________________ 16 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते ध्यण' (5 / 1 / 17) / प्र. प्रकर्षेण एषः प्रैषः / प्र. प्रकर्षण एष्यः / प्र० ऊढः / प्र० ऊढि / प्र० प्रकर्षेण ऊहः प्रौहः // 14 // स्वैरस्वैर्यऽक्षौहिण्याम् // 12 // 15 // __ स्वैर स्वैरिन् अक्षौहिणी इत्येतेषु निःपत्स्यमानेष्ववर्णस्य परेण स्वरेण सह ऐ औ स्याताम् / स्वैरः / स्वैरी / अक्षौहिणी सेना // 15 // अ० ईरणं ईरः स्वस्य ईरः स्वैरः / अथवा स्व ईरोऽत्र इति स्वैरमास्यताम् / अथवा स्वेन ईरति ईर्ने वा इति स्वैरः / स्वयमीरितुं शीलमस्येति स्वैरी 'अजातेः शीले' (5 / 1 / 154) इति णिन् / 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्यायात् स्वैरिणी इत्यपि ज्ञातव्यम् / तथा अक्ष. ऊह. अहोऽस्यास्तीत्यूहिनी / अक्षाणामूहिनी अक्षौहिणी 'पूर्वपदस्थानाम्न्यगः' (2 / 3 / 64) इति णत्वम् / मुग्धजना अक्षौहिणीसेनाप्रमाणमेवमाहुः-‘स्यात्सेनाऽक्षौहिणी नाम खागाष्टैकद्विकैर्गजैः / रथैश्चैभ्यो हयैत्रिध्नैः पञ्चध्नैश्च पदातिभिः // 1 // (गज 21880 रथ. 21880 हय 65640 पदाति 109400) // 15 // अनियोगे लुगेवे // 1 // 2 // 16 // अनियोगो [अनिश्चयः] ऽनवधारणम् / तद्विषये एवशब्दे परेऽवर्णस्य लुक् स्यात् / अयेव गच्छ इहेव तिष्ठ [अत्र एवो वाक्यालङ्कारमात्रे] / नियोगे तु इहैव तिष्ठ-मागाः // 16 // ___ अ० गच्छ / अमद्रमेति गम्धातुः / पञ्चमीहि / 'कर्त्त-नभ्यः शव्' (3 / 4 / 71) 'गमिषद्यमश्छः ' (4 / 2 / 106) इति मस्य छः / 'स्वराच्छौ' (1 / 4 / 65) इति छस्य द्वित्वम् 'अघोषे प्रथमो०' (1 / 3 / 50) इति एकछस्य चः / 'अतः प्रत्ययाल्लुक्' (4 / 2 / 85) इति हेर्लुक् / 'श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादाम्०' (4 / 2 / 108) इत्यादिना स्थाधातोः तिष्ठ आदेशः / 'इण्क् गतौ' माङ् अद्यतनीस् / 'सिजद्यतन्याम्' (3 / 4 / 53) 'पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट्' (4 / 3 / 66) इति सिचो लुप् / 'इणिकोर्गाः' (4 / 4 / 23) इति गाः // 16 // वौष्ठौतौ समासे // 1 // 2 // 17 // ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा भवति / बिम्बोष्ठी बिम्बोष्ठी / स्थूलोतुः स्थूलौतुः / समास इति किम् ? हे पुत्रौष्ठं पश्य ['अदेतः स्पमोलुंक्' (1 / 4 / 44) इति सेलुक् // 17 // अ० ओष्ठावयवयोगात् द्व्यात्मकः समुदायोऽप्योष्ठः / ओत्ववयवयोगात् द्वयात्मकः समुदायोऽप्योतुः। ओष्ठश्चासावोतुश्च / अथवा ओष्ठेन युक्त ओतुरोष्ठोतुः / तस्मिन् सप्तमीङिः 'डिडौँ' (1 / 4 / 25) 'डित्यन्त्य०' (2 / 1 / 114) इति उलोपः / बिम्ब-गौरादिभ्यो मुख्यान्डीः (2 / 4 / 19) इत्यनेन ङीः / 'अस्य ड्यां लुक्' (2 / 4 / 86) इत्यस्य लोपः / बिम्ब्याः फलं बिम्बम् 'हेमादिभ्योऽञ्' (6 / 2 / 45) 'फले' (6 / 2 / 58) लुप् ईकारलोपः 'ड्यादेगौणस्य.' (2 / 4 / 95) इति ङीनिवृत्तिः पुनर्बिम्बशब्दः / बिम्बाकारावोष्ठौ यस्याः सा बिम्बोष्ठी 'नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात्' (2 / 4 / 39) अनेन डीः / 'अस्य ङ्यां लुक्' इति अलोपः सिः 'दीर्घङयाब्०' (1 / 4 / 45) / इति सेलुंग् / स्थुलश्चासौ ओतुश्च स्थुलोतुः / पुत्र अदेतः स्यमोर्चेक् (1 / 4 / 44) दृश् अद्यतनीस् / 'श्रौति०' (4 / 2 / 108) इत्यादिना दृशः पश्य आदेशः // 17 // ओमाङि // 1 // 2 // 18 //