________________ 193 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः ____ अ० ऊढायामिति किम् ? पतिरियम् / अत्र कोऽर्थः ? सङ्ग्रहीता स्त्री अभार्या वा / अनयोरपि कः परमार्थः ? कामार्दितेन अनग्निसाक्षिकं दारकर्मकत्वे याऽपि गृहीता सा सङ्ग्रहीता उच्यते, अथवा भार्याया अन्याऽप्रधानभूता भगिन्यादिका उच्यते // 51 // पाणिगृहीतीति // 2 // 4 // 52 // [जस् सूत्रत्वात् लुप्] इतिः प्रकारार्थः / पाणिगृहीतिप्रकाराः शब्दा ऊढस्त्रियां ड्यन्ता निपात्यन्ते / पाणिगृहीती करगृहीती। पाणी आदीयतेस्म] पाण्यात्ती / ऊढायामिति किम् ? यस्या यथाकथंचित् पाणिर्गृह्यते सा पाणिगृहीता // 52 // ___ अ० पाणौ गृह्यतेस्म इति पाणिगृहीती / “क्तक्तवतू' (5 / 1 / 174) 'गृह्णोऽपरोक्षायाम् दीर्घ' (4 / 4 / 34) इत्यनेन इटो दीर्घः / अथवा पाणिर्गृहीतोमस्याः पाणौ गृहीता वा / एवं करगृहीतीत्यादि // 52 / / पतिवत्न्यन्तर्वन्यौ भागर्भिण्योः // 2 // 4 // 53 // भार्या अविधवा [सभर्तृका] स्त्री / तस्यां वाच्यायां पतिमच्छब्दात् डीः, पतिवत्नादेशः, तथा गर्भिण्यां त्रियां वाच्यायां अन्तर्वच्छब्दात् ङीः अन्तर्वत्नादेशश्च निपात्यते / निपातनादेव चाधिकरणप्रधानादप्यन्तः [अन्त-मध्ये इत्येवं] शब्दान्मतुप्रत्ययः [मत्वर्थीयः] स्यात् // 53 // . अ० पतिवत्नी च अन्तर्वत्नी च / पति० औ / सूत्रे उदाहरणद्वयमपीदृशमेव / पृथग् न लिखितम् / पतिरस्यास्तीति पतितम् / अन्तरस्यास्तीति अन्तर्मत् / 'तदस्यास्ति' (7 / 2 / 1) इति मतुः। पश्चात् ‘पतिवल्यन्त०' इत्यनेन डीः पतिवत्न आदेशश्च निपात्यते / पतिवनी जीवत्पतिः सधवा उच्यते / अन्तर्वत्नी गर्भिणी उच्यते // 53 / / जातेरयान्तनित्यस्त्रीशूद्रात् // 2 // 4 // 54 // जातिवाचिनोऽकारान्तात् डीः स्यात् [स्त्रियाम्] / यदि तनाम यान्तं नित्यस्त्रीजातिवाचि शूद्रशब्दो वा न भवति / तत्र जातिस्त्रिधा 'आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् / सकृदाख्यातनिर्लाह्या गोत्रं च चरणैः सह // 1 // कुकुटी सूकरी / तथा ब्राह्मणी वृषली / तथा कठी चारायणी / जातेरिति किम् ? मुण्डा शुक्ला / अयान्तेति किम् ? इभ्या क्षत्रिया आर्या / गवयी हयी मनुषी मत्सी ऋश्यी इति गौरादिपाठाद् / नित्यस्त्रीजातिवर्जनं किम् ? मक्षिका खट्वा / शूद्रवर्जनं किम् ? शूद्रा / आत् इति किम् ? तित्तिरिः, कोयष्टिः / मुख्यादिति किम् ? बहुब्राह्मणा शाला / कथं सुपर्णी ? सुपर्णशब्दस्यापि जातिवाचित्वात् // 54 // ___अ० जायेते उत्पद्यतेऽभिधानप्रत्ययौ अस्याः सकाशात् इति जातिः / जातिस्त्रिधा / कुक्कुटी सूकरी प्रथमजातिभेदे उदाहरणद्वयम् / द्वितीयजातिभेदे उदाहरणद्वयम् / तथा तृतीयजातिभेदे उदाहरणद्वयी / कठेन प्रोक्तो वेदः कठः 'तेन प्रोक्ते' (6 / 3 / 181) इति सूत्रेण अण् / कठप्रोक्तं वेदं वेत्त्यधीते वा 'तद्वेत्त्यधीते' (6 / 2 / 117) इति सूत्रेण पुनरण् / 'कठादिभ्यो वेदे लुप्' (6 / 3 / 183) इति सूत्रेण प्रथमकृतोऽण् लुप्यते, तदनन्तरं 'प्रोक्तात्' (6 / 2 / 129) इति सूत्रेण द्वितीयः कृतोऽण् लुप्यते / स्त्री चेत् कठी / इभ्यमर्हति इभ्या 'दण्डादेर्यः' (6 / 4 / 178) इति यः 'अवर्णेवर्णस्य' (7/468) / क्षत्रस्यापत्यं स्त्री क्षत्रियः 'क्षत्रादियः' (6 / 1 / 93) इति इयप्रत्ययः / मनुः / मनोरपत्यं स्त्री मनुषी / 'मनोर्याणौ षश्चान्तः' (6 / 1 / 94) इति सूत्रेण यप्रत्ययः, मनुशब्दात् षोऽन्तश्च / ‘गौरादिभ्यो०' (2 / 4 / 19) डीः, 'व्यञ्जनात्तद्वितस्य' (2 / 4 / 88) इत्यनेन तद्धितयकारलोपः, मनुषी / मत्स्यः / 'गौरादि०' (2 / 4 / 19) ङीः ‘मत्स्यस्य यः' (2 / 4 / 87) इति सूत्रेण मत्स्यशब्दे यकारलोपः / 'जातेरयान्त०' इत्यत्र अन्तग्रहणं