________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्व द्वितीयः पादः अ० शीतेन ऋतः शीतार्त्तः / दुःखेन ऋतः दुःखार्त्तः / हस्वोऽपि भवति-शीत ऋतः दुःख ऋतः // परमश्वासावृतश्च // 8 // प्रत्यारुपसर्गस्य // 12 // // उपसर्गस्थस्यावर्णस्य प्रकारादी धातौ परे अता परेण सह आर् स्यात् / प्रार्छति / परार्छति // 9 // अ० आर् इति वर्तमाने पुनरार् ग्रहणम् आरेव यथा स्यादित्येवमर्थं तेन इह उत्तरत्र सूत्रयोश्च हस्वत्वं बाध्यते / / 9 / / नाम्नि वा // 1 // 2 // 10 // उपसर्गस्थस्यावर्णस्य प्रकारादौ नामावयवे थातौ परे ऋता सह आर् स्यात्, वा / प्रार्षमीयति प्रर्पभीयति // 10 // ___ अ० नाम्नि वेत्यत्र 'ईडौ वा' (2 / 1 / 109) इत्यमेन अनोऽकारलोपः / ऋषभमिच्छति ऋषभीयति / 'अमाव्ययात् क्यन् च' (3 / 4 / 23) इति क्यन् / 'अप्रयोगीत्' (1 / 1 / 37) यस्तिष्ठति 'क्यनि' (4 / 3 / 112) इति सूत्रेण ईकारः // 10 // . . लुत्याल्वा // 12 // 11 // . उपसर्गावर्णस्य लुकारादौ नामावयवे धातौ परे लता सह आल्वा स्यात् / [ल] उपाल्कारीयति [] उपल्कारीयति // 11 // ... ऐदौत्सन्ध्यक्षरैः // 12 // 12 // . अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् / तवैषा / खट्दैषा / तवैन्द्री / सैन्द्री / तबौदनः। तवौपगवः // 12 // ___ अ० सन्ध्यक्षरैरिति वचनादिदं ज्ञायते-एकारऐकाराभ्यां सह ऐकारः ओकारऔकारभ्यां सह औकारो भवति -अवर्णस्येत्यर्थः / / एषा-एतत् सिः ‘आदेरः' (2 / 1 / 41) 'तः सौ सः' (2 / 1 / 42) 'नाम्यन्तस्था०' (2 / 3 / 15) इति सस्य षः 'आत्' (2 / 4 / 18) / इन्द्रस्येयं दिग् ऐन्द्री 'तस्येदम्' (6 / 3 / 160) इत्यण् 'वृद्धिः स्वरे०' (7 / 4 / 1) इति वृद्धिः 'अवर्णेवर्णस्य' (7 / 4 / 68) इति अस्य लोपः 'अणनेयेकण्नस्नटिताम्' (2 / 4 / 20) इति डीप्रत्ययः ‘अस्य ड्यां लुक्' (2 / 4 / 86) इति अलोपः / / उपगताः समीपगता गावो यस्य स उपगुः ‘गोश्चान्ते हस्वोऽनंशि०' (2 / 4 / 96) इति ह्रस्वः, गुः / उपगोरपत्यं औपगवः ‘डसोपत्ये' (6 / 1 / 28) ऽण् / वृद्धिः / 'अस्वयम्भुवोऽव्' (7 / 4 / 70) / / 12 / / ऊटा // 1 // 2 // 13 // अवर्णस्य परेण ऊटा सह औः स्यात् / धौतः / धौतवान् // 13 // अ० धौतः 'धावूग् गतिशुद्धयोः' धावति स्म 'क्तक्तवतू' (5 / 1 / 174) / 'गत्यर्थाऽकर्मकपिबभुजेः' (5 / 1 / 11) इति क्तः कर्तरि / 'अनुनासिके च च्छ्रः शूट्' (4 / 1 / 108) इति वकारस्य उट् // 13 / / प्रस्यैषैष्योढोड्यूहे स्वरेण // 12 // 14 // प्राऽवर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् / प्रेषः / प्रेष्यः / प्रौढः / प्रौढिः / प्रौहः॥१४॥ अ० 'इषत् इच्छायाम्' एषणं एषः / ‘भावाकोंः ' (5 / 3 / 18) घञ् / एष्यते इति एष्यः 'ऋवर्णव्यञ्जनान्ताद्