________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः ____ अ० वा शकटम् / ‘वा करणे' (5 / 1 / 34) इति सूत्रेण यप्रत्ययः / 'तनूयी विस्तारे' तन् / तनोतीति 'तनेर्ड उ:' (748) स च सन्वद्भवति / द्विवचनम् / अभ्यासे च ‘सन्यस्य' (4 / 1159) इति सूत्रेण [अस्य] इत्वम् / वाक् इत्यादिषु द्वित्व इत्यादेशबलात्संयोगान्तलोपो न भवति / प्रथमादिकं तु द्वित्वस्याबाधनाद्भवत्येव इति भावः // 32 // अञ्वर्गस्यान्तस्थातः // 1 // 3 // 33 // अन्तस्थातः परस्य ञकारवर्जवर्गस्य स्थानेऽनु द्वे रूपे वा स्याताम् / उल्का / उल्का / अनिति किम् ? हल्लकारौ // 33 // अ० न ञ् ('नञत्' (3 / 2 / 125) अञ् / अञ् चासौ वर्गश्च अञ्वर्गः / तस्य // 33 / / ततोऽस्याः // 1 // 3 // 34 // ततोऽञ्वर्गात्परस्या अस्या अन्तस्थायाः स्थाने द्वे रूपे वा स्याताम् / दध्य्यत्र / दध्यत्र // 34 // अ० अस्याः / इदम् / षष्ठीडस् / 'आद्वेरः' (2 / 1 / 41) इति मस्य अः / 'आत्' (2 / 4 / 18) इति आप् / 'आपो डितां ये यास् यास् याम्' (1 / 4 / 17) डस्स्थाने यास् / 'अनक्' (2 / 1 / 36) इति सूत्रेण इदम्स्थाने अकारः / ततः 'सर्वादेर्डस्पूर्वाः' (1 / 4 / 18) इत्यनेन यासः पूर्वं डस् इति क्रियते / डोऽत्र 'डित्यन्त्यस्वरादेः' (2 / 1 / 114) इत्यन्त्यस्वरादिलोपः // 34 // शिटः प्रथमद्वितीयस्य // 13 // 35 // शिटः परयोः प्रथमद्वितीययोः स्थाने द्वे रूपे वा स्याताम् / त्वं करोषि / त्वं करोषि / त्वं क्खनसि। त्वं खनसि / कः क्खनति / कः खनति / कः प्पचति / कः पचति / क) (नति / क) (नति / क फलति। कर फलति / कश्चरति / कश्वरति / कच्छादयति / कश्छादयति / कष्टीकते / कष्टीकते / कष्टकारः कष्ठकार इत्यादि // 35 // __अ० अं अः) (क ख शषसाः शिट् (1 / 1 / 16) इति शिट्सप्तकस्यापि क्रमेणोदाहरणानि दर्शयति / / 35|| . .. ततः शिटः // 1 // 3 // 36 // * ततः प्रथमद्वितीयाभ्यां परस्य शिटः स्थाने द्वे रूपे वा स्याताम् / तच्शेते / तच्ोते / षट्पण्डे / षट्क्षण्डे / तत्स्साधुः / तत्साधुः / वत्स्सः / वत्सः / क्षीरम् / क्षीरम् / तत इति किम् ? भवान् साधुः॥३६॥ अ० तच्ोते / तद् सिः / ‘अनतो लुप्' (1 / 4 / 59) 'अघोषे प्रथमोऽशिटः' (1 / 3 / 50) इति दस्य त् / 'तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवर्गों' (1 / 3 / 60) इति तस्य च // 36 / / न रात्स्वरे // 1 // 3 // 37 // ___रकारात्परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् / दर्शनम् / वर्षति / शिट इत्येव-अर्कः। हादर्हेति विकल्पे प्राप्ते प्रतिषेधः // 37 // __पुत्रस्यादिनपुत्रादिन्याक्रोशे // 1 // 3 // 38 // * आदिन् पुत्रादिन् शब्दे परे पुत्रसम्बन्धितकारस्याक्रोशविषये द्वे रूपे न भवतः / अदीर्घाद्विरामेति प्राप्ते प्रतिषेधः / पुत्रादिनी त्वमसि हि] पापे / पुत्रपुत्रादिनी भव / आक्रोश इति किम् ? पुत्त्रादिनी / पुत्रादिनी