________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते ___अवर्णात्परयोः पदान्ते वर्तमानयोॉर्वकारयकारयोर्घोषवति परे लुक् स्यात् / वृक्षं वृश्चति किम् / वृक्षवृश्चमाचष्टे इति णावन्त्यस्वरादिलोपे वृक्षवयतीति विचि सिद्धं वृक्ष / एवं अव्यय / वृक्षयाति / अव्ययाति // 23 // ___ अ० व् च य च ब्यौ / तयोः / 'ओव्रस्चौत् च्छेदने' व्रस्च / वृश्च्यते छिद्यते कुठारादिभिः गृहार्थमिति वृक्षः / प्रथमं 'सस्य शषौ' (113 / 61) इति श् / पश्चाद्वाक्यम्। 'ऋजिरिषि०' (567) कित्सः प्रत्ययः / 'ग्रहव्रश्चभ्रस्जप्रच्छः' (4 / 1 / 84) इति य्वृत् / 'संयोगस्यादौ स्कोर्लुक्' (2 / 1 / 88) इति शकारलुक् / 'यजसृजमृजराज०' (2 / 1187) इति चकारस्य षकारः / 'षढोः कस्सि' (2 / 1 / 62) इत्यनेन षकारस्य ककारः / 'नाम्यन्तस्था कवर्गात्०' (2 / 3 / 15) इत्यनेन सकारस्य षकारः / 'लोकात्' (1 / 1 / 3) परगमनम् / वृक्ष इति सिद्धम् / वृक्ष पूर्वक 'ओव्रस्चौत् च्छेदने' व्रस्च / 'सत्य शषौ' (1 / 3 / 61) सस्य श् / वृक्षं वृश्चति 'विप्' (5 / 1 / 148) 'ग्रहश्चभ्रस्जप्रच्छः' (4 / 1 / 84) इति य्वृत् / वृक्षवृश्चमाचष्टे इति वाक्ये ‘णिज्बहुलं नाम्नः कृगादिषु' (3 / 4 / 42) इति णिच् / 'त्र्यन्त्यस्वरादेः' (74 / 43) अनेनान्त्यस्वरमादौ कृत्वा सर्वव्यञ्जनलोपः कार्यः / ततो वृक्षव् इति रूपं जायते (7 / 4 / 43) अनेनान्त्यस्वरमादौ कृत्वा सर्वव्यञ्जनलोपः कार्यः / ततो वृक्षव् इति रूपं जायते / अव्ययमाचष्टे इति वाक्ये 'णिज्बहुलं.' (3 / 4 / 42) णिच् / 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) अन्त्यस्वरादिलोपः / अव्ययतीति ‘किप्' (5 / 1 / 148) णिलोपे अव्यय् इति शब्दः / / 23 / / स्वरे वा // 1 // 3 // 24 // अवर्ण भो भगो अघोभ्यः परयोः पदान्तस्थयोर्वकारयकारयोः स्वरे परे लुग्वा स्यात् / स चासन्धिः। पट इह पट विह / वृक्षा इह वृक्षाविह / त आहुः तयाहुः / तस्मा इदम् तस्मायिदम् / क आस्ते कयास्ते। देवा आहुः देवायाहुः ['रोर्यः' / यः] भो अत्र भो यत्र / भगो अत्र भगो यत्र / अघो अत्र अघो अत्र // 24 // ___अ० पटु आमन्त्र्यसिः / 'हस्वस्य गुणः' / (1 / 4 / 41) 'ओदौतोऽवाव्' (1 / 2 / 24) पटव् / वृक्षौ / इह 'ओदौतो.' (1 / 2 / 24) वृक्षाव् / आहुः-‘ब्रूग्क् व्यक्तायां वाचि' / वर्तमानान्ति ! 'ब्रूगः पञ्चानां पञ्चाहश्च' (4 / 2 / 118) अनेन अन्तिस्थाने उस् / ब्रूगः स्थाने आह् / आहुरिति सिद्धम् / ते आहुः ‘एदैतोऽयाय्' / तय् / किम् / सिः / 'किमः कस्तसादौ च' (2 / 1 / 40) 'सो रुः' इति. कर् / आस्ते / ‘रोर्यः' (1 / 3 / 26) इति रस्य यत्वम् / कय् // 24 // अस्पष्टाववर्णात्त्वनुनि वा // 1 // 3 // 25 // अवर्ण भो भगोऽयोभ्यः परयोः पदान्तस्थयोर्वकारयकारयोः स्थानेऽस्पष्टावीषत्स्पृष्टतरौ वकारयकारावेव स्वरे परे स्याताम् / अवर्णात्परयोस्तु ब्योरुञ्वर्जिते स्वरे परेऽस्पष्टौ वा भवतः / पटb / असावें / कयु / देवायें / भोयत्रं / भोयँ / भगोयेंत्र / अघोपॅत्र / अवर्णात्त्वनुञि वा / पटविह। पटविंह / असाविन्दुः / असाविन्दुः / तयिह / तयिह / तस्मायिदम् / तस्मायिदम् // 25 // अ० असौ / अदस् / सिः। 'अदसो दः सेस्तु डौ' (2 / 1 / 43) इति अदसो दस्य सः / सेः स्थाने डौ आदेशः॥२५॥ - रोर्यः // 1 // 3 // 26 // अवर्ण भो भगो अघोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने स्वरे परे यकार आदेशः स्यात् / कया.