________________ 17 श्रीसिद्धहेनशब्दानुशासने प्रयनावावस्व द्वितीयः पादः ____ अवर्णस्य ओमि आङादेशे च परे लुक् स्वात् / अयोम् [अद्य ओम् / सोम् [सा ओम् / आ ऊढा ओढा। अद्योढा / सोढा // 18 // . अ० ओमाङीति सूत्रे यथा अद्योढा तथा आ ऋश्यात् अात् / अद्य अर्यात् इति वाक्ये अद्ययात् 1 / आ इहि .एहि उप एहि इति रचनायाम् उपेहि इनि प्रयोगः 2 / एवं परा एहि परेहि-३। उप एत उपेत 4 इति प्रयोगचतुष्टयमाडादेशविषयं ज्ञातव्यम् / अद्य / इदम् अस्मिनहनि अद्य 'सद्योऽद्यपरेद्यव्यह्नि' (7 / 2 / 97) इति द्यप्रत्ययः इदमोऽद्भावः / सिः / 'अव्ययस्य' (3 / 2 / 7) इति लुक् / 'अव रक्षणे' इति दण्डकधातुः अव् अवति रक्षति ध्यातारमिति ओम् / औणादिकोऽयम् ‘मव्यविश्रिविज्वरित्वरेरुपान्त्येन' (4 / 1 / 109) इति अवस्य ऊट गुणः ओम् // 18 // . उपसर्गस्याऽनिणेधेदोति // 12 // 19 // उपसर्गावर्णस्य इण्एधिवर्जे एदोदादौ धातौ परे लुक् स्यात् / प्रेलयति परेलयति / प्रोखति / परोखति। अनिणेधिति किम् ? उपैति / उपैधते // 19 // - अ० इण् च एध् च इणेध / न इणेध अनिणेध् ‘अन् स्वरे' (3 / 2 / 129) नञोऽन् / अनिणेच तत् एच्च अनिणेधेत् / अनिणेधेच्च तत् ओच्च अनिणेधेदोत् / तस्मिन् / 'इलण् प्रेरणे' / उखनख इति दण्डकधातुः / 'इण्क् गतौ' 'एधि वृद्धौ' // 19 // वा नाम्नि // 12 // 20 // नामावयवे एदोदादौ धातौ परे उपसर्गावर्णस्य लुग्वा स्यात् / उपेकीयति [एकमिच्छति / ] उपैकीयति / प्रोषधीयति [औषधमिच्छति / ] प्रौषधीयति // 20 // .. इवर्णादेरस्वे स्वरे यवरलम् // 1 // 2 // 21 // इ उ क लवर्णानामस्वे स्वरे परे यथासङ्ग्यं यवरला इत्येते स्युः / दध्यत्र / नयेषा / मध्वत्र / वध्वासनम्। पित्रर्थः / क्रादिः / लित् / लाकृतिः // 21 // ___अ० इवर्ण आदिर्येषां उवर्णादीनां स इवर्णादिः / तस्य / षष्ठीङस् / 'डित्यदितिः' (1 / 4 / 23) इति इकारस्य एकारः / “एदोद्भ्यां ङसिङसोरः' (1 / 4 / 35) अनेन ढसोरकारः क्रियतेः / केचित् इवर्णादेरिति पञ्चम्यन्तं व्याख्यान्ति / इवर्णादेः परतो यवरला भवन्तीति मतम् / तन्मते दधि यत्र / मधुवत्र / भूवादयः इत्यादयः / दधि अत्र, दधियत्र, दध्यत्र, दध्यत्र इत्यादि प्रयोगत्रयं भवति / वध्वा आसनम् / पितुरर्थः / कृ आदिर्यस्य स क्रादिः / लुकारो इत् अनुबन्धो यस्य स लित् / तृवत् आकृतिर्यस्य लाकृतिः // 21 // - ह्रस्वोऽपदे वा // 1 // 2 // 22 // . इवर्णादीनामस्वे स्वरे परे ह्रस्वो वा स्यात् / न चेत्तौ निमित्तनिमित्तिनावेकत्र पदे [पदमध्ये इत्यर्थः] स्याताम्। नदि एषा / नयेषा / मधु अत्र / मध्वत्र / अपद इति किम् ? नद्यौ / नद्यर्थः // 22 // ___अ० ह्रस्वोऽपदे वा / अनेन पदान्ते इवर्णादीनां वापि ह्रस्वस्यापि ह्रस्वः क्रियते वापि दीर्घस्य ह्रस्वः क्रियते पर्जन्यवल्लक्षणप्रवृत्तेः / यथा पर्जन्यो मेघो यावदूनं सम्पूर्णं वा सर्व वृष्टया पूरयति / तथा सूत्रमपि ह्रस्वे ह्रस्वं दीर्धे ह्रस्वं प्रवर्त्तयति / ह्रस्वकरणसामर्थ्यादेव कार्यान्तरं न भवति / अत्र कश्चित्प्रकृतिभावमपि इच्छति / तथा च तन्मते कुमारी अत्र, कुमारि अत्र, कुमारि यत्र, कुमार्यत्र इति प्रयोगचतुष्टयं भवति / 'ह्रस्वोऽपदे वा' इति सूत्रं