________________ 26 . कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते . इति त्वम् / अहम् / संयत इति 'यमू उपरमे' यम् / सम् पूर्व संयच्छत्यात्मानमिति संयतः / 'ज्ञानेच्छाचार्थजीच्छल्यादिभ्यः क्तः' (5 / 2 / 92) 'यमिरमिनमिगमिहनिमनिवनतितनादेधुटि क्डिति' (4 / 2 / 55) इत्यादिना मस्य लुक् / अहं विद्यतेऽस्य 'ऊर्णाहंशुभमो युस्' (7 / 2 / 17) / कम्-कं सुखं ज्ञानं वा जलं वाऽस्यास्तीति कंवः / 'कंशंभ्यां युस्तियस्ततवभम्' (7/2 / 18) इत्यनेन वः प्रत्ययः / स्वाविति किम् ? रंरम्यते इत्यादि-रेफोष्मणां त्वतुल्यस्थानास्यप्रयत्नत्वात्स्वा न भवन्तीति 'तुल्यस्थाना०' (1 / 1 / 17) इति सूत्रे उक्तम् / अतोऽत्रानुनासिकाभावः // 14 / / मनयवलपरे हे // 13 // 15 // मनयवलपरे हकारे परे पदान्ते वर्तमानस्य मस्य स्थानेऽनुस्वारानुनासिकौ स्वौ क्रमात्स्याताम् / किंल. लयति किम्ललयति / किं हुते किन्हुते / किं ह्यः कियहाँः / किंहलयति किन्हँलयति / मादि पर इति किम् ? किं हसति // 15 // अ० मश्च नश्च यश्च वश्च लश्च मनयवलाः / मनयवला वर्णाः परे यस्मात् हकारात् स मनयवलपरः / तस्मिन् / हकारस्य स्वौ नास्तीति हकारव्यवहितमकाराद्यपेक्षया स्वोऽनुनासिको भवन् मकारादिरूपेण भवतीत्यर्थः / इति वृत्तौ स्वावित्युक्तम् / ‘ह्वल हल चलने' हल हल / हलति झलति कश्चित्तमन्यः प्रयुङ्क्ते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) 'ञ्णिति' (4 / 3 / 50) वृद्धिः 'ज्वलहलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा' (4 / 2 / 32) इति ह्रस्वः // 15 // सम्राट् // 1 // 3 // 16 // समो मस्य राजौ किबन्तेऽनुस्वाराभावः स्यात् / सम्राट्-भरतः / सम्राजौ / साम्राज्यम् // 16 // अ० सम्राट् इत्यत्रैकवचनस्यातन्त्रत्वात् द्विवचनादावपि भवति / सम्पूर्वः 'राजृग् टुभ्राजि दीप्तौ' राज् / सम् सम्यग् राजते / राजतेः किम् / सम्राट् / अत्र 'यजसृजमृजराजभ्राजभ्रस्जव्रश्वपरिव्राजः शः षः' (2 / 1 / 87) इति षः 'धुटस्तृतीयः' (2 / 1 / 76) इति ड् 'विरामे वा' (1 / 3 / 51) द् / सम्राजो भावः कर्म वा साम्राज्यम् 'पतिराजान्त-गुणाङ्गराजादिभ्यः कर्मणि च' (7 / 160) अनेन ध्यण् // 16 / / णोः कटावन्तौ शिटि नवा // 1 // 3 // 17 // पदान्ते वर्तमानयोर्कणयोः शिटि परे यथासङ्ग्यं क् ट् इत्येतावन्तौ स्याताम्, वा / प्राइ शेते / प्राह छेते / प्राशेते / सुगण्टशेते / सुगण्छे ते / सुगणशेते // 17 // ___ अ० श्च णश्च णौ / तयोः / कश्च टश्च कटौ / / प्राङ्क शेते ‘अञ्चू गतौ च' / अञ्च् प्रपूर्वः / प्राश्चतीति प्राङ् 'क्विप्' (5 / 1 / 148) / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इत्यनेन नस्य लोपः / 'अप्रयोगीत्' (1 / 1 / 37) विप्लोपः। सिः / 'अचः' (1 / 4 / 69) इति सूत्रेण चकारात् प्राक् न् च क्रियते / 'दीर्घड्याब्०' (1 / 4 / 45) इति सिलुक् / 'पदस्य' (2 / 1 / 89) इति चलोपः / 'युजञ्चक्रुश्चो नो ङः' (2 / 1 / 71) इति सूत्रेण नकारस्य ङ इति कार्यः / प्राङ् इति सिद्धम् // शेते / अत्र ‘शीङ् स्वप्ने' शी / वर्तमानाते / ‘शीङ ए: शिति' (4 / 3 / 104) अनेन गुणः / ए / शेते / / 'गणण् सङ्ख्याने' गण् / 'चुरादिभ्यो णिच्' (3 / 4 / 17) 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) इति णस्य अकारस्य लोपः / सुगणयतीति 'विप्' सुगण् / / 17 / / ड्नः सः त्सोऽश्वः // 1 // 3 // 18 // पदान्ते वर्तमानाडुकारानकाराच्च परस्य सकारस्य स्थाने त्स इत्ययं तादिः सकारादेशो वा स्यात् / अश्च