________________ 194 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते साक्षात् यकारान्तशब्दप्रतिपत्त्यर्थम् / तेन वतण्डस्यापत्यं वृद्धं स्त्री इति वाक्ये वतण्डी इति प्रयोगः / अत्र. हि वतण्डशब्दात् 'वतण्डात्' (6 / 1 / 45) इति तद्धितसूत्रेण यञ् / 'स्त्रियां लुप्' (6 / 1 / 46) इति तद्धितसूत्रेण यञ्प्रत्ययो लुप्यते / यत्रः पुनः स्थानिवद्भावत्वेऽपि यान्तलक्षणो ङीप्रतिषेधो न प्राप्नोति इति अन्तग्रहणं कृतम् / एतेन यत्रः साक्षात् यान्तत्वात् ङीर्न भवति / यकारे निवृत्ते ङीर्भवत्येवेति परमार्थः / कथं महाशूद्री आभीरजातिः ? नात्र शूद्रशब्दो जातिवाची / किं तर्हि ? महाशूद्रशब्दः / यत्र तु शूद्रशब्द एव जातिवाची तत्र ङीन भवत्येव / यथा महती चासौ शूद्रा च महाशूद्रा / अत्र जातिलक्षणस्य चायं निषेधः / तेन धवयोगे डीर्भवत्येव-शूद्रस्य भार्या शूद्री / न तु पर्णशब्दस्यैव जातित्वम् / तस्य च सुशब्देन सह समासे कृते सति अमुख्यत्वमिति डीन प्राप्नोतीत्याशयः / सूरिराह / सुपर्णशब्दस्यापि जातिवाचित्वात् तस्य मुख्यत्वात् // 54 // पाककर्णपर्णवालान्तात् // 2 // 4 // 55 // पाकायन्ताज्जातिवाचिनो नाम्नो ङीः स्यात् [स्त्रियाम्] / ओदनपाकी आखुकर्णी मुद्रपर्णी गोवाली अश्ववाली / एता ओषधिजातीनां संज्ञाः / जातिरित्येव-बहुपाका यवागूः // 55 // अ० ओदनस्येव पाको यस्याः ओदनपाकी / एवं क्षणं क्षणेन वा पाकोऽस्याः क्षणपाकी / आखोः कर्णी इव कर्णौ यस्याः आखुकर्णी / मुद्गस्येव पर्णान्यस्याः मुद्गपर्णी / गोरिव वालाः केशा अस्या गोवाली // 55 // . असत्काण्डप्रान्तशतैकाञ्चः पुष्पात् // 2 // 4 // 56 // . सदादिरहितशब्दपूर्वो यः पुष्पस्तदन्ताजातिवाचिनाम्नो डीः स्यात् (स्त्रियाम्) / शङ्खपुष्पी सुवर्णपुष्पी। सदादिप्रतिषेधः किम् ? सत्पुष्पा काण्डपुष्पा प्रान्तपुष्पा शतपुष्पा. एकंपुष्पा प्राक्पुष्पा प्रत्यक्पुष्पा // 56 // अ० शङ्खपुष्पीप्रभृति ओषधीनां नित्यस्त्रीजतित्वात् डीसिद्धयर्थम् 'असत्काण्डपान्त०' इति सूत्रं कृतम् / अन्यथा 'जातेरयान्त०' (2 / 4 / 54) इति पूर्वसूत्रेण नित्यस्त्रीजातित्वात् ङीर्न प्राप्नुयात् / शङ्खवर्णं पुष्पं यस्याः शङ्खपुष्पी / सुवर्णवर्णं पुष्पमस्याः सुवर्णपुष्पी / सन्ति विद्यमानानि पुष्पाण्यस्याः सत्पुष्पा / काण्डे पुष्पमस्याः काण्डपुष्पा / एवमग्रेऽपि // 56 // असम्भस्त्राजिनैकशणपिण्डात् फलात् // 2 // 4 // 57 // समादिवर्जितो यः फलस्तदन्ताजातिवाचिनाम्नो ङीः स्यात् [स्त्रियाम्] / वासीफली। पूगफली / समा. दिवर्जनं किम् ? सम्फला भस्वाफला अजिनफला एकफला शणफला पिण्डफला // 5 // ___ अ० वासीफलीप्रमुखाः पिण्डफलपर्यन्ता एता ओषधिजातिविशेषाणां सञ्ज्ञा ज्ञातव्याः / वासीफली पूगफली दाडिमफली-एषु डीसिद्धयर्थं 'असम्भस्राजिन०' इति सूत्रं कृतम् / अन्यथा 'जातेरयान्तनित्यस्त्रीशूद्रात्' इति पूर्वसूत्रेण ङीप्रतिषेधः स्यात् // 57|| __ अनञो मूलात् // 2 / 4 / 58 // नञ्चर्जात्परो यो मूलशब्दस्तदन्ताजातिवाचिनाम्नो डीः स्यात् [स्त्रियाम्] / दर्भमूली। अनत्र इति किम् ! अमूला // 58 // अ० दर्भमूली शीर्षमूली / अत्रापि ङीसिद्धये 'ऽनञो मूलादि ति सूत्रं कृतम् / अन्यथा नित्यत्रीजातिरूप. त्वाऽज्जातेरयान्ते'ति पूर्वसूत्रेण ङीप्रतिषेधः स्यात् // 58||