________________ 275 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः एव स्थाने इकारोऽयं इति सन्देहः स्यात् इति प्राप्तोऽपि इकारो न कृतः // 50 // - जातिश्च णितद्धितयस्वरे // 3 // 2 // 51 // अन्यापस्तः स्त्री जातिश्च णिप्रत्यये यकारादौ स्वरादौ च तद्धिते विषयभूते उत्पत्स्यमाने तद्विवक्षायामेव पुंबद्भवति अनुङ् / णि, पट्वीमाचष्टे पटयति / तद्धितय, एन्यां साधुः ऐत्यः / एन्या भाव ऐत्यं / तद्धितस्वर, भवत्या इदं भावत्कं भवदीयं / इयमासामतिशयेन पट्वी पटिष्ठा पटीयसी। जातितद्धितय' दारयः। तद्धितस्वरे, हास्तिकम् / तद्धितेति किम् ? हस्तिनीमिच्छति हस्तिनीयति हस्तिन्यः / कथं यौवतं ? भिक्षादौ युवतीति बीलिंगपाठात् / सापत्न इत्यपि 'सपन्यादावि' (2 / 4 / 50) ति सूत्रे सपत्नीसमुदायनिपातनात् / अत एव सतपत्नीभार्ये इत्यत्रापि नपुंवद्भावः / सपत्नस्यायं सापत्न इति वा भविष्यति ॥छ॥५१॥ अ० दरदां राजा दरदोऽपत्यं स्त्री 'पुरुमगधकलिङ्गसूरमसद्विस्वरादण्' (6 / 1 / 116) इति अण् / 'द्रेरञणोऽप्राच्यभादेः' (6 / 1 / 123) इति सूत्रेण अण्लुक दरत् / अणे यणेतिरी / दरत्यां साधुः 'तत्र साधौ' (7 / 1 / 15) यः पुंवद्भावः, डीनिवृत्तिः पुंवद्भावात् पुनर्दद् इति शब्दः / जातिश्चणीति सूत्रे जातिग्रहणं जातिलक्षणप्रतिषेधनिवृत्यर्थ / सति तस्मिन् चकारोऽन्यार्थः / जातिः परतः 'स्त्री' अथवा परतः स्त्री पुंवद्भवतीत्यथवा अकृते हि चकारे जातेरेव पुंवद्भावः स्यात्, न जातिविलक्षणशब्दस्य इति भावार्थः / एवं एतयति लघयति / एत / श्येतैत० (2 / 4 / 36) इत्यादिना ङीः, तस्य नः एनी' एन्यां साधुनीत्यत्र, 'तत्र साधौ' इति यः, एन्या भावः ऐत्यं वर्णदृढादिभ्य (7 / 1159) ष्टयण् भवति / भवत्या इदं भावत्कं भवदीयं. 'भवतोरिकणीयसौ' (6 / 3 / 30) इकण् ईयस् प्रत्ययौ / 'ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकणस्येतो लुक्' (74 / 71) इति सूत्रेण इकण् इकारस्य लुक् / 'गुणाङ्गाद्वेष्ठेयसू' (7 / 3 / 9) 'त्रन्त्यस्वरादेः' (7 / 4 / 43) हस्तिनीनां समूहो हास्तिकं हास्तिकं, हस्तिनां हस्तिनीनां वा समूहः 'कवचिहस्त्यचित्ताचेकण्' (6 / 2 / 14) इकण 'नोऽपदस्य तद्धिते' (74 / 61) इति नकारस्य लोपः / युवतीनां समूहो यौवतम्, 'भिक्षादेः' (6 / 2 / 10) इति सूत्रेण इण् / 'अवर्णेवर्णस्य' (7 / 4 / 68) इलोपः / 'अणि' (7 / 4 / 52) इति सूत्रेणऽत्र नान्त्यस्वरादेर्लोपः / यौवनं इति प्राप्नोति पुंवद्भावप्राप्तेः न यौवतं इति पराशयः / सूरिराह / भिक्षादेरिति / भिक्षादेः इति वक्ष्यमाणतद्धितसूत्रे युवितशब्दस्त्रीलिङ्गस्य युवतीनां समूहो यौवतमित्येवं साधना / समानः पतिरस्याः सपत्नी समानस्य पतिरिति वा सपत्नी ‘सपन्यादौ' (2 / 4 / 50) इति सूत्रेण ङीः, नकारान्तादेशः, समानस्य सभावश्च इति त्रयं निपात्यते / जातिश्च णीति पुंवद्भावः प्राप्नोति / सिद्धेः पुंद्भावबाधनार्थं सपन्यादौ इति सूत्रं कृतं / सपत्न्या अपत्यं अथवा सपत्नशब्दःसपत्न्यास्तुल्यः / तत्र 'अः सपल्याः ' (7 / 1 / 119) इति सूत्रेण अप्रत्ययः / औणादिको वा 'जातिश्चणितद्धितयस्वरे' इति सूत्रे तद्धितयस्वरे इत्यत्र विषयसप्तम्याआश्रयणं किम् ? पट्या भावः पाटवं / अत्र प्रत्ययोत्पत्तेः पूर्वमेव पुंवद्भावे सति लघ्वादित्वात् भावार्थे 'य्वृवर्णाल्लघ्वादे' (7 / 1 / 69) रिति सूत्रेण सिद्धः। परं सप्तम्याश्रयणे तु लघ्वादित्वाभावादण् न स्यात् इति भावः / इयमवचूरिः सूत्रान्ते // 51|| . .. एयेऽनायी // 3 // 2 // 52 // . तद्धिते एयप्रत्यये परेऽनायी एव' परतः स्त्री पुंवद्भवति / आग्नेयः स्थालीपाकः / पूर्वेण सिद्धे नियमार्थ वचनम् / तेन श्यैनेयः / रोहिणेयः / अत्र पूर्वेणापि न पुंवद्भावः ॥छ॥५२॥ अ० अग्नेर्भार्या अग्नायी 'पूतक्रतुवृषाकप्यग्नि०' (2 / 4 / 60) इत्यनेन ङीणअंतश्च / अग्नाय्या अपत्यं आग्नेयः / 1. द्विस्वरादनद्याः / 6 / 1 / 71 / इति / 2. 'ड्याप्त्यूङः' / 6 / 1170 / इति एयण् /