________________ *22 कलिकालसर्वज्ञभीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवप्रिभ्यामलते तृतीयस्य' पञ्चमे // 1 // 3 // 1 // वेति पदान्त इति च अनुनासिक इति चानुवर्तते / वर्गतृतीयस्य पदान्ते वर्तमानस्य पञ्चमे परेऽनुनासिको वा स्यात् [डअणनमा इत्येते भवन्तीति ज्ञेयम्] / वावते वाग्वते / वाजकारः वाग्ज्ञकारः / एवं षाणयाः / षड्नयाः / ककुम्मण्डलम् / ककुमण्डलम् // 1 // अ० त्रि / त्रयाणां पूरणः / 'त्रेस्तु च' (71 / 166) इत्यनेन तीयप्रत्ययः तृ आदेशश्च / तृतीयस्येत्युत्तरार्थं कृतमन्यथा वर्गस्येति क्रियेत / तेन प्राङ् हसति इति सिद्धम् / 'वचंक् परिभाषणे' / वक्तीति कर्तरि उच्यते इति कर्मणि वा / 'दिद्युद्ददृज्जगजुहूवाक्०' (5 / 2 / 83) इत्यादि एते निपाताः, विप् दीर्घश्चादिकं क्रियते / सिः / दीर्घङयेति लुक् / 'चजः कगम्' (2 / 1 / 86) अनेन चस्य कः / 'धुटस्तृतीयः' (2 / 1 / 76) अनेन कस्य गः / षण्णां नयाः षण्नयाः / 'धुटस्तृतीयः' इति षस्य डः / कम् पूर्वं स्तंभ इति सौत्रो धातुः कं वायुं स्तभ्रातीति ‘ककुत्रिष्टुबनुष्टुभः' / (932) इति निपाताः / निपातनात् ककुभ् / 'मडु भूषायाम् मण्डयते भूष्यतेऽवयवैरिति मण्डलम्' 'मृदिकन्दिकुण्डिमण्डिमङ्गिपटिपाटिशकि केवृदेवृकमियमिशलिंकलिपलिगुध्वश्चिचश्चिचपिवहिदिहिकुहितृसृपिशितुसिकुस्यनिद्रमेरलः' (465) अलप्रत्ययः मण्डलम् (ककुभां मण्डलम्) तथात्र मकारे कृते 'तौ मुमो व्यञ्जने स्वौ' (1 / 3 / 14) इत्यनेनानुस्वारो न भवति लाक्षणिकत्वात् / असदधिकाराद्वेति केचित् मस्यानुस्वारं नेच्छन्ति // 1 // प्रत्यये च // 1 // 3 // 2 // .. .. पदान्तस्थस्य तृतीयस्य प्रत्ययपञ्चमे परेऽनुनासिकः स्यानित्यार्थ वचनम् / वाङ्मयम् / षण्णाम् / चकार उत्तरत्र वाऽनुवृत्त्यर्थः // 2 // अ० प्रति 'इण्क् गतौ' / प्रतीयते येनार्थः स प्रत्ययः ‘पुनाम्नि' (5 / 3 / 130) घः / वाच् वाचां विकारोऽवयवो वा 'एकस्वरात्' (6 / 2 / 48) इति मयट् / अथवा वाच आगतं 'नृहेतुभ्योरुप्यमयड् वा' (6 / 3 / 156) / षण्णाम्षष् षष्ठी आम् ‘सङ्ख्यानां र्णाम्' (1 / 4 / 33) इत्यनेन आम्स्थाने नाम् क्रियते / 'धुटस्तृतीयः' (2 / 1 / 76) इति डः अनेन णः 'तवर्गस्य श्चवर्ग०' (1 / 3 / 60) इति नस्य णः / / 2 / / ततो हश्चतुर्थः // 1 // 3 // 3 // पदान्ते वर्तमानात्ततस्तृतीयात्परस्य हस्य स्थाने पूर्वसवर्गश्चतुर्थो वा स्यात् / वाग्धीनः वागहीनः / अज्झलौ अज् हलौ / तद्धितम् तहितम् / ककुन्भासः ककुब्हासः // 3 // अ० चतुर् / चतुर्णाम् पूरणः 'चतुरः' (7 / 1 / 163) इत्यनेन थट् / वाचा हीनः / अच् च हल् च 'धुटस्तृतीयः' (2 / 1 / 76) इति जः / तस्मै हितं तेभ्यो वैदिकलौकिकशब्दसन्दर्भेभ्यो हितं तद्धितम् / अथवा ताभ्य औपगवादिवृत्तिभ्यो हितं तद्धितम् इति विस्तरवाक्यम् तम् / ककुभां हासः // 3 // प्रथमादधुटि शश्छः // 1 // 3 // 4 // पदान्ते वर्तमानात्प्रथमात्परस्य शस्य स्थानेऽधुटि परे छकारो वा स्यात् / वाक् च्छूरः / वाक्शूरः / 1. वर्गस्य इत्येव सिद्धे तृतीयस्योपादानं उत्तरार्थम् / अन्यथा ड्वर्णस्यापि वर्गात्मकत्वेन प्राङ् हसति इत्यत्र प्राड्यसति इति प्रयोगापत्तिः स्यात् /