________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते अकारलोपः / हौ 'हुधुटो हेधिः' इति (4 / 2 / 83) हेः स्थाने धिः / छिन्द्धि / भिन्द्धि / चादिषु मामाङौ पठितौ स्तः / अत्र माछिद्धि इति अङित् मा / अतो न प्रतिषेधः / नन्वनयोर्द्वयोरपि मामाङोर्निषेधार्थत्वान्न कोऽपि विशेष इति / न / महान् विशेषोऽस्ति / यत्र माङ् तत्र ‘माङद्यतनी' (5 / 4 / 39) इत्यद्यतनी भवति / यत्र च मा तत्र छत्वादिविधिः / पत्रो मा० / अस्मद द्वितीयाअम् / 'अमा त्वा मा' (2024) इतिविभक्त्या सह अस्मदो मा आदेशः / / प्रमा चासौ छन्दश्च प्रमाच्छन्दः / / प्रमाच्छात्रः ‘मांङ् मानशब्दयोः' मा / जुहोत्यादि / प्रमिमीते वित् / प्रमा चासौ छात्रश्च प्रमाच्छन्दः / प्रमाच्छात्रः ‘मांङ् मान-शब्दयोः' मा / जुहोत्यादि / प्रमिमीते विच् / प्रमा चासौ छात्रश्च प्रमाच्छात्रः / अत्र हि मा धातुः नत्वव्ययः / / 28 / / .. प्लुताद्वा // 1 // 3 // 29 // पदान्तस्थाहीर्घात्प्लुतात्परस्य छस्य द्वे रूपे वा स्याताम् / आगच्छभोइन्द्रभूते 3 च्छत्रमानय / छत्रमानय // 29 // स्वरेभ्यः // 13 // 30 // बहुवचनं व्याप्त्यर्थम्, तेन पदान्त इति निवृत्तम् / स्वरात्परस्य छस्य पदान्तेऽपदान्ते च द्वे रूपे स्याताम् / इच्छति / गच्छति / वृक्षच्छाया // 30 // दिर्हस्वरस्यानु नवा // 1 // 3 // 31 // स्वरात्परौ यो रेफहकारौ ताभ्यां परस्याऽर्हस्वरस्यरेफहकारस्वरवर्जितस्य वर्णस्य स्थाने द्वे रूपे वा स्याताम् / अनु-यदन्यत्कार्य प्राप्नोति तस्मिन्कृते पश्चादित्यर्थः / अर्कः / अर्कः / मूर्खः / मूर्खः / अग्र्धः। अर्धः / ब्रम्म ब्रह्म / जिम्मः जिह्मः / अर्हस्वरस्येति किम् ? पद्महदः / अहः / करः / स्वरेभ्य इत्येव-अभ्यते / हुते / अन्विति किम् ? प्रोण्णुनाव / अत्र द्विवंचने कृते द्वित्वं यथा स्यात् // 31 // ___ अ० र् च हश्च / है / तस्मात् / हा॑त् / र्च हश्च स्वरश्च / ईस्वरः / न विद्यन्ते र्हस्वरा यत्र वर्णे सोऽर्हस्वरः। तस्य / 'ऊर्युग्क् आच्छादने' ऊर्गु / प्रपूर्वम् / परोक्षा णव् / ऊर् नु इति कृत्वा पश्चात् ‘स्वरादेर्द्वितीय' (4 / 1 / 4) इत्यनेन नु इत्यस्य नु इत्यस्य द्विवचनम् / नु नु / प्रथमनु इत्यस्य णत्वे कृते दिर्हेत्यनेन णस्य द्वित्वम् / र्ण। . 'नामिनोऽकलिहले०' (4 / 3 / 51) इति वृद्धिः // 31 // ___ अदीर्घाद्विरामैकव्यञ्जने // 13 // 32 // अदीर्घात्स्वरात्परस्य रेफहकारस्वरवर्जितस्य वर्णस्य स्थाने विरामैकव्यञ्जने विरामेऽसंयुक्तव्यञ्जने च परेऽनु द्वे रूपे वा स्याताम् / त्वक् / त्वक् / त्वग्ग् / त्वम् / षट् / षट् / तत्त् / तत् / तद् / तद् / एकव्यञ्जने -दद्धयत्र दध्यत्र / मद्ध्वत्र / मध्वत्र / गो 3 त्त्रात / गो 3 त्रात / अन्वित्यधिकारात् कत्वगत्वादिषु कृतेषु पश्चाव्दित्वम् / अदीर्घादिति किम् ? वाक् / विरामैकव्यञ्जन इति किम् ? चन्द्रः / इन्द्रः / अर्हस्वरस्येत्येव -वर्या / वह्यम् / तितउः / अत एवादेशबला संयोगान्तलोपो न स्यात् // 32 // ___ अ० विरामश्च एकव्यञ्जनं च विरामैकव्यञ्जनम् / तस्मिन् / त्वक् इत्यादिषु 'विरामे वा' (1 / 3 / 51) इत्यनेन सर्वत्र प्रथमः / दद्धयत्रात्रेति 'तृतीयस्तृतीय०' (1 / 3 / 49) इति एक धस्य दत्वम् / ‘वृश संभक्तौ' वृ / वियतेति वर्या 'वर्योपसर्यावद्यपण्यमुपेयर्तुमतीगर्यविक्रेये' (5 / 1 / 32) अनेन यः प्रत्ययः / तथा 'वहीं प्रापणे' / वहति तेनेति