________________ 27 श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः -श्वसंयोगावयवः सो न भवति चेत् / षड्त्सीदन्ति, डकारनिर्देशाट्टत्वं न स्यात् / पक्षे षट् सीदन्ति / भवान्साधुः / भान्साधुः / अश्व इति किम् ? षट्भ्च्योतन्ति / भवाञ्च्योतति // 18 // . अ० डश्च नश्च ड्न / ततोऽस्वराङसिः / 'शिट्यघोषात्' (1 / 3 / 55) विसर्गः / विग्रहस्तु उच्चारणार्थं स्वरेण सह क्रियते यथा घृतमानयेत्युक्ते द्रवद्रव्यत्वात् केवलस्य दुरानेयत्वाच्च भाजने आनीयते / एवं पूर्वसूत्रेऽपि ज्ञेयम् / षष् / जस् / 'डतिष्णः सङ्ख्याया लुप्' (1 / 4/54) अनेन ज़स् लुप्यते / 'धुटस्तृतीयः' (2 / 1 / 76) इति षस्य डः / सीदन्ति 'श्रौतिकृवु०' (4 / 2 / 108) इत्यादिना / / सूत्रे ड्न इति करणात् टत्वं न भवतीत्यर्थः / स्च्युतेर्दन्त्यसकारोपदेशत्वात् तालव्यशकारस्यापि सकारापदिष्टं कार्य विज्ञायते / यथा मधुग् इत्यत्र तालव्यशस्य 'संयोगस्यादौ स्कोलुंग (2 / 1 / 88) इति लुक् सञ्जातः / तथा श्च्योततीत्यत्रापी // 18 / / ‘नः शिश्च // 13 // 19 // पदान्तस्थस्य नस्य शकारे परे ञ्च् इत्यादेशो वा स्यात् / अश्व-श्वसंयोगावयवश्चेत् शकारो न भवति / भवाञ्च्छूरः / भवाञ्शूरः / भवाञ्शूरः / अश्व इति किम् ? भवाञ्च्योतति / राजा शेते इत्यत्र तु परत्वानलोपः // 19 // ___अ० भवाञ्च्छूरः / भवाञ्च्शूरः / अत्रादौ 'प्रथमादधुटि शश्छः' (1 / 3 / 4) इति छः // द्वितीये 'तवर्गस्य श्चवर्ग०' (1 / 3 / 60) इत्यनेन नस्य ञ् / एवं कुर्वञ्च्छेते कुर्वञ् छेते कुर्वञ् शेते / वदञ्च्छीतलः वदञ्छीतलः वदशीतलः इत्यादयोऽपि ज्ञातव्याः / तथा भवाञ्च्छूरः भवाञ्छूरः इत्यादिषु आदेशबलात् चस्य कत्वं न भवति / व्याख्यानस्योपलक्षणत्वात् 'पदस्य' (2 / 1 / 89) इत्यनेन संयोगान्तलोपोऽपि न भवतीत्यर्थः / परत्वादिति 'नाम्नो नोऽनहः' (2 / 1 / 91) इत्यनेन नकारो लुप्यते / / 19 / / अतोऽति रोरुः // 13 // 20 // वेति निवृत्तिम् / अतोऽकारात्परस्य पदान्ते वर्तमानस्य रोः स्थानेऽति अकारे परे उरादेशः स्यात् / कोऽत्र / कोऽर्थः // 20 // . अ० ‘सो रुः' (2 / 1 / 72) इत्यनेन कृतस्य-सकारस्थाने रु इत्येतस्य // 20 // __ घोषवति // 1 // 3 // 21 // अतः परस्य पदान्तस्थस्य रोः स्थाने घोषवति परे उकारः स्यात् / धर्मो जयति / रोरित्येव स्वर्याति। उत्तरेण ['अवर्णभो०' इत्यनेन] लुकि प्राप्तेऽपवादोऽयम् // 21 // __ अवर्णभोभगोऽघोलुंगसन्धिः // 1 // 3 // 22 // .. अवर्णाद्भोभगोऽधोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात्, स च न सन्धिहेतुः। देवा यान्ति / भो यासि.। भगो हससि / अधो वद / अकारात्तु परस्य रोः स्थाने पूर्वेणाऽपवादत्वादुत्वमेव // 22 // __ अ० अवर्णश्च भोश्च भगोश्च अघोश्च / तस्मात् 'अव्ययस्य' (3 / 2 / 7) इति डसेर्लुक् / भोस् भगोस् / अघोस् इति त्रयोऽपि सकारान्ता अव्ययाः सम्बोधनेऽर्थे / अत्र सूत्रेऽवर्णेत्युक्ते आकार एव ग्राह्यः [अपवादत्वात् निरवकाशत्वात् / / 22 / / व्योः // 13 // 23 //