________________ 192 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते विकल्पेन क्तान्तस्य पूर्वनिपातः / यत्र क्तान्तं न पूर्वं तत्रैव ‘अनाच्छाद०' इति सूत्रेण डीर्भवति / सूत्रे क्तान्तात डीरुक्तः / यत्र तु क्तान्तं पूर्वं तत्र आप् एव जग्धशाङ्गरा / मासो यातो गतोमस्याः सा मासयाता यातमासा, मासगता गतमासा इतिवत् / अत्र 'जातिकालसुखादेर्नवा' (3 / 1 / 152) इति कालद्वारेण विकल्पेन क्तान्तं पूर्व निपतति / आदिशब्दात् संवत्सरयाता यातसंवत्सरा, बहुयाता यातबहुः, सुखयाता यातसुखेत्यादि (एषु सर्वत्र तालव्योकारो न च वर्गसम्बन्धीजः ?) कुण्डमिता कुण्डजाता वृक्षप्रतिपन्ना // 47 // पत्युर्नः // 2 // 4 // 48 // पत्यन्ताद्हुव्रीहेमर्वा स्यात् [स्त्रियाम्] / अन्त्यस्य नकारादेशश्च / दृढपत्नी दृढपतिः इत्यादि / मुख्यादित्येव-बहुस्थूलपतिः पुरी // 48 // अ० दृढपत्नीत्यादि / दृढः पतिरस्या दृढपत्नी / आदिशब्दात् स्थिरपत्नी स्थिरपतिः, स्थूलपत्नी स्थूलपतिः, वृद्धपत्नी वृद्धपतिः / स्थिर स्थूलो वृद्धः पतिरस्याः सा / तथा बहुस्थूलपतिः पुरी-अत्र स्थूलाः पतयो यासां ताः स्थूलपतयः / बह्वयः स्थूलपतयो यस्यां पूर्यां नगर्यां सा बहुस्थूलपतिः / प्रथमबहुव्रीहेः परतो विकल्पितत्वे न ङीः / डीविधानपक्षे तु बहुस्थूलपत्नीका इति प्रयोगो भवत्येव / बहुस्थूलपतिः पुरीत्यत्र च पत्यन्तो बहुव्रीहिर्मुख्यो नहि / यस्तु मुख्यः स पत्यन्तो नास्ति / यदा तु स्थूलश्चासौ पतिश्चेति कर्मधारये सति बहवः स्थूलपतयो यस्यां इति बहुव्रीहिस्तदापि स्थूलपत्यन्तो बहुव्रीहिर्न पत्यन्त इति न डीः // 48 // सादेः // 2 // 4 // 49 // सपूर्वोत्पत्यन्तात् ङीर्वा स्यात् [स्त्रियाम्] / अन्तस्य नकारादेशश्च / पूर्वेणैव सिद्धे पुनर्वचनं बहुव्रीहिनिवृत्त्यर्थम् / [ग्रामस्य पतिः] ग्रामपत्नी ग्रामपतिः / अधिपत्नी अधिपतिः / बहुपत्नी बहुपतिः / सादेरित्येव-पतिरियम् / मुख्यादिति किम् ? [अतिक्रान्ता] पतिम् अतिपतिः // 49 // अ० अधिष्ठात्री पतिः अधिपत्नी अधिपतिः / ईषदूनपतिः बहुपत्नी बहुपतिः / 'नाम्नः प्राग्बहुर्वा' (7 / 3 / 12) इति सूत्रेण बहुः पूर्वं क्रियते // 49 / / सपत्न्यादौ // 2 // 4 // 50 // सपत्न्यादिषु यः पतिशब्दस्तस्मात् स्त्रियां डीः स्यात्, नान्तादेशश्च / पुनर्विधानं नित्यार्थम् / सपत्नी एकपत्नी वीरपत्नी पिण्डपत्नी भ्रातृपत्नी पुत्रपत्नी / षडेव सपत्न्यादयः। समुदायनिपातनं समानस्य सभावार्य पुंवद्भावप्रतिषेधार्थ च / सपत्नीभार्यः // 50 // ___ अ० समानः पतिरस्याः सपत्नी / अथवा समानस्य पतिः सपत्नी / एवं एकः पतिरस्या एकपत्नी / वीरः पतिरस्या इत्यादि / 'समानस्य धर्मादिषु' (3 / 2 / 149) इत्यत्र धर्मादिगणे पत्नीशब्दो न पठित इति सभावो न प्राप्नोति इति ‘सपल्यादौ' सभावार्थं समुदायस्य निपातनं कृतम् / पुंवद्भावोऽपि प्रतिषिध्यते सपत्नी इति निपातबलात् / यथा सपत्नीभार्यः // 50 // ऊढायाम् // 2 // 4 // 51 // [परिणीता स्त्री] .. ___ पतिशब्दात्केवलाढायां परिणीतायां स्त्रियां ङीर्नान्तादेशश्च स्यात् / पत्नी। वृषलस्य पत्नी। ऊढायामिति किम् ? पतिरियम् // 51 //