________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 247 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्तप्रशंसा रूढेर्जातिः // 3 // 11111 // जातिवाचिनामैकार्थं पोटादिनामभिः प्रशंसारूढैश्च सह समस्यते, तत्पुरुषः कर्मधारयश्च / इभ्यपोटा। नागयुवतिः / एवं वृन्दारकयुवतिः / अग्निस्तोकम् / दधिकतिपयम् / गोगृष्टिः / गोधेनुः / गोवशा गोवेहत् गोबष्कयणी कठप्रवक्ता कठश्रोत्रियः कठाध्यायकः मृगधूतः। प्रशंसायां रूढा मतल्लिकादय आविष्टलिङ्गाः, तैः गोमतल्लिका गोमचर्चिका पुरुषोद्ध इत्यादि, रूढग्रहणादिह न समासः गौः रमणीया गौ शोभनाः। जातेरिति किम् ? देवदत्ता पोटा / विशेष्यस्य जातेः पूर्वनिपातार्थं वचनम् // 11 // अ० इभ्या च सा पोटा च इभ्यापोटा / पुरुषवेषधारिणी स्त्री पोटा / गर्भ एव दास्यं प्राप्ता वा, नरस्त्रीचिह्ना वा दासी वा पोटा, दासस्य भार्या दासी प्रशंसायां रूढाः प्रशंसारूढाः, पोटायुवतिश्चेत्यादि प्रशंसारूढाश्च तैः / पुंवत्कर्मधारये (3-2-57) इति पुंवत् / नागी चासौ युवचिश्च नगायुवतिः / (अग्निश्चासौ) स्तोकं (च) दधि च तत् कतिपयं च दधि (कतिपयं) / गौश्चासौ गृष्टिश्च, गृष्टिः सकृत्प्रसूता गौः, धेनुर्नवप्रसूता गौः, वशा वंध्या गौः, वेहत् गर्भघातिनी गौः, या 'बष्कयेन-वृद्धवत्सेन दुह्यते सा बष्कयणी / अग्निस्तोकमित्यत्र भिन्नलिंगयोरपि शब्दयोः सामानाधिकरण्यं सूत्रबलात् 'वरं विरोधोऽपि समं महात्मभिः' इतिवत् सामान्यविशेषभावेनायं प्रयोगः / उपाध्यायः छन्दोऽध्यायी / गोमतल्लिका, गोमचर्चिका, गोप्रकाण्डम्, पुरुषोद्धः, गोकुमारी, गोतल्लजकः, तात पादाः, आर्यमिश्राः, केशपाशः, केशहस्तः, अंसभित्तिः, वक्षस्थलम्, कपोलपाली, उरःकपाटः, स्तनतटमिति आदिशब्दात् ज्ञेयाः, आविष्टं-आगृहीतं अमुकं लिङ्गं स्वकीयं यः ते आविष्टलिङ्गाः, लिङ्गान्तरशब्दसंबंधेऽपि विशेष्यलिङ्गं न स्पृशन्ति, उपलक्ष(ण)त्वादाविष्टवचनाश्च; तेन तातश्च ते पादाश्चेति वाक्यं सिद्धम् / गौश्चासौ मत्तल्लिका च // 111 / / चतुष्पाद् गर्भिण्या // 3 / 1 / 112 // चतुष्पाद्वादिजातिनामैकार्थं गर्भिणीति नाम्ना समस्यते, तत्पुरुषः कर्मधारयश्च / गौश्चासौ गर्भिणी च गोगर्भिणी, अजगर्भिणी, अश्वगर्भिणी चतुष्पादिति किम् ? ब्राह्मणी गर्भिणी // 112 // अ० चत्वारः पादा यस्या सा चतुष्पाद् ‘सुसङ्ख्यात् (7 / 3 / 150) इति सूत्रेण पादस्य पादिति समासान्तः / जातेर्विशेष्यस्य पूर्वनिपातार्थमिदं वचनम् // 112 // . युवा खलतिपलितजरद्वलिनैः // 3 // 1 // 113 // युवनिति नाम खलत्यादिनामभिः सह समस्यते, स च तत्पुरुषः कर्मधारयसञ्ज्ञश्च स्यात् / युवा चासौ खलतिश्च युवखलतिः, युवपलितः, युवजरन्, युववलिनः / नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायात् युवतिश्चासौ खलतिश्च युवखलतिः, एवं युवपलिता, युवजरती युववलिता // 113 // ____ अ० युवशब्दस्य विशेष्यत्वात् परनिपाते प्राप्ते, अथवा युवशब्दस्य खलत्यादिशब्दस्य च गुणवचनत्वात् खञ्जकुण्टादिवदनियमे सति पूर्वनिपातार्थं 'युवाखलतीदं' सूत्रम् / वलयोऽस्य सन्ति इति वाक्ये 'नोऽङ्गादेः' (7 / 2 / 29) इति सूत्रेण नप्रत्ययः ‘पुंवत्कर्मधारये' (3 / 2 / 57) इति पुंवत्, युवतेयुवन् // 113 / / . कृत्यतुल्याख्यमजात्या // 3 / 1 / 114 / / कृत्यप्रत्ययान्तं तुल्याख्यं च तुल्यपर्यायं नामैकार्थं अजात्याऽजातिवाचिनाम्ना सह समस्यते, तत्पुरुपः