SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 244 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते उपमेयवाचि नामैकार्थ सामर्थ्यादुपमानवाचिभिर्व्याघ्राद्यैः सह समस्यते, उपमानोपमेययोः साधारणधर्मवाची शब्दश्वेन प्रयुज्यते, तत्पुरुषः कर्मधारयश्च / व्याघ्र इव ब्याघ्रः पुरुषः पुरुषश्चासौ व्याघ्रश्च पुरुषव्याघ्रः, एवं पुरुषसिंह इत्यादि / साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः शूर इति मा भूत् / उपमानं सामान्यैरेवेत्यवधारणेन विशेषणसमासे प्रतिषिद्धे समासविधानार्थ वचनम् // 102 // अ० साम्यस्य अनुक्तिः-अकथनं तस्यां साम्यानुक्तौ इत्यस्य शब्दस्य उपमानोपमेय इति व्याख्यानं ज्ञातव्यम्, आदिशब्दात् पुरुषवृषभः वृषभसिंहः / राज्ञी चासौ व्याघ्री च राजव्याघ्री / शुनी चासौ सिंही च श्वसिंही कर्मधारयात्पुंवद्भावः / व्याघ्र सिंह ऋषभ वृषभ महिष चन्दन वृक वराह हस्तिन् कुञ्जर रुरु पृषत पुण्डरीक कुञ्चा क्रुश्चा इति व्याघ्रादिगणः / बहुवचनमाकृतिगणार्थम्, तेन वाग्वज्रः, मुखपद्म, पाणिपल्लवम्, करकिशलयः, वदनेन्दुः, पार्थिवचन्द्रः, वानरश्वा, कुचकुम्भस्तनकलशादयोऽपि भवन्ति / 'व्याघ्रपुरुष इति शब्दरचनया समासनिषेधः / पूर्वपदवर्तमानविशेष्यशब्दस्य उत्तरपदविशेषणेन सह समासो यथा स्यादित्येवमर्थम्, 'उपमेयं व्याघ्राद्यैः' इति सूत्रं कृतमिति परमार्थः // 102 // पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् // 3 / 1 / 103 // पूर्वादिनामान्येकार्थानि परेण नाम्ना समस्यन्ते, तत्पुरुषः कर्मधारयश्च / पूर्वपुरुषः, अपरपुरुषः प्रथमपुरुषः चरमपुरुष इत्यादि / 'विशेषणं विशेष्येण.' (3 / 1196) इत्यादिनैव सिद्धे 'स्पर्द्ध' (7 / 4 / 119) इति पूर्वनिपातस्य विषयप्रदर्शनार्थ पूर्वापरयोरद्रव्यवाचिनोरनियमेन पूर्वापरभावप्रसक्तौ पूर्वनिपातनियमार्थं च वचनम्। तेन पूर्वजरत् वीरपूर्वः पूर्वपटुः / कथं एकवीर इत्यादौ वीरादेः परस्य 'स्पः' पूर्वनिपातो न भवति ? बहुलाधिकारात् // 103 // ___ अ० पूर्वश्चासौ पुरुषश्च / एवं अपरश्वासौ पुरुषश्च / जघन्यपुरुषः समानपुरुषः मध्यपुरुषः मध्यमपुरुषः वीरपुरुषः / पूर्वशब्दो दिग्योगेन कालयोगेन वा द्रव्यं विशिनष्टि, पटुशब्दश्च पटुत्वेन / 'कथं न स्यात् इति पृच्छा, सूरिराह बहुलाधिकारात् / / 103 / / श्रेण्यादि कृताद्यैळ्यर्थे // 3 // 11104 // श्रेण्यादि नाम एकार्थ कृतायैर्नामभिः सह समस्यते, व्यर्थे गम्यमाने, तत्पुरुषः कर्मधारयश्च / अश्रेयणः श्रेयणः कृताः श्रेणिकृताः पुरुषा इत्यादि / व्यर्थ इति किम् ? श्रेणयः कृताः केचित् निगृहीता अनुगृहीता वेत्यर्थः / श्रेणिकृता इत्यादौ सूत्रोदाहरणेषु क्रियाकारकसम्बन्धमात्रं न विशेषणविशेष्यभाव इति वचनम् // 10 // ___ अ० आदिशब्दात्-ऊककृताः श्रेणिमताः / श्रेणि ऊक पूग कुन्दुम कन्दुम राशि निचय विशिष्ट निर्धन कृपण इन्द्र देव मुण्ड भूत श्रमण वदान्य अध्ययक अध्यापक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण इति श्रेण्यादिगणः / कृत मत मित भूत उप्त उक्त समाज्ञात समाख्यात समाम्नात सम्भावित अवधारित अवकल्पित निराकृत उपकृत अपाकृत अपकृत कलित उदाहृत उदीरित उदित दृष्ट विश्रुत विहित निरूपित आसीन आस्थित अवबद्ध 1. यदा शूर इति साम्यमुच्यते तदा पुरुषव्याघ्र इति समासो न भवति, मूले पुरुषव्याघ्रः शूर इति समासकल्पनैव केवलं कृतेति बोध्यम् / 2. नन्वेकश्चासौ वीरश्चेति विग्रहे 'पूर्वकालैकेति' सूत्रं 'स्पर्धे' इति न्यायाद्बाधित्वाऽनेन समासे परस्य वीरशब्दस्य पूर्वनिपातप्रसङ्गेन रिक इति कथं न स्यादिति प्रश्न इति तदर्थः /
SR No.004401
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Original Sutra AuthorN/A
AuthorKshamabhadrasuri, Ratnajyotvijay
PublisherRanjanvijayji Jain Pustakalay
Publication Year
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy