________________ कलिकालसर्वज्ञभीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते एवं प्रयोगत्रयम् / तौ चेति-ऋकारमध्ये एव अकारो वा भवति / एवं ऋकारस्य लुकारो वा / अत्रापि पक्षे यथाप्राप्तमिति ज्ञातव्यम् / प्रयोगयुक्तिः पूर्ववदेव दीर्घह्रस्वादिका भवति / एवं पिल्लषभः पितृषभः पितृ ऋषभः पितृ ऋषभः पितृषभः इति प्रयोगचतुष्टयम् / होतृ ऋकारः / होतृकारः // 2 // होत अग्रे लुकारः / तत्र होल्लकारः / होतृकारः / होतृ लकारः / होत्लृकार- इति प्रयोगा 4 भवन्ति / / 4 / / . ऋस्तयोः // 12 // 5 // तयोः पूर्वस्थानिनोः लकारकास्योः स्थाने यथासङ्गच लता ऋता च परेण सह ऋकार इति द्विमात्रः स्यात् / कृषभः / होतृकारः // 5 // ... __ अवर्णस्येवर्णादिनैदोदरल् // 12 // 6 // अवर्णस्य इ उ ल वणः सह यथासङ्ग्यं ए औं अर् अल् इत्येते आदेशाः स्युः / देवेन्द्रः / तवेहा। मालेयम् / सेक्षते / तवोदकम् / तवोढा / गङ्गोदकम् / सोढा / तवर्षिः / तवारः। महर्षिः / सर्कारः [सा ऋ] / तवल्कारः [4] / सल्कारेण [सा लू] // 6 // __ अ० देवानामिन्द्रः देवेन्द्रः / 'ईहि चेष्टायाम्' ईहनमीहा 'क्तेटो गुरोर्व्यञ्जनात्' (5 / 3 / 106) इति अः 'आत्' (2 / 4 / 18) इत्याप् / मीयते मालाकारैरिसि माला 'श्यामाश्यावशक्यम्ब्यमिभ्यो लः' (462) इति लः / इदम् सिः 'अयमियम् पुंत्रियोः सौ' (2 / 1 / 38) इति इयम् आदेशः। वहीं प्रापणे' उह्यतेस्म ऊढः 'क्तक्तवतू' (5 / 1 / 174) इति क्त: 'यजादि वचेः किति' (4 / 1 / 79) इति प्वृत् वकारः क्रियते ‘हो धुट् पदान्ते' (2 / 1 / 82) इति हस्य ढः 'अधश्चतुर्थात्तथोर्धः' (2 / 1179) इति तस्य यः 'तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवर्गौ' (1 / 3 / 60) इति धस्य ढः 'ढस्तड्ढे' (1 / 3 / 42) इत्यनेन उकारस्य दीर्घ ऊ ढकारस्य च लोपः ऊढ इति, स्त्री चेत् ऊढा 'आत्' इति आप् / सिः / / गङ्गाया उदकं गङ्गोदकम् // 6 // ... ऋणे प्रदशार्णवसनकम्बलवत्सरवत्सतरस्यार् // 1 // 27 // प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् [अरोऽपवादः / ] प्रार्णम् / दशार्णम् / ऋणार्णम् / वसनार्णम् / कम्बलार्णम् / वत्सरार्णम् / वत्सतरार्णम् ॥णा अ० ऋणेति सूत्रेऽयं विशेषः / समानानामिति बहुवचनस्य व्याप्त्यर्थेनोक्तत्वादिहोत्तरत्रसूत्रेष्वपि हस्वोऽपि भवति / प्र ऋणं दश ऋणमित्यादि / प्रगतं ऋणं प्रार्णम् / दशानामृणं दशार्णम् / ऋणस्यावयवतया सम्बन्धि ऋणं ऋणार्णम् / ‘वसिक् आच्छादने' वस्यते आच्छद्यते तत् वसनम् ‘भुजिपत्यादिभ्यः कर्मापादाने' (5 / 3 / 128) इत्यनट् / वसनानामृणम् / काम्यते / शीतात्तैरिति कम्बलः ‘कमिशमिपलिभ्यो बलः' (499) कम्बलानामृणम् / वसन्ति ऋतवोऽस्मिन्निति वत्सरं वर्षम् *मीज्यजिमामद्यशौवसिकिभ्यः सरः' (439) (इति सरः) सस्य त् / वत्सरस्य ऋणम् / वत्सतरस्य ऋणम् / 'ऋक् गतौ' / इयर्त्ति कालान्तरेऽपीति ऋणम्* 'घृवीह्वाशुष्युषितृषिकृष्यतिभ्यः कित्' (183) इति णः, स च कित् // 7 // ऋते तृतीयासमासे // 1 // 28 // अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर् स्यात् / शीतातः / दुःखातः / तृतीयासमास इति किम् ? परमतः // 8 //