________________ 246 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सन् 'घटः / 'उत्कृष्टो गौः / कथं महाजनः महोदधिः, ग्वैपुल्यं ह्यत्र गम्यते न पूजा, सत्यम्, बहुलाधिकाराद्भविष्यति // 107 // ___ अ० पूजायामेवेति नियमार्थम् पूर्वनिपातव्यवस्थार्थं च ‘सन्महत्परम' 0 इति सूत्रं कृतम् / तेन सच्छुक्ल इत्यादौ खञ्जकुण्टादिवत्-अनियमेन पूर्वनिपातो न भवति / तथा परमजरन्, महावीरः, परममहान् इत्यादौ ‘स्पर्द्र' इति न्यायेन यथापरं पूर्वनिपातश्च सिद्धो भवतीति भावः / / 107 / / वृन्दारकनागकुञ्जरैः // 3 / 1 / 108 // एभिर्नामभिः सह सामर्थ्यात् पूज्यवचनं नाम पूजायां गम्यमानायां समस्यते, तत्पुरुषः कर्मधारयश्च / वृन्दारक इव वृन्दारकः, गौश्वासौ वृन्दारकश्च गोवृन्दारकः, अश्ववृन्दारकः, गोनागः, गोकुञ्जरः / पूजायामित्येव-शोभना सीमा-स्फटा यस्य स सुसीमो नागः, नात्र नागशब्दः पूजां गमयति किन्तु जातिमात्रम् / व्याघ्रादेराकृतिगणत्वात् 'उपमेयं व्याघ्राद्यैः०' (3 / 1 / 102) इत्येव सिद्धे पूजायामेव नियमार्थं साम्योक्तावपि विधानार्थ चेदं वचनम्, तेन गोनागो "बलवानित्यादि सिद्धम् // 108 // . __ अ० वृन्दारकादीनां जातिशब्दत्वेऽपि उपमानात् पूजाऽवगतिर्भवति / नाग इव नागः, गौश्वासौ नागश्च गोनागः / नागशब्देन हस्ती ज्ञेयो न सर्पः / एवं अश्वनागः / कुञ्जर इव कुञ्जरः, गौश्वासौ कुञ्जरश्च गोकुञ्जरः, अश्वकुअरः, मैत्रो नाग इव हस्तीव मूर्ख इत्यत्र तूपमानेन निन्दैव गम्यते न पूजा // 108 / / कतरकतमौ जातिप्रश्ने // 3 // 1109 // . एतावेकार्थों जातिप्रश्ने गम्यमाने सामर्थ्याजातिवाचिना नाम्ना समस्येते, तत्पुरुषः कर्मधारयश्च / कतरकठः कतमगार्ग्यः, जातिप्रश्ने इति किम् ? गुणक्रियाद्रव्यप्रश्ने न भवति। 'कतरः शुक्लः / कतमो गन्ता। कतरः कुण्डली // 109 // . अ० किम् द्वयोर्मध्ये प्रकृष्टः कः कतरः ‘यत्तत्किमन्यात्' (7 / 3 / 53) इति सूत्रेण डतरः / किम् / बहूनां मध्ये प्रकृष्टः कः कतमः ‘बहूनां प्रश्ने डतमश्च वा' (7 / 3 / 54) इत्यनेन डतमः / कठेन प्रोक्तो वेदः कठः 'तेन प्रोक्ते' (6 / 3 / 181) इति सूत्रेण अण् ‘कठादिभ्यो वेदे लुप्' (6 / 3 / 183) इति सूत्रेण अण् लुप्यते / कठं वेत्त्यधीते इति वाक्ये 'तद्वेत्त्यधीते' (6 / 2 / 117) इति सूत्रेण अण् 'प्रोक्तात्' (6 / 2 / 129) इति सूत्रेण अण् लुप्यते, पश्चात् ''कतरश्चासौ कठश्च कतरकठः / कतमश्चासौ गार्ग्यश्च कतमगार्ग्यः // 109 / / . किं क्षेपे // 3 // 11110 // क्षेपे निन्दायां गम्यमानायां किंशब्दोऽर्थात् कुत्स्यचिना नाम्ना सह समस्यते, तत्पुरुषः कर्मधारयश्च / को राजा किंराजा यो न रक्षति, किंगौ यो न वहति भारम्, सर्वत्र तत्कार्याकरणात् क्षेपो गम्यते / कुत्सितो नरोऽश्वमुखत्वात् किन्नरः, एवं किंपुरुष इत्यादि / क्षेप इति किम् ? को राजा तत्र नगरे // 110 // __अ० क्षिप्यमाणवाचिना निन्दमानवाचिना कुत्स्यवाचिना त्रयोऽपि शब्दा एकार्थाः-एकपर्यायाः। किंगौरित्यस्याग्रे कः सखा किंसखा यो द्रुह्यति / स किंवैयाकरणो यः शब्दं न ब्रूते / कुत्सितः शुकः किश्चिन्नीलः किंशुकः -पलाशः // 110 // 1. वर्तमानो घट इत्यर्थः / 2. गत देरुद्धृत इत्यर्थः / 3. अत्र वैपुल्यशब्दो वैशाल्ये वर्त्तते नतु पूजायाम् / 4. बलवानिति साम्योक्तिः / 5. शुक्लगन्तुकुण्डलीशब्दैः सामानाधिकरण्यात्, कतरशब्देन गुणक्रियाद्रव्यविषयाः प्रश्ना अत्र भाव्याः / 6. किंसखा, अत्र क्षिप्यमाणवाची किंशब्दः, किंवैयाकरण इत्यत्र निंद्यमानवाची किंशुक इत्यत्र कुत्स्यवाची बोध्यः /