________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते नासिकश्चादेशः उच्यते / 'भांक दीप्तौ' भातीति 'भातेर्डवतु' भवत् / सिः / 'ऋदुदितः' (1 / 4 / 70) इत्यनेन त् उपरि न् न्त् / 'अभ्वादेरत्वसः सौ' (1 / 4 / 90) दीर्घः' / 'दीर्घङया०' (1 / 4 / 45) इति सेर्लोपः / ‘पदस्य' (2 / 1 / 89) इति त्लुक् / 'दों छों च् च्छेदने' च्छो / वर्तमानातिन् / 'दिवादेः श्यः' (3 / 4 / 72) श्यः / 'प्रयोगीत्' य। 'ओतः श्ये' (4 / 2 / 103) इत्यनेन छो ओकारस्य लुग् / प्रशाञ्चर इत्यत्र नस्य 'तवर्गस्य श्चवर्ग०' (1 / 3 / 60) इत्यनेन ञ् // 8 // पुमोऽशिट्यघोषेऽख्यागि रः // 1 // 3 // 9 // पुमिति पुंसोः कृतसंयोगान्तस्य लोपस्यानुकरणम् / अधुट्परेऽधोषे शियाग्वर्जिते परे पुमित्येतस्य रोऽन्तादेशः [आगमः] स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य / पुंस्कामा / पुंस्कामा / पुंस्कोकिलः पुँस्कोकिलः / पुंस्फलम् / पुंस्फलम् / अमटीति किम् ? पुंशिरः / अघोष इति किम् ? पुंगवः / अख्यागीति किम् ? पुंख्यातः / अधुट्पर इत्येव- पुंक्षारः // 9 // ___ अ० पुंस्कामेत्यादिषु सर्वत्र 'पुंसः' (2 / 3 / 3) इति सूत्रेण रकास्य सकारः क्रियते / पुंस्कामः इत्यादिषु पुम्सु पुमांसं कामयते पुमांश्चासौ कोकिलश्च पुंसः फलमित्यादि वाक्यानि कृत्वा 'पदस्य' (2 / 1 / 89) इति सूत्रेण अन्त्यस्य सकारस्य लोपः कार्यः / तदनन्तरं 'पुमोऽशिटयघोषेऽख्यागि रः' इत्यनेन मकारस्य रकारः क्रियते 'पुंसः' इति सूत्रेण रस्य सकारः क्रियते पुंस्कामा पुंस्कोकिलः / पुंगवादय एवं साधनीयाः / पुमांश्चासौ गौश्च पुंगवः 'गोस्तत्पुरुषात्' (7 / 3 / 105) इति अट् / पुंसा ख्यातः पुंख्यातः / यत्र 'चक्षो वाचि क्शांग् ख्यांग्' (4 / 4 / 4) इति सूत्रेण चक्षुधातोः ख्यांग् आदेशस्तत्र रत्वनिषेधः यत्र तु ‘ख्यांक प्रकथने' इत्यदादिः तत्र रो भवत्येव यथा पुंख्यातः मुख्यातः / तथा 'पांक् रक्षणे' पा पाति पुरुषार्थमिति पुमान् नृ ‘पातेथुम्सु' (1002) पुम्स् इति सिद्धम् / पुमांसं कामयते ‘कमूङ् कान्तौ' कम् / कमेणिङ् (3 / 4 / 2) 'ञ्णिति' (4 / 3 / 50) इति वृद्धिः / पुमांसं कामयते / 'शीलिकामिभक्ष्याचरीक्षिक्षमो णः' (5 / 1 / 73) इति णप्रत्ययः / ‘णेरनिटि' (4 / 3 / 83) इङ्लोपः / 'आत्' (2 / 4 / 18) आप् // 9 // नृनः पेषु वा // 1 // 3 // 10 // नृनिति शसन्तस्य नृशब्दस्यानुकरणम् / नृनः पकारे परे रोऽन्तादेशः [आगमः] स्यात् वा। अनुस्वारानुनासिकौ च पूर्वस्य / नुं पाहि / नॅध्याहि / नृन् पाहि / बहुवचनस्य व्याप्त्यर्थत्वादधुट्पर इति निवृत्तम् [तेन नुं प्साति इत्यादि सिद्धम् // 10 // अ० नृ शस् / ‘शसोऽता सश्च नः पुंसि' (1 / 4 / 49) इत्येतेन ऋकारस्य दीर्घ नृ / शसः स्थाने न् / नृन् इति सिद्धम् // 10 // द्विः कानः कानि सः // 1 // 3 // 11 // ___ कानिति किमः शसन्तस्यानुकरणम् / द्विरुक्तस्य कानः कानि परे सकारोऽन्तादेशः स्यात् / अनुस्वारानुनासिकौ च पूर्वस्य / कांस्कान् काँस्कान् / द्विरिति किम ? कान् कान् पश्यति / अत्रैकः किम् (कान्रूपशब्दः) प्रश्नेऽन्यस्तु क्षेपे (कानिति निन्दायामवहेलने वा) / रस्याधिकारेणैव सिद्धे सविधानं रुत्वबाधनार्थम् // 1 //