________________ ___ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः इति कृतादिगणः / 'राशिस्थानीकृता इत्यर्थः / च्व्यन्तानां च्व्यर्थस्य च्चिनैवोक्तत्वात् ‘श्रेण्यादिकृता' 0 इत्यनेन न समासः यथा श्रेणीकृता इत्यादि / अत्र तु 'गतिकन्यस्तत्पुरुषः (3 / 142) इत्यनेन नित्यसमासः / 'श्रेण्यादि कृताथै' रिति सूत्रेण तत्र समासः क्रियते यत्र च्व्यर्थोऽवाच्यो गम्यमानो भवति यथा श्रेणिकृता इत्यादिषु / / 104 / / ____क्तं नत्रादिभिन्नैः // 3 / 1 / 105 // क्तं-क्तान्तं नाम सामर्थ्याद् नञ् [आदयः] नप्रकारास्तैरेव भिन्नैर्नामभिः सह समस्यते, तत्पुरुषः कर्मधारयश्च / कृतं च तदकृतं च कृताकृतम् / भुक्तं च तदभुक्तं च भुक्ताभुक्तम् / क्लिष्टाक्लिशितम् पूतापवितम् / आदिग्रहणात् कृतापकृतम्, भुक्तविभुक्तम्, पीतावपीतम् / क्तमिति किम् ? कर्त्तव्यमकर्त्तव्यं च / नत्रादिभिन्नैरिति किम् ? कृतं प्रकृतम् / कृताकृतादिषु ईषदसमाप्तियोतकस्य नञः प्रयोगात्त'दादयोऽपीषदसमाप्तियोतिन एवापादयः शब्दा गृह्यन्ते / अवयवधर्मेण समुदायव्यपदेशात् कृताकृतादिष्वैकार्थ्यम् / 'विशेषणं विशेष्येण.' (3 / 196) इत्येव समासः सिद्धः। किन्तु क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते प्राप्ते पूर्वनिपातनियमार्थमिदं वचनम्, तेन अकृतकृतमित्यादयः प्रयोगा [न] भवन्ति // 10 // अ० इटःक्तप्रत्ययावयवत्वात् विकारस्य तु ‘एकदेशविकृतानन्यत्वात्' न भेदकत्वम् / तेन क्लिष्टाक्लिशितं पूतापवितं शाताशितमित्यत्रापि 'तं नञादिभिन्नैः' इत्यनेन समासः सिद्धः / क्लिष्टाक्लिशितं पूतापवितमत्र 'पूङ् क्लिशिभ्यो नवा' (4 / 4 / 46) इति विकल्पेन इट् / 'छाशोर्वा' (4 / 4 / 12) इति विकल्पेन इट् / सूत्रार्थे नत्रादिभिरेव भिरित्यवधारणं किम् ? कृतं चाविहितं चेत्यत्र प्रकृतिभेदे कृतं चाकर्त्तव्यं चेति प्रत्ययभेदेः, गतश्च प्राप्तः गतश्चाज्ञात इत्यर्थभेदे, सिद्धं चाभुक्तं चेति प्रकृत्यर्थयोर्भेदे माभूत् / इयमवचूरिरपादयः शब्दा गृह्यन्ते इत्यक्षराग्रे ज्ञातव्या // 105 / / सेट् नानिटा // 3 // 11106 // सेट् क्तान्तं नञादिभिन्नेनानिटा नाम्ना सह न समस्यते, पूर्वस्यापवादः / क्लिशितमक्लिष्टम् / एवं पवितमपूतम् / सेडिति किम् ? कृताकृतम् / कथं विनावित्तम् त्राणात्रातम् ? 'क्तादेशोऽपि' (2 / 1 / 61) इति परे समासे नत्वस्यासत्त्वाद्भविष्यति // 106 // - अ० 'दैङ् 3ङ् पालने' त्रै / 'आत्सन्ध्यक्षरस्य' (4 / 2 / 1) त्रा / त्रायते स्म 'क्तक्तवतू' (5 / 1104) 'विदिप विचारणे' विद् विद्यते स्म 'क्तक्तवतू' 'ऋहीघ्राध्रात्रोन्दनुदविन्तेर्वा' (4 / 2 / 76) इति सूत्रेण तकारस्य नकारो विकल्पेन / यत्र नकारः तत्र विन्नः त्राण इति रूपम् / यत्र तु न नकारस्तत्र वित्तः त्रात इति रूपम् / विन्नं च तदवित्तं च विनावित्तम्, त्राणं च तदत्राणं च त्राणात्रातम्, कथमत्र समासः ? / सूरिराह / 'क्तादे०' (2 / 1 / 61) 'क्तं नत्रादिभिन्नैः' (3 / 1 / 105) इत्यनेनात्र समासः / विन्नमित्यत्र ‘रदादमूर्छ' (4 / 2 / 69) इति दस्य नकारः // 106 // सन्महत्परमोत्तमोत्कृष्टं पूजायाम् // 3 / 1 / 107 // सदादीनि नामान्येकार्थानि पूजायां गम्यमानायां सामर्थ्यात् पूज्यवचनैः सह समस्यन्ते, तत्पुरुषः कर्मधारयश्च / संश्चासौ पुरुषश्च सत्पुरुषः, महापुरुषः परमपुरुषः उत्तमपुरुषः उत्कृष्टपुरुषः। पूजायामिति किम् ? 1. इदं श्रेणिकृता इत्यस्यार्थप्रदर्शनम् / 2. तदादय इत्यस्य नञादय इत्यर्थः, अग्रिमेणापादयः शन्दा इत्यनेन सम्बध्यते तेन कृतापकृतमित्यादयो दृष्टान्ताः / 3. इदं शाताशितमित्यत्र विज्ञेयम् /