________________ 32 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते शिशुमारी / पुत्त्रपुत्त्रादिनी / पुत्रपुत्रादिनी नागी // 38 // ___ अ० आदिन् च पुत्रादिन् च / आदिनपुत्रादिन् / तस्मिन् / पुत्र ‘अदं प्सांक् भक्षणे' अद् / अभीक्ष्णं पुनः पुनः पुत्रं पुत्रपुत्रं अत्तीति 'व्रताभीक्ष्ण्ये' (5 / 1 / 157) इति सूत्रेण णिन् / 'णिति' वृद्धिः / 'स्त्रियां नृतोऽस्वस्रादेर्डीः' इति ङीः / सिः / पुत्रादिनी / पुत्रपुत्रादिनी / असि / 'असिक् भुवि' वर्त्तमानासिव् / 'अस्तेः सिहस्त्वेति' (4 / 3 / 73) धातुसकारस्य लुक् / पापे / 'आमन्त्र्ये' (2 / 2 / 32) सिः / 'एदापः' (1 / 4 / 42) इति सिना सह पापा इत्यस्य ए पापे / पुत्त्रादिनी पुत्त्रपुत्त्रादिनी / पुत्रं पुत्रपुत्रं वात्तीतीत्येवंशीला 'अजातेः शीले' (5 / 1 / 154) इत्यनेन णिन् / पुत्त्रादिनीत्यादि सिद्धम् / अत्र पुत्त्रपुत्त्रादिनीत्यत्र च 'अदीर्घाद्विरामै०' (1 / 3 / 32) इति द्वित्म् / तथा शिशुं पुत्रं मारयतीति शिशुमारी / 'कर्मणोऽण्' (5 / 1 / 72) अण् / 'गौरादिभ्यो मुख्यान्डी:' (2 / 4 / 19) इति ङीः / शिशुमारी मत्सीविशेष उच्यते / नगे भवा नागी ‘भवे' (6 / 3 / 123) इति अण् ‘ञ्णिति' (4 / 3 / 50) इति वृद्धिः 'जातेरयान्तनित्यः' (2 / 4 / 54) इति ङीः / पुत्त्रादिनीत्यादिषु 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (2 / 4 / 1) // 38 // म्नां धुड्वर्गेऽन्त्योऽपदान्ते // 13 // 39 // ___ अन्विति वर्त्तते / अपदान्तस्थानां मकारनकाराणाम् धुड्वर्गे परे निमित्तवर्गस्यैवान्त्योऽनु स्यात् / म्। गन्ता। न् / शङ्किता / अञ्चिता नन्दिता / कम्पिता / म्नामिति बहुवचनं वर्णान्तरबाधनार्थम् / तेन कुर्वन्ति कृषन्तीत्यत्र नकारस्य णत्वं बाधित्वाऽनेन [सूत्रेण] वर्गान्त्य एव भवति / क्रान्त्वा भ्रान्त्वेत्यत्राप्यनेन [सूत्रेण] नकारे कृते णत्वबाधनार्थं पुनर्नकारः / अन्वित्यधिकारात् व्यक्ताअत्रांजेर्गत्वे कत्वे च कृते पश्चात्कवर्गान्त्यः। अन्यथा चवर्गान्त्यः स्यात् // 39 // अ० म् च न् च / म्न् / तेषाम् / धुट् चासौ वर्गश्च / तस्मिन् / अन्ते भवोऽन्त्यः / 'दिगादिदेहांशाद्यः' (6 / 3 / 124) इति यः / गन्ता / गम् / गच्छतीति गन्ता / तृच् / शङ्किता-'रेकृशकुङ् शङ्कायाम्' नन्दिता'टुनदु स्मृद्धौ' / कम्पिता / 'कपुङ् चलने' / सर्वेषाम् ‘उदितः स्वरानोन्तः' (4 / 4 / 98) इत्यनेन न् / शन्क् / नन्द् / कम्प् / शङ्कते इति नन्दतीति कम्पते इति तृच् / 'स्ताद्यशितोऽत्रोणादेः' (4 / 4 / 32) इट् / / क्रान्त्वा इत्यत्र क्रमः क्त्वा / दीर्घः / भ्रान्त्वा / अत्र 'अहन् पञ्चमस्य०' (4 / 1 / 107) दीर्घः / / विनतीति ‘णकतृचौ' (5 / 1 / 48) व्यक्ता // 39 // शिड्हेऽनुस्वारः // 1 // 3 // 40 // अपदान्तस्थानां मकारनकाराणां शिटि हे च परेऽनुस्वारादेशोऽनु स्यात् / पुंसि / वपूंषि / धनूंषि / यशांसि / म्नामिति बहुवचनाद् बृंहणमित्यत्र णत्वम् / दंश इत्यत्र च अत्वं बाधित्वाऽनेनानुस्वार एव / शिड्ह इति किम् ? गम्यते / हन्यते / पिण्डि / षिण्ड्डि / अपदान्त इत्येव-भवान्साधुः॥४०॥ ___ अ० शिट् च हश्च / तस्मिन् / 'धुटस्तृतीयः' (2 / 1 / 76) इति टस्य डत्वम् / वपूंषि / धनूंषि / जस् / 'नमुंसकस्य शिः' (1 / 4 / 55) 'स्वराच्छौ' (1 / 4 / 65) न् / अनेन नस्यानुस्वारः / 'नाम्यन्तस्था०' (2 / 3 / 15) इति सस्य षः / षोऽसन् / षकारस्यासत्त्वात् 'न्स्महतोः' (1 / 4 / 86) इति दीर्घः / तृह दृह बृहु वृद्धौ / 'उदितः स्वरा०' (4 / 4 / 98) न् / बृह्यते / बृंहणम् / अनट् / बृंहणम् अत्र कृतनोऽन्तस्य ‘रघुवर्ण० (2 / 3 / 63) इति णत्वं प्राप्नोति