________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः ___अ० द्वि / द्वौ वारौ द्विः / 'द्वित्रिचतुरः सुच्' (7 / 2 / 110) अनेन सुच् 'अप्रयोगीत्' (1 / 1 / 37) स् / सिः / 'अव्ययस्य' (3 / 2 / 7) इति लुक् / 'सो रुः' (2 / 1 / 72) 'रः पदान्ते.' (1 / 3 / 53) इति विसर्गः / कान् / ततो 'वीप्सायाम्' (7 / 4 / 80) इत्यनेन कान् इति द्विरुच्यते / कान् कान् / सकारस्य ‘सो रुः' / (2 / 1172) इति रुत्वं कश्चिदाशङ्कते / तं प्रति रस्याधिकारेत्युक्तम् // 11 // ' स्सटि समः // 1 // 3 // 12 // समित्येतस्य स्सटि परे सोऽन्तादेशः (आगमः) स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य संस्स्कर्ता / सँस्स्कर्ता / स्सटीति किम् ? संकृतिः // 12 // अ० सम्पूर्वःकृधातुः / संस्करोति संस्स्कर्ता / ‘णकतृचौ' (5 / 1 / 48) तृच् / 'नामिनो०' (4 / 3 / 1) इति गुणः / ततः ‘संपरेः कृगः स्सट्' (4 / 4 / 91) अनेन कृग आदिः स्सट् क्रियते / तदनन्तरं 'स्सटि समः' (1 / 3 / 12) अनेन मस्य सकारः / 'धुटो धुटि स्वे वा' (1 / 3 / 48) अनेन सकारत्रयमध्यात् मध्यमस्य लोपः / ततः सिः / 'ऋदुशनस्पुरुदंशो०'. (1 / 4 / 84) इति सेः स्थाने डा / संस्स्कर्ता इत्यत्र श्वस्तनीता, एवमपि सिद्धयति / संकृतिःकृधातुः सम्पूर्वः / संस्क्रियादित्याशास्यमान इत्याशीर्वाक्ये 'तिक्कृतौ नाम्नि' (5 / 1 / 71) अनेन तिक्प्रत्ययः / अत्र 'संपरेः कृगः स्सट्' (4 / 4 / 91) इति स्सट् कथं न भवति ? अत्रोत्तरमाह-गर्गादिगणपाठादिति 'संपरेः कृगः' इति सूत्रे उक्तमस्ति / ‘गर्गादेर्यञ्' (6 / 1 / 42) इति तद्धितपादे प्रथमे आदौ सूत्रम् / तत्र गर्गादिगणे गर्ग वत्स वाज अज संकृतिः इत्यादयः / अतः स्सट् न स्यादिति भावः // 12 // लुक् // 1 // 3 // 13 // समित्यस्य स्सटि परे लुगन्तादेशः स्यात् / सस्स्कर्ता / पृथग्योगादनुस्वारानुनासिकेत्यत्र निवृत्तम् // 13 // तौ मुमो व्यञ्जने स्वौ // 1 // 3 // 14 // मोागमस्य पदान्ते वर्तमानस्य च मकारस्य व्यञ्जने परे तस्यैव स्वौ तावनुस्वारानुनासिकौ क्रमेण स्याताम् / मग्रहणेनैव सिद्धे मुग्रहणमपदान्तार्थम् / स्वेत्यनुनासिकस्य विशेषणम् नानुस्वारस्य असम्भवात्। चंक्रम्यते चङ्क्रम्यते / बंभण्यते बम्भण्यते / वंवम्यते वञ्चम्यते / त्वं करोषि त्वङ्करोषि / त्वं चरसि त्वञ्चरसि। त्वं तरसि त्वन्तरसि / अत्र नकारस्य लाक्षणिकत्वात् 'नोऽ-प्रशान०' (1 / 3 / 8) इत्यादिनाऽत्र [त्वं तरसीत्यत्र] सकारो न स्यात् / संयतः सय्यँतः। अहंयुः अहय्युः / कंव कबः / पदान्त इत्येव-गम्यते। स्वाविति किम् ? रंरम्यते / शंशम्यते / त्वं रमसे / त्वं साधुः // 14 // - अ० मुश्च म् च मुमं / तस्य / तस्यैवेति-यः कश्चिद्धातुसम्बन्धिव्यञ्जनम् आदौ तदपेक्षया यः पञ्चमो वर्णः स एव स्व अनुनासिको भवतीत्यर्थः / तथा एकवारं प्रथमं अनुस्वारः पश्चादनुनासिक इति क्रमः / चंक्रम्यते इत्यादि 'क्रम पादविक्षेपे' क्रम् / भृशं पुनः 2 वा क्रामति 'व्यञ्जनादेरेकस्वरादृशाभीक्ष्ण्ये यङ् वा' (3 / 4 / 9) अनेन यङ्प्रत्ययः / ‘सन्यङश्च' (4 / 1 / 3) अनेन द्विः क्र क्रम् / 'व्यञ्जनस्यानादेर्लुक्' (4 / 1 / 44) अनेन द्विरुक्तव्यञ्जने आद्यं व्यञ्जनं स्थाप्यते / शेषं सर्वं लुप्यते / ‘कङश्चन्' (4 / 1 / 46) अनेन कस्य चत्वम् / 'मुरतोऽनुनासिकस्य' (4 / 1 / 51) अनेन द्विरुक्तविचाले मुआगमः कार्यः / ततः सूत्रम् / बंभण्यते इत्यस्य चंक्रम्यतेवत्सिद्धिः, नवरं 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) इति पूर्वमकारस्य बकारः क्रियते / 'त्वमहं सिना प्राक्' चाकः' (2 / 1 / 12)