________________ 248 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते कर्मधारयसंज्ञश्च / भोज्यं च तदुष्णं च भोज्योष्णम्, भोज्यलवणम्, पेयाम्लम्, पानीयशीतम्-तुल्याख्यः तुल्यश्वेतः सदृशमहान् / अजात्येति किम् ? भोज्य ओदनः, तुल्यो वैश्यः सदृशी कन्या / कथं शीतपानीयम् ? पानीयशब्दोऽयमौणादिको जलवाची तस्य विशेषणसमासः // 11 // अ० शीतं च तत् पानीयं-जलं च शीतपानीयम् // 114 // कुमारः श्रमणादिना // 3 // 1 // 115 // कुमार इति नामैकार्थं श्रमणादिनाम्ना सह समस्यते, स च समासस्तत्पुरुषः कर्मधारयश्च / कुमारी चासौ श्रमणा च कुमारश्रमणा, कुमारप्रव्रजिता, कुमारश्चासावध्यायकश्च कुमाराध्यायकः, कुमारी चासावध्यायिका च कुमाराध्यायिका / एवं कुमाराभिरूपकः कुमाराभिरूपिका / श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी बन्धकी दासी सप्तैते शब्दाः स्त्रीलिङ्गाः, एवं अध्यापक अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण इति श्रमणादिगणः / अत्र गणे ये स्त्रीलिङ्गाः शब्दास्तैः सह कुमारी इति स्त्रीलिङ्ग एव समस्यते, अध्यायकादिशब्दैः सह कुमारकुमारी इति उभयलिङ्गं समस्यते // 115 // अ० श्रमणादिगणे यदेकवचनं सेयमाचार्यशैली तत्रेयं सूचा एतावन्त एव शब्दाः / यत्र तु आचार्यो गणे बहुवचनं निर्दिशति तत्रेदं सूचयति आचार्यः, बहुवचनमाकृतिगणार्थम्, तत्र शब्दनैयत्यं नहि / कुमारी चासौ प्रव्रजिता च। एवं श्रमणादिगणे शब्दः / 'कुमारः श्रमणा०' इत्यत्र सुत्रे विशेषोऽयम् / श्रमणादीनां स्त्रीलिङ्गानां पाठात् पुंल्लिङ्गैः पूर्वनिपाते कामचारः / यथा कुमारश्रमणः तापसकुमारः / श्रमणादीनां पुंल्लिङ्गत्वे तु पूर्वनिपातेऽनियमः / यथा वृन्दारकश्रमणः श्रमणवृन्दारकः / नागतापसः तापसनाग इत्यादि / अध्यायकादयस्तु लिङ्गान्तरेऽपि परनिपातिन एव भवन्ति / यथा वृन्दारकाध्यायः वृन्दारिकाऽध्यायिका इत्यादि / / 115 // मयूरव्यंसकेत्यादयः // 3 / 1 / 116 // मयूरव्यंसकादयस्तत्पुरुषसमासा निपात्यन्ते / विगतावंसावस्य व्यंसः, व्यंसस्य तुल्यो व्यंसकः / अथवा व्यंसयति छलयतीति व्यंसकः / व्यंसकश्चासौ मयूरश्च मयूरव्यंसकः, एवं छात्रव्यंसकः / मुण्डश्चासौ कम्बोजश्च कम्बोजमुण्डः / व्यंसिका चासौ मयूरी च मयूरव्यंसिका / एतेषु विशेष्यपदस्य पूर्वनिपातो निपातनात् / एहि वाणिज इति जल्पो यस्यां सा एहिवाणिजा / एवं एहिस्वागता / आहारचेलमिति यस्यां सा आहारचेला क्रिया / अनीत पिवत इति सातत्येन उच्यते यस्यां सा अनीतपिबता / एवं खादतमोदता / एहिरे याहिरे इति यस्यां सा एहिरेयाहिरा क्रिया / एवं एहिरेगच्छरा / अहो अहं पुरुष इति यस्यां सा अहोपुरुषिका / अहं पूर्व इति यस्यां सा अहंपूर्विका, अहंप्रथमिका / अहमहमिति यस्यां सा अहमहमिका / या इच्छा यस्यां सा यदृच्छा। एषु सर्वेषु क्रियैवान्यपदार्थः / उचितं चावचितं च उच्चावचम् / उच्चैश्च नीचैश्च उच्चनीचम् / आचितं चोपचितं च आचोपचम् / आचितं चावचितं च आचोवचम् / आचापराचम् / न भवति किंचन न कचिदुपयुज्यते वेत्यकिंचनम् / नास्य कुतोऽपि भयमस्तीति अकुतोभयम् / यातं च तदनुयातं च यातानयातम् / महान्क्रयः, अल्पः क्रयिका, क्रयावयवयोगात् क्रयः, क्रयिकावयवयोगात् क्रयिका, क्रयश्वासी क्रयिका च क्रयाक्रयिका, समुदायः / निपातनात् दीर्घः / एवं पुटापुटिका फलाफलिका मानोन्मनिका इत्यादिषु व्यवस्थितपूर्वोत्तरपदसमासः // 116 //