / 3 / 48) एकः मध्यमो ढकारो लुप्यते / ततः 'धुटस्तृतीयः' (2 / 176) ढस्य ड् // 42 // सहिवहेरोच्चावर्णस्य // 13 // 43 // सहिवह्योर्दस्य तड्डे परेऽनु लुक् स्यात् / अवर्णस्य चौकारो [ओ] भवति / सोढा / वोढा उदवोढाम् / अवर्णस्येति किम् ? ऊढः // 43 // अ० 'षहि मर्षणे' षह् / 'षः सोऽष्टयै०' (2 / 3 / 98) इति सह / 'वहीं प्रापणे' वह् / सहते इति सोढा / वहतीति वोढा / तृच् / 'हो धुट्पदान्ते' (2 / 1 / 82) हस्य ढः / 'अधश्चतुर्था०' (2 / 179) इति तस्य धः / 'तवर्गस्य.' (1 / 3 / 60) इति धस्य ढः / ततः सूत्रं प्रवर्त्तते / उदवोढामिति-वह् / उत्पूर्वम् / अद्यतनीताम् /