SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 274 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते _____ अ० पट्वी भार्या यस्य, कल्याणी भार्या यस्य एवं दर्शनीया भार्या यस्य स दर्शनीयभार्य, एतशब्दः श्वेतवर्णवाचकः कर्बुरो वा / श्येतशब्दः कुमुदाभः / एताश्येतपरतः ‘श्येतैतहरितभरतरोहिताद्वर्णात्तोनश्च' (2 / 4 / 36) इत्यनेन ङीप्रत्ययः, ङीयोगे च तकारस्य नकारः एनी, श्येनी, एनी भार्या यस्य, श्येनी भार्या यस्य, पुंवद्भावे डीनिवृत्तिः, डीनिवृत्तौ नकारोपि निवृत्तः / युवन्, 'यूनस्तिः' (2 / 4/77) इत्यनेन स्त्रियां तिः युवतिर्जाया यस्य, पुंवद्भावेति निवृत्तिः 'जायाया जानिः' (7 / 3 / 164) इति जानिः / एवं कल्याणा चासौ पंचमी च कल्याणपंचमी इत्यपि ज्ञेयम् / तथा पट्वी च मृद्वीच ते भार्ये यस्य पट्वीमृदुभार्यः, अत्र द्वंद्वपदानां परस्परार्थसंक्रमात्, द्वयर्थस्य मृदुशब्दस्य, द्वयर्थेन भार्याशब्देन सामानाधिकरण्यमिति मृदुशब्दस्य पुंवद्भावो भवति, पट्वी शब्दस्य तु व्यवधानान्न पुंवद्भावः, द्रुणी भार्या इत्यादिषु पुंवद्भावेऽर्थतः प्रत्यासन्नाः कूर्म हंस अश्व शब्दा द्रुणी वरटा वडवा स्थाने प्राप्नुयुः / तथा द्रोणीभार्यः, कुटीभार्यः, पात्रीभार्यः, अत्र पुंवद्भावे शब्दतः प्रत्यासन्ना द्रोणा कुट पात्र इति शब्दाः प्राप्नुयुः, कल्याण्या वस्रं, गृहिणी नेत्रे येषां कल्याणी प्रधानाः / एवं दर्शनीया माता, ब्रह्मा बंधुरस्या / ‘उतोऽप्राऽणिनश्चे' (2 / 4 / 73) ति ऊ / ब्रह्मबंधू भार्याऽस्य // 49 / / क्यङ्मानिपित्तद्धिते // 3 // 2 // 50 // क्यङि प्रत्यये मानिनि शब्दे चोत्तरपदे पिति तद्धिते च प्रत्यये परे परतः स्त्रीलिंगः शब्दोऽनूङ् पुंवद्भवति / क्यङ्, श्येनीवाचरति श्येतायते / मानिन्, दर्शनीयां मन्यते दर्शनीयमानी, अयमस्याः, दर्शनीयमानिनी इयमस्याः। पित्तद्धिते ध्यप्, अजथ्यं यूथं / पित्तिथट्, बहुतिथी प्चरट पटुचरी। पित्तस् वाक्य-बह्वीभ्यो बहुतः। त्रप्, बहुत्रः / शस्, बहुशो देहि / पाशप्, दर्शनीयपाशा / तमप्, पकतमा / तरप्, पकतरा / रूपप्, दर्शनीयरूपा / कल्पप् दर्शनीयकल्पा / देश्यप् दर्शनीयदेश्या / कप्, दर्शनीयका / कथं पत्रिका मृद्धिका ? 'ङ्यादीदूतः के' (2 / 4 / 104) इत्यत्र ङीग्रहणं पुंवद्भावबाधनार्थमुक्तं तेनात्र ह्रस्वः // 50 // अ० पकारानुबंधे तद्धितप्रत्यये परे सति तत्र पुंवद्भावे ङीनिवृत्तिः, डीनिवृत्तौ नकारोपि निवृत्तः / दर्शनीयां मन्यते भार्यां दर्शनीयमानी ‘मन्याण्णिन्' (5 / 1 / 116) इति णिन् / अजा अजाभ्यो हितं यूथं अजथ्यां 'अव्यजात् ध्यप्' (7 / 1 / 38) इति सूत्रेण थ्यप्, ततः पुंवद्भावः / भूतपूर्वा पट्वी पुटुचरा ‘भूतपूर्वे प्चरट्' (7 / 2 / 78) इति सूत्रेण चरट, स च पित्, ततः पुंवद्भावः / बह्वीबह्वीनां पूरणी बहुतिथी 'पित्तथट् बहुगणपूगसंघात्' (7 / 1 / 160) इति सूत्रेण तिथट् प्रत्ययः स च पित्, 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित्तंस्' (7 / 279) इति तस् स च पित् / बह्वीबह्वीभ्यो देहि बहुशो देहि बह्वल्पार्थात् (कारकादिष्टानिष्टे पशस्) (7 / 2 / 150) इति सूत्रेण शस् स च पित् ततः पुंवद्भावः / निन्द्या दर्शनीया इति वाक्ये 'निन्द्ये पाशप्' (7 / 3 / 4) इति सूत्रेण पाशप् / बह्वीषु बहुत्र ‘त्रप् च' (7 / 2 / 92) इति त्रप् प्रत्ययः / पक्का इयमासां अतिशयेन पक्का पक्वतमा 'प्रकृष्टेतमप्' (7 / 3 / 5) इति सूत्रेण तमप् / इयमनयोरतिशयेन पक्का पक्कतरा 'द्वयोर्विभज्ये च तरप्' (7 / 3 / 6) इति सूत्रेण तरप्' ततः पुंवद्भावः / पक्कतमा पक्कतरा इति सिद्धम् / प्रशस्ता दर्शनीया इति वाक्ये 'त्यादेश्च प्रशस्ते रूपप्' (7 / 3 / 10) इति सूत्रेण रूपप् प्रत्ययः, दर्शनीये 'आत्' (2 / 4 / 18) इत्याप् / ईषदसमाप्त दर्शनीया दर्शनीयकल्पा दर्शनीयदेश्या ‘अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीय' / (7 / 3 / 11) इति सूत्रेण कल्पप् देश्यप् प्रत्ययौ 'हस्वा दर्शनीया दर्शनीयका 'प्राग् नित्यात् कप्' (7 / 3 / 28) इति सूत्रेण कप् प्रत्ययः / अत्र असन्देहार्थं इकारो न कृतः तथाहि किमत्र पुंवद्भावे सति 'अस्यायत्तेत्या (2 / 5 / 111) दिना डकारः. अथवा पंवद्भावे अकतेऽपि 'स्वज्ञाजे (2 / 4 / 108) त्यादिना आप
SR No.004401
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Original Sutra AuthorN/A
AuthorKshamabhadrasuri, Ratnajyotvijay
PublisherRanjanvijayji Jain Pustakalay
Publication Year
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy