________________ 23 श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य तृतीयः पादः त्रिष्टुप्च्छुतम् / त्रिष्टुप्श्रुतम् / अधुटीति किम् ? वाच्योतति // 4 // अ० अधुडिति कोऽर्थः-स्वरान्तस्थानुनासिकपरस्य शस्य छत्वं भवति / वाचा शूरः / 'चजः कगम्' (2 / 1186), 'घुटस्तृतीयः' (2 / 1 / 76) त्रिष्टुभां श्रुतम् / श्च्योततीति / 'चुतृस्चुतृस्च्युत क्षरणे' / श्च्युत् ‘सस्य शयो' (1 / 3 / 61) अनेन सूत्रेण दन्त्यसकारस्य तालव्यशकारः क्रियते / वर्तमानातिव् / शव् / 'लघोरुपान्त्यस्य' (4 / 3 / 4) गुणः // 4 // रः कखपफयोः )( पौ // 1 // 3 // 5 // पदान्तस्यस्य रेफस्य रकारस्य कखे पफे च परे यथासङ्ग्यं वित्यादेशौ वा स्याताम् / क)(रोति / कः करोति / क)(नति कः खनति / कपचति कः पचति / कमलति कः फलति / पक्षे "रः पदान्ते. (12253) इत्यनेन विसर्गः / विसर्गापवादोऽयम् [अयं योगः सूत्रम् / एवमुत्तरत्रापि // 5 // अ० कश्च खश्च कखौ / पश्च फश्च पफौ / कखौ च पफौ च तयोः / कः करोति / किम् / सिः / “किमः कस्तसादौ च' (2 / 1140) इति क आदेशः / सो रुः (2 / 1 / 72) रः // 'डुइंग् करणे' / कृ वर्तमानातिन् / 'कृरतनादेरुः' (3 / 4 / 83) इति उः / 'उश्नोः' (4 / 3 / 2) इत्यनेन गुणः / अर् / 'नामिनो गुणोऽडिति' (4 / 3 / 1) इति उकारस्य गुणः // 5 // .. शषसे शषसं वा // 1 // 3 // 6 // पदान्ते रेफस्य शषसेषु परेषु यथासङ्ग्यं श ष स इत्यादेशा वा भवन्ति / कश्शेते, कः शेते / कष्षण्डः, कः षण्डः / कस्साधुः, कः साधुः / नवाधिकारे पुनर्वाग्रहणमुत्तरत्र विकल्पनिवृत्त्यर्थम् // 6 // अ० शश्च षश्च सश्च शषसम् / तस्मिन् // 6 // चटते सद्वितीये // 1 // 3 // 7 // पदान्ते रस्य चटतेषु सद्वितीयेषु परेषु यथासङ्ग्यं शषसा भवन्ति / चछयोः शः-कश्वरः कच्छन्नः / टठयोः क-कष्टः, कष्ठः / तथयोः सः-कस्तः, कस्थः // 7 // - अ० चश्च टश्च तश्च / चटतम् / तस्मिन् / सह द्वितीयेनाक्षरेण वर्त्तते सद्वितीयः / 'सहस्य सोऽन्यार्थे' (3 / 2 / 143) सहस्य सः // 7 // . नोऽप्रशानोऽनुस्वरानुनासिकौ च पूर्वस्याधुट्परे // 1 // 3 // 8 // पदान्ते वर्तमानस्य नकारस्य प्रशान्शब्दवर्जितस्य चटतेषु सद्वितीयेषु अधुट् परेषु यथासङ्ग्यं श ष स इत्यादेशाः स्युः / अनुस्वारानुनासिकौ चागमादेशौ पूर्वस्य वर्णस्य क्रमेण स्याताम् / भवांश्चरः / भवाँश्वरः। भवांश्छ्यति। भवाँश्छ्यति। भवाष्टकः। भवाँष्टकः। भवांष्ठकारः। भवाँष्ठकारः। भवांस्तनुः [कृशः]। भवाँस्तनुः। भवांस्थुडति / भवाँस्थुडति / अप्रशान इति किम् ? प्रशाश्चरः / अधुट्पर इति किम् ? भवान्त्सरुकः // 8 // __ अ० न प्रशान् / अप्रशान् / तस्य / ‘शमूदमू च उपशमे' शम् / प्र / प्रशाम्यतीति प्रशान् 'क्विप्' (5 / 1 / 148) 'अहन्पश्चमस्य०' (4 / 1 / 107) इति दीर्घः / ‘मो नो म्वोश्च' (2 / 1 / 67) इति मस्य न् / न धुट् / अधुट् / अधुट्परोऽस्मात् चटतात् चटतात् सोऽधुट्परस्तस्मिन्निति वाक्यं कर्त्तव्यम् / न धुटपरो यस्मात् इति कृत्वा पश्चान्नञा योगः कार्यः, यतः प्रसज्यनशङ्कया वर्णाभावेऽपि स्यात् आदेशः, भवान् इत्यत्रेत्यर्थः / अनुस्वार आगमः अनु