________________ 273 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः वर्चस्कादिष्ववस्करादयः // 3 // 2 // 48 // वर्चस्काद्यर्थेषु अवस्करादिशब्दाः कृतशषसायुत्तरपदाः साधवो भवन्ति / वर्चस्के-अवस्करोऽनमलम्, अबकरोऽन्यः / अपस्करो रथाङ्गे, अपकरोऽन्यः / अवरस्पराः अपरस्परा वा क्रियासातत्ये, अवरस्पराः सार्था गच्छन्ति, अन्यत्रावरपराः सार्था गच्छन्ति। आस्पदं प्रतिष्ठायाम्, अन्यत्र आ ईषत् पदं आपदम् / आश्चर्यमद्भुते, अन्यत्र आचर्य कर्म शोभनम् / हरिश्चन्द्र ऋषी, अन्यत्र हरिचन्द्रो माणवकः। मस्करो वेणुवंशदण्डयोः, अन्यत्र मकरो मत्स्यः / मस्करी परिव्राजके, अन्यत्र मकरी समुद्रः / कारस्करो वृक्षे, कारकारोऽन्यः / पारस्करो देशे, पारक रोऽन्यः / वनस्पतिः पुष्पं विना फलवति वृक्षे, सर्वहरित्काये वा, वनपतिरन्यः / किष्किन्ध इति गुहापर्वतयोः। तस्करश्चौरः, बृहस्पतिर्देवतायाम्, अन्यत्र तत्करः, बृहत्पतिः। प्रायश्चित्तप्रायश्चित्ती अतिचारशोधने, शष्कुली कृताने, कृतानादन्यत्र शकुली मत्सीविशेषः / गोष्पदं गोसेविते प्रमाणे च, यत्र गावः पद्यन्ते सगोभिः सेवितो ग्रामसमीपादि देश उच्यते / प्रमाणे गोष्पदपूरं वृष्टो देवः / बहुवचनमाकृतिगणार्थम् // 48 // ___अ० अवकीर्यते अवस्करः / 'युवर्णवृदृवशरण०' (5 / 3 / 28) इत्यल् / सततं निरन्तरं गच्छन्तीत्यर्थः अवरे च परे च सकृदेव गच्छन्तीत्यर्थः / आपद्यते इति आस्पदम्, 'वर्षादयः क्लीबे' (5 / 3 / 29) इत्यनेन अल् / प्रतिष्ठास्थानं आत्मयापनापदं उच्यते / कोऽर्थः ? आचर्यते इत्याश्चर्यम् / 'चरेराङस्त्वगुरौ' (5 / 1 / 31) इत्यनेन यप्रत्ययः, ततः श उत्तरपदे कार्यः / मा कृग्, मा क्रियते प्रतिषिध्यतेऽनेनेति मस्करः, 'पुन्नाम्नि घः' (5 / 3 / 130) निपातनात् ह्रस्वः सकारश्च, अथवा मकरशब्दस्य अव्युत्पन्नस्य मस्कर इति रूपम् माकरणशीलो मस्करी / कारं करोतीति व्युत्पत्त्या कारस्करः, 'संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाह्ररुर्द्धनुनान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः' (5 / 1 / 102) इति टः / पारं करोतीति पारस्करः ‘हेतुतच्छीलानुकूले०' (5 / 1103) त्यादिना टः / मकरिन् शब्दस्य वा मस्करी इति रूपम् / किमप्यन्तर्दधातीति किष्किन्धा नाम गुहा, निपातनात् किमोर्द्विवचनम्, पूर्वमकारस्य षकारः / तथा किं किं दधातीति किष्किन्धो नाम पर्वतः / एतत्करोतीति बृहतां पतिः तस्कर बृहस्पति इत्यत्र उभयत्र तकारस्य सकारः / प्रायश्चित्तमित्यादि प्रकर्षण एति-आगच्छति अस्माद्विधानादांचारधर्मे इति प्रायो मुनिलोकः चिन्त्यते स्मर्यते इति चित्तम् / चित्तिश्च व्रतम्, प्रायैर्मुनिजनैश्चित्तं-चिन्तितं पापविशुद्धये इति प्रायश्चित्तम्-अतिचारशोधनम् / एवं प्रायश्चित्ते उत्पत्तिज़ैया, निपातनात् शकारः / शष्कुलशब्दात् गौरादित्वात् ङीः / गोष्पदपूरं इत्यादि, गोपदं पूरयति / इदं वाक्यं ‘वृष्टिमाने ऊलुक् चास्य वा' (5 / 4 / 57) इति सूत्रेण णम् प्रत्ययः, तदनंतरं वर्चस्कादिष्वेति षकारो विचाले // 48 / / / . परतः स्त्री पुंवत् स्त्र्येकार्थेऽनुङ् // 3 // 2 // 49 // परतो विशेष्यवशाद् यः शब्दः स्त्रीलिंगः स स्त्रियां वर्तमाने एकार्थे-तुल्याधिकरणे उत्तरपदे परे मुंवद् भवति / अनूङ्-न ऊडंतः। पटुभार्यः, कल्याणभार्यः, एनी भार्या यस्य स एतभार्यः, श्येतभार्यः, कुवजानिः। परत इति किम् ? कच्छपी, गुणीभार्यः, वरटामार्यः, वडवाभार्यः / स्त्रीति किम् ? ग्रामणि कुलं दृष्टिस्य ग्रामणिदृष्टिः / स्त्र्येकार्थे इति किम् ? कल्याणीवस्त्रम् / स्त्रीग्रहणं किम् ? गृहिणीनेत्राः / एकार्थ - ते किम् ? कल्याण्या माता कल्याणीमाता / अनूङिति किम् ? ब्रह्मबंधूभार्यः // 49 // 1. अत्र स्त्रिलिङ्गोत्तरपदं नास्ति /