________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः स्ते / देवायासते / भो यत्र / भगो यत्र / अघो यत्र // 26 // अ० 'आसिक् उपवेशने' / आस् / वर्तमानाआत्मनेपदअन्ते / ‘अनतोऽन्तोऽदात्मने' (4 / 2 / 114) इति अन्तेर्नकारस्य लोपः / / 26 / / ह्रस्वाद् ङणनो द्वे // 1 // 3 // 27 // ह्रस्वात्परेषां पदान्ते वर्तमानानां ङ ण न इत्येतेषां स्थाने स्वरे परे द्वे रूपे भवतः / वास्ते / सुगण्णिह / कुर्वनास्ते / ह्रस्वादिति किम् ? प्राङास्ते बाणास्ते / भवानास्ते / उणादय इत्यादौ स्वरूपनिर्देशात्, अनज इत्यादौ ['अन् स्वरे' (3 / 2 / 129) अनेन] त्वन्विधानबलान भवति // 27 // - अ० डश्च णश्च नश्च ङणनम् / तस्य / द्वे / द्वि / प्रथमाद्विवचनं औ / नपुंसकलिङ्गे ‘औरीः' (1 / 4 / 56) अनेन औ स्थाने ई / 'आद्वेरः' (2 / 1 / 41) इत्यनेनान्तस्य अकारः / 'अवर्णस्ये०' (1 / 2 / 6) इति एत्वम् / क्रुश्चतीति क्रुङ् विप् / सिः / ‘पदस्य' (2 / 1 / 89) इति चलुक् / 'युजञ्चक्रुश्चो नो ङः' (2 / 1 / 71) इति नस्य ङत्वम् क्रुङ् / 'डुकंग करणे' कृ / करोतीति कुर्वन् / 'शत्रानशावेष्यति तु सस्यौ' (5 / 2 / 20) इत्यनेन शतृ / 'अप्रयोगीत्' (1 / 1 / 37) अत् इति तिष्ठति / 'कृग्तनादेरुः' (3 / 4 / 83) उः 'नामिनो गुणो०' (4 / 3 / 1) इत्यनेन गुणः करु / 'अतः शित्युत्' (4 / 2 / 89) अनेन अकारस्य उ / कुरु / ‘इवर्णादे०' (1 / 2 / 21) उकारस्य व् / प्रथमासिः / 'ऋदुदितः' (1 / 4 / 70) इति नोऽन्तः / 'दीर्घङयाब्०' (1 / 4 / 45) इति सेर्लुक् / ‘पदस्य' (2 / 1 / 89) इति त्लुक् कुर्वन् इति सिद्धम् / प्राङ् इति प्राग्वत् ज्ञेयम् / अण् रणेति दण्डकधातुः / बण् / बणतीति ‘क्किप्' (5 / 1 / 148) अहन्पञ्चमेति. दीर्घः / बाण् इति सिद्धम् // 27|| अनाङ्माङो दीर्घाद्वा छः // 1 // 3 // 28 // ___ आङ्मावर्जितपदसम्बन्धिनो दीर्घात्पदान्तस्थात्परस्य छकारस्य द्वे रूपे भवता, वा / कन्या-च्छत्रम् कन्याछत्रम् / मुनेच्छाया मुनेछाया / गोच्छाया गोछाया। आच्छायां मन्यसे / आछायां मन्यसे / आच्छाया माभूत् आछाया माभूत् / वाक्यस्मरणयोरयमाकार (अङित्) इति / अनाङ् माङिति किम् ? आच्छाया। माच्छिदत् / 'स्वरेभ्यः' (1 / 3 / 30) इति नित्यमेव / अङित्करणादेष्वपि वक्ष्यमाणेषु विकल्प एव / आच्छायां मन्यसे / आछायां मन्यसे / आच्छाया माभूत् / आछाया माभूत् / वाक्यस्मरणयोरयमाकारः / माच्छिंद्धि। माछिन्धि / पुत्रो माच्छिनत्ति पुत्रो माछिनत्ति। प्रमाच्छन्दः प्रमाछन्दः / आङ्साहचर्येणाव्ययस्य माङो ग्रहणादिहापि विकल्प एव / प्रमिमीते विच प्रमा / प्रमाच्छात्रः प्रमाछात्रः // 28 // अ० कन्यायाश्छन / कन्याच्छत्रमित्यादि / सर्वत्र छस्य द्वित्वे कृते / 'अघोषे प्रथमोऽशिटः' (1 / 3 / 50) इत्यनेन एकछस्य चकारः / भू माङ्पूर्वम् / अद्यतनीदि / 'सिजद्यतन्याम्' (3 / 4 / 53) 'पिबैतिदाभूस्थ०' (4 / 3 / 66) इति सिचो लुक् / आ ईषत् छाया आच्छाया / अत्र ईषर्थे आशब्दः / माच्छिदत् / 'छिद्रूपी द्वैधीकरणे' छिद् मापूर्वम् ‘माङद्यतनी' (5 / 4 / 39) इतिवचनाद्वर्त्तमानेऽप्यद्यतनीदि / 'ऋदिच्चिस्तंभूम्रचूम्लुचूग्लुचूग्लुञ्चूज्रो वा' (3 / 4 / 65) इति अङ् / अत्र मूलसूत्रेण निषेधः परं उत्तरसूत्रं 'स्वरेभ्यः' (1 / 3 / 30) इति प्रवर्त्तते / तेन छस्य द्वे रूपे / छिन्धि 'छिद्रूपी द्वैधीकरणे' छिद् / 'भिद्रूपी विदारणे' भिद् / पञ्चमीहि / 'रूधां स्वराच्छ्नो न लुक् च' (3 / 4 / 82) छिद् विचाले श्न / 'अप्रयोगीत्' (1 / 1 / 37) न / एवं भिद् / 'इनास्त्योर्लुक्' (4 / 2 / 90) नस्य